Rajasthan Board RBSE Solutions for Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम् Questions and Answers, Notes Pdf.
The questions presented in the RBSE Solutions for Class 6 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 6 all subjects will help students to have a deeper understanding of the concepts. Students can access the class 6 sanskrit chapter 5 question answer and deep explanations provided by our experts.
प्रश्न 1.
गृहे आवश्यककार्याय दिनद्वयस्य अवकाशार्थ स्वस्य प्रधानाध्यापकाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत।
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः
राजकीय-माध्यमिक-विद्यालयः
अलवरम् (राज.)
विषय:-अवकाशाय प्रार्थना-पत्रम्।
महोदय!
सविनयं निवेदनमस्ति यत् मम गृहे अत्यावश्यक कार्यमस्ति। अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अतः दिनांक 18-10-20XX तः 19-10-20XX ई. पर्यन्तं दिनद्वयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।
दिनाङ्कः 17-10-20xx ई.
भवताम् आज्ञापालकः
कृष्णगोपालः
कक्षा-षष्ठम् 'अ'
प्रश्न 2.
त्वम् रुग्णोऽसि, अतः स्वस्य प्रधानाध्यापकाय दिनत्रयस्य अवकाशाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत।
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः
राजकीय-माध्यमिक विद्यालयः
जोधपुरम् (राज.)
विषयः-अवकाशाय प्रार्थना-पत्रम्।
महोदय!
सविनयं निवेदनमस्ति यत् अहं ज्वरपीडया रुग्णोऽस्मि। अत: विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनाङ्क 25-11-20XX त: 27-11-20xx ई. पर्यन्तं दिनत्रयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।
दिनाङ्कः 24-11-20XX ई.
भवताम् आज्ञापालक शिष्यः
रघुनन्दनः
कक्षा-षष्ठम 'ब'
प्रश्न 3.
तव भ्रातुः विवाहः वर्तते, एतदर्थम्, दिनत्रयस्य अवकाशाय स्वस्य प्रधानाध्यापकाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत।
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः
राजकीय-माध्यमिक-विद्यालयः
बीकानेरम् (राज.)
विषयः-अवकाशाय प्रार्थना-पत्रम्।
महोदय!
सविनयं निवेदनमस्ति यत् मम भ्रातु: विवाह 10-12-20XX दिनाङ्के भविष्यति। अस्मात् कारणात् अहं विद्यालये आगन्तुं न शक्नोमि। अत: दिनाङ्क 9-12-20XX तः 11-12-20XX ई. पर्यन्तं दिनत्रयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।
दिनाङ्कः 8-12-20XX ई.
भवताम् आज्ञापालिका शिष्या
राधा शर्मा
कक्षा-षष्ठम् 'अ'
प्रश्न 4.
शुल्क मुक्ति हेतु प्रधानाचार्य को प्रार्थनापत्र लिखिए।(संस्कृत में)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदय:
राजकीय-उच्च-माध्यमिक विद्यालयः
जोधपुरम् (राज.)।
विषय:-शुल्कमुक्त्यर्थं प्रार्थनापत्रम्।
महोदयः,
सविनयं निवेदनम्, अस्ति यत् मम पिता विद्युतविभागे चतुर्थश्रेणी-कर्मचारी अस्ति। तस्य मासिकं वेतनम् अल्पम् अस्ति। अस्माकं परिबारे षट्सदस्याः सन्ति। मम परिवारस्य आर्थिकदशा समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते।
अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य शिक्षणशुल्कात् मुक्तिं प्रदास्यन्ति श्रीमन्तः इति।
सधन्यवादम्।
दिनांक : 8.3.20XX
भवदाज्ञाकारी शिष्यः
सुरेशः
(षष्ठी कक्षा)
प्रश्न 5.
स्थानान्तरण प्रमाणपत्र हेतु प्रधानाचार्य को प्रार्थना पत्र लिखिए।(संस्कृत में)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
आदर्श-विद्याभवनम्, जयपुरम्।
विषयः - स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्।
महोदयः,
सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं। भरतपुरनगरे जातः। अहमपि तेनैव सह तत्र गत्वा पठिष्यामि। अतः अस्मात् विद्यालयात् मम स्थानान्तरणं प्रमाणपत्र (टी.सी.) दत्त्वा माम् कृतार्थयन्तु भवन्तः।
दिनांक : 25-8-20XX ई.
भवताम् आज्ञापालकः शिष्यः
प्रवीण गुप्ता
कक्षा-षष्टम् 'अ'