RBSE Class 6 Sanskrit रचना लघु-निबन्ध लेखन

Rajasthan Board RBSE Solutions for Class 6 Sanskrit रचना लघु-निबन्ध लेखन Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 6 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 6 all subjects will help students to have a deeper understanding of the concepts. Students can access the class 6 sanskrit chapter 5 question answer and deep explanations provided by our experts.

RBSE Class 6 Sanskrit Rachana लघु-निबन्ध लेखन

निम्नलिखित पर संस्कृत में पाँच-पाँच वाक्य लिखिए - 
1. मम विद्यालयः 

अयं मम विद्यालयः अस्ति। मम विद्यालयः राजकीयः वर्तते। अयं विद्यालयः जयपुरनगरस्य मध्ये वर्तते। मम विद्यालयः शोभन: प्रसिद्धश्च अस्ति। अहम् षष्ठकक्षायां पठामि। मम विद्यालये एकः पुस्तकालयः वर्तते।

2. उद्यानम् 

इदम् उद्यानं रमणीयम् अस्ति। उद्याने मनोहराणि पुष्पाणि, रम्याः लता च सन्ति। उद्याने एकः सरोवरः अस्ति। उद्यानं सुखदायकं भवति। उद्याने जनाः भ्रमणाय आगच्छन्ति। 

RBSE Class 6 Sanskrit रचना लघु-निबन्ध लेखन

3. मम ग्रामः 

मम ग्रामः अतीव रमणीयः अस्ति। मम ग्रामे एकः चिकित्सालयः, एकः सरोवरः चास्ति। मम ग्रामे अनेके कृषकाः निवसन्ति। अस्मिन् ग्रामे एकः विद्यालयः अपि वर्तते। ग्रामस्य बालकाः अत्र पठन्ति।

4. भारतदेशः 

भारतम् अस्माकं देशः अस्ति। एषः देशः अति विशालः। अत्र अनेकानि राज्यानि सन्ति। वयम् अत्र स्नेहेन निवसामः। वयं भारतदेशस्य रक्षायै सर्वस्वं यच्छामः। भारतदेशः अस्माकं जन्मभूमिः। हिमालयः भारतस्य मुकुटमिव शोभते। समुद्रः अस्य चरणै प्रक्षालयति।

5. मम नगरम् 

जयपुरं मम नगरं वर्तते। जयपुरं राजस्थानस्य राजधानी वर्तते। अत्र अनेकानि दर्शनीय स्थलानि सन्ति। देश-विदेशेभ्यः बहवः पर्यटका अत्र भ्रमणाय आगच्छन्ति। जयपुरस्य शिल्पकला विश्वप्रसिद्धा वर्तते। जयपुरं मह्यम् अत्यधिक रोचते।

6. धेनुः 

अस्माकं देशे धेनो: महत्त्वं सर्वाधिकं वर्तते। जनाः धेनुः मातरमिव पूजयन्ति। धेनूनां दुग्धं मधुरं पुष्टिकरं च भवति। श्रीकृष्णः अपि धेनुः पालयति स्म। धेनवः विविधवर्णाः भवन्ति। धेनोः वत्सा: बलीवर्दाः भवन्ति। राजा दिलीप: धेनोः सेवया पुत्र प्राप्तवान्।

RBSE Class 6 Sanskrit रचना लघु-निबन्ध लेखन

7. परोपकारः 

परेषाम् उपकारः परोपकारः कथ्यते। संसारस्य कल्याण परोपकारेणैव भवति। परोपकारः पुण्याय भवति। परोपकारेण मनुष्याणां सुखं शान्तिः च भवति। परोपकाराय वृक्षाः फलन्ति, नद्यः च वहन्ति। सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति।

8. उत्तमः छात्रः 

उत्तमः छात्रः प्रतिदिनं समये च विद्यालयं गच्छति। सः तत्र गुरुजनानां आदरं करोति। उत्तमः छात्रः अनुशासने तिष्ठति। स: कदापि कलहं न करोति। सः पठने आलस्यं न करोति। तस्य स्वभावः सरलः मधुरः च भवति। सः श्रेष्ठगुणान् स्वीकरोति।

9.संस्कृतभाषायाः महत्त्वम् 

संस्कृतभाषा संसारस्य सर्वासां भाषाणां जननी अस्ति। संस्कृत भाषा शुद्धा, परिष्कृता, दोषरहिता, चास्ति। अस्यां भाषायां विपुलं साहित्यं वर्तते। भारतस्य संस्कृतिः संस्कृतादेव निःसृता। इयं सर्वोत्तमा भाषा वर्तते। संस्कृतभाषायामेव वेदाः, उपनिषदाः, रामायण, महाभारतम् इत्यादयः ग्रन्थाः सन्ति। प्राचीनभारते इयं लोकभाषा आसीत्।

10. विद्यायाः महत्त्वम् 

विद्याधनं सर्वधनं प्रधानमस्ति। विद्यया एव मानवस्य सर्वा अभिलाषा पूर्यते। विद्यया एवं कर्त्तव्यस्य अकर्त्तव्यस्य च ज्ञानं भवति। व्यये कृतेऽपि विद्या वर्धते। विद्याविहीनस्तु मानवः साक्षाद् पशुरेव भवति। विद्या कीर्तिं धनं च ददाति। विद्यया एव मनुष्यः उन्नतिं करोति।

RBSE Class 6 Sanskrit रचना लघु-निबन्ध लेखन

11. मम प्रियः अध्यापकः 

  1. मम विद्यालये दश अध्यापकाः सन्ति। 
  2. तेषु संस्कृताध्यापकः श्री जितेन्द्रकुमारः मम प्रियः अध्यापकः अस्ति। 
  3. सः अतीव कुशलः विद्वान् चास्ति। 
  4. मम प्रियः अध्यापकः सरलतया अस्मान् पाठयति। 
  5. सः सरलतया संस्कृतविषयं पाठयति।

12. मम राजस्थानम्। 

  • मम राजस्थानस्य भूमिः वीराणां विदुषां च जननी वर्तते। 
  • अस्य राजधानी जयपुरम् अस्ति। 
  • राजस्थानप्रदेशे अनेके दर्शनीय-स्थलानि सन्ति। 
  • प्राकृतिक सौन्दर्यदृष्ट्या अपि राजस्थानप्रदेशः सुरम्यः वर्तते। 
  • अत्र बहवः पर्यटकाः भ्रमणार्थम् आगच्छन्ति।

RBSE Class 6 Sanskrit रचना लघु-निबन्ध लेखन

13. मम परिवारः 

  1. मम परिवारः एकः आदर्शपरिवारः अस्ति। 
  2. मम परिवारे माता, पिता तथा एकः भ्राता सन्ति। 
  3. मम परिवारे सर्वे जनाः स्नेहेन निवसन्ति। 
  4. मम पिता संस्कृतस्य अध्यापकः वर्तते।
  5. मम भ्राता, अहं च एकस्मिन् एव विद्यालये पठावः।
Prasanna
Last Updated on July 2, 2022, 3:57 p.m.
Published July 2, 2022