Rajasthan Board RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 13 सत्त्वमाहो रजस्तमः Textbook Exercise Questions and Answers.
The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.
प्रश्न 1.
एकपदेन उत्तरत।
(क) श्रद्धा कतिविधा भवति?
(ख) देहिनां का स्वभावजा भवति?
(ग) आहारः कतिविधो भवति?
(घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?
(ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?
(च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?
(छ) प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते?
(ज) तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?
उत्तराणि :
(क) त्रिविधा।
(ख) श्रद्धा।
(ग) त्रिविधः।
(घ) राजसस्य।
(ङ) अनुद्वेगकरम्।
(च) सात्त्विकम्।
(छ) राजसम्।
(ज) अपात्रेभ्यः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत।
(क) श्रद्धा कस्य अनुरूपा भवति?
उत्तरम् :
श्रद्धा सर्वस्य सत्त्वानुरूपा भवति।
(ख) तामसाः जनाः कान् यजन्ते?
उत्तरम् :
तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते।
(ग) के जनाः दम्भाहंकारसंयुक्ताः भवन्ति?
उत्तरम् :
ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते, ते दम्भाहंकारसंयुक्ताः भवन्ति।
(घ) सात्त्विकप्रियाः आहाराः कीदृशाः भवन्ति?
उत्तरम् :
आयुः सत्त्वबलारोग्यसुखप्रीतिषिवर्धनाः।।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥
(ङ) किं किं शारीरं तप उच्यते?
उत्तरम् :
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शरीरं तप उच्यते॥
(च) राजसं दानं किम् उच्यते?
उत्तरम् :
यत् दानं प्रत्युपकारार्थं फलमुद्दिश्य वा परिक्लिष्टं पुनः दीयते तद्दानं राजसम् उच्यते।
प्रश्न 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) अयं पुरुषः श्रद्धामयः भवति।
(ख) सात्त्विका: देवान् यजन्ते।
(ग) पर्युषितं भोजनं तामसप्रियं भवति।
(घ) शारीरं तप उच्यते।
(ङ) वाङ्मयं तप उच्यते।
(च) यद्दानम् अपात्रेभ्यः दीयते।
उत्तरम् :
प्रश्ननिर्माणम् -
(क) अयं पुरुषः कीदृशः भवति?
(ख) सात्त्विकाः कान् यजन्ते?
(ग) कीदृशं भोजनं तामसप्रियं भवति?
(घ) शारीरं किम् उच्यते?
(ङ) कीदृशं तप उच्यते?
(च) किम् अपात्रेभ्यः दीयते?
प्रश्न 4.
प्रकृतिप्रत्ययविभागं कुरुत।
उत्तरम् :
प्रश्न 5.
पर्यायपदैः सह मेलनं कुरुत।
यथा - जनाः मनुष्याः
उत्तरम् :
(क) देवः - देवता
(ख) गुरुः - आचार्यः
(ग) प्राज्ञः - विद्वान्
(घ) शौचम् - पवित्रता
(ङ) आर्जवम् - सरलता
प्रश्न 6.
विलोमपदैः सह योजयत।
यथा - देवः - दानवः
(क) अहिंसा - अपात्रे
(ख) अनुद्वेगकरम् - असत्यम्
(ग) अभ्यसनम् - काठिन्यम्
(घ) सत्यम् - अनभ्यसनम्
(ङ) पात्रे - उद्वेगकरम्
(च) सौम्यत्वम् - हिंसा
उत्तरम् :
(क) अहिंसा - हिंसा
(ख) अनुद्वेगकरम् - उद्वेगकरम्
(ग) अभ्यसनम् - अनभ्यसनम्
(घ) सत्यम् - असत्यम्
(ङ) पात्रे - अपात्रे
(च) सौम्यत्वम् - काठिन्यम्
प्रश्न 7.
विशेषणं विशेष्येण सह मेलनं कुरुत।
यथा - त्रिविधा - श्रद्धा
(क) सत्त्वानुरूपा - आहारः
(ख) तामसाः - भोजनम्
(ग) घोरम् - वाक्यम्
(घ) प्रियः - जनाः
(ङ) पर्युषितम् - तपः
(च) अनुद्वेगकरम् - श्रद्धा
उत्तरम् :
(क) सत्त्वानुरूपा - श्रद्धा
(ख) तामसाः - जनाः
(ग) घोरम् - तपः
(घ) प्रियः - आहारः
(ङ) पर्युषितम् - भोजनम्
(च) अनुद्वेगकरम् - वाक्यम्
प्रश्न 8.
सन्धिं सन्धिच्छेदं वा कुरुत।
उत्तरम् :
(क) चैव - च + एव
(ख) तपो जनाः - तपः + जनाः
(ग) यज्ञस्तपस्तथा - यज्ञः + तपः + तथा
(घ) आहारस्त्वपि - आहारः + तु + अपि
(ङ) राजसस्य + इष्टा - राजसस्येष्टा
(च) उत् + शिष्टम् - उच्छिष्टम्
(छ) वाक् + मयम् - वाङ्मयम्
(ज) प्रति + उपकारार्थम् - प्रत्युपकारार्थम्
प्रश्न 9.
विग्रहपदानि आधुत्य समस्तपदानि रचयत।
उत्तरम् :
विग्रहपदानि - समस्तपदानि
(क) न शास्त्रविहितम् - अशास्त्रविहितम्
(ख) अहंकारेण संयुक्ताः - अहंकार संयुक्ताः
(ग) पर्युषितं भोजनम् - पर्युषित भोजनम्
(घ) न उद्वेगकरम् - अनुद्वेगकरम्
(ङ) प्रियं च हितं च - प्रियहितम्
(च) मनसः प्रसादः - मनःप्रसादः
संस्कृतभाषया उत्तरम् दीयताम् -
प्रश्न: 1.
देहिनां स्वभावजा श्रद्धा कतिविधा भवति? नामानि लिखत।
उत्तरम् :
देहिनां स्वभावजा श्रद्धा त्रिविधा भवति–सात्त्विकी, राजसी तामसी च।
प्रश्न: 2.
सात्त्विकाः कान् यजन्ते? राजसा: च कान् यजन्ते?
उत्तरम् :
सात्त्विकाः देवान् यजन्ते। राजसाः च यक्षरक्षांसि यजन्ते।
प्रश्न: 3.
प्रेतान्भूतगणांश्च के जनाः यजन्ते?
उत्तरम् :
प्रेतान्भूतगणांश्च तामसाः जनाः यजन्ते।
प्रश्न: 4.
सर्वस्य आहारः कतिविधः भवति?
उत्तरम् :
सर्वस्य आहारः त्रिविधः भवति।
प्रश्नः 5.
कीदृशाः आहाराः सात्त्विकप्रियाः भवन्ति?
उत्तरम् :
आयुः सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः स्थिराः हृछाः रस्याः स्निग्धाः आहाराः सात्त्विकप्रियाः भवन्ति।
प्रश्नः 6.
कीदृशाः आहारा: राजसस्येष्टा : दु:खशोकामयप्रदा: च भवन्ति?
उत्तरम् :
कटु-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः आहारा: राजसस्येष्टाः दु:खशोकामयप्रदाः च भवन्ति।
प्रश्नः 7.
कीदृशं भोजनं तामसप्रियं भवति?
उत्तरम् :
यातयामम्, गतरसम्, पूतिम्, पर्युषितम्, उच्छिष्टम्, अभेध्यं च भोजनं तामसप्रियं भवति।
प्रश्नः 8.
किम् शारीरं तपः उच्यते?
उत्तरम् :
देव-द्विज-गुरु-प्राज्ञपूजनम्, शौचम्, आर्जवम्, ब्रह्मचर्यम्, अहिंसा च शारीरं तपः उच्यते।
प्रश्न: 9.
कीदृशं वाङ्मयं तपः उच्यते?
उत्तरम् :
अनुद्वेगकरं सत्यं प्रियहितं च वाक्यम्, स्वाध्यायम् अभ्यसनं च वाङ्मयं तपः उच्यते।
प्रश्नः 10.
किम् मानसं तपः कथ्यते?
उत्तरम् :
मनः प्रसादः, सौम्यत्वं, मौनम्, आत्मविनिग्रहः, भावसंशुद्धिश्च मानसं तपः कथ्यते।
प्रश्न: 11.
किम् सात्त्विकं तपः परिचक्षते?
उत्तरम् :
यत् परया श्रद्धया युक्तैः, अफलाकाक्षिभिः नरैः त्रिविधं तपः तप्तम्, तत् सात्त्विकं परिचक्षते।
प्रश्न: 12.
राजसं तपः किम् कथितम्?
उत्तरम् :
यत् तपः सत्कार-मान-पूजार्थं च दम्भेन एव क्रियते, तत् इह चलम्, अध्रुवं च तपः राजसं कथितम्।
प्रश्न: 13.
कीदृशं तपः तामसम् उदाहृतम्?
उत्तरम् :
यत् तपः मूढग्राहेण आत्मनः पीडया वा परस्य उत्सादनार्थं क्रियते, तत् तामसम् उदाहृतम्।
प्रश्नः 14.
सात्त्विकं दानं किम् स्मृतम्?
उत्तरम् :
दातव्यमिति यद्दानं देशे काले पात्रे च अनुपकारिणे दीयते, तद्दानं सात्त्विकं स्मृतम्।
प्रश्न: 15.
कीदृशं दानं राजसं कथितम्?
उत्तरम् :
यद्दानं परिक्लिष्टं प्रत्युपकारार्थं च फलमुद्दिश्य पुनः दीयते, तद्दानं राजसं कथितम्।
प्रश्न: 16.
कीदृशं दानं तामसं कथ्यते?
उत्तरम् :
यद्दानम् असत्कृतम्, अवज्ञातम्, अदेशकाले, अपात्रेभ्यश्च दीयते, तद्दानं तामसं कथ्यते।
श्लोकों का अन्वय, सप्रसङ्ग हिन्दी अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या -
1. त्रिविधा भवति श्रद्धा .......................................... चेति तां शृणु ॥1॥
सत्त्वानुरूपा .......................................................... सः एव सः ॥2॥
अन्वयः -
1. देहिनां सा स्वभावजा श्रद्धा सात्त्विकी च राजसी च तामसी इति त्रिविधा एव भवति, तां शृणु ॥
2. भारत! सर्वस्य श्रद्धा सत्त्वानुरूपा भवति। अयं पुरुषः श्रद्धामयः, यः यच्छ्रद्धः सः एव सः।
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' के 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलत: यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित है। इसमें अर्जुन के द्वारा मनुष्यों की निष्ठा के विषय में पूछे गये प्रश्नों का भगवान् श्रीकृष्ण द्वारा उत्तर देते हुए जीवों में व्याप्त स्वभावजन्य श्रद्धा तथा सत्त्व-रजस्-तमो गुणोपेत भेदों का वर्णन किया गया है। इस श्लोक में भगवान् श्रीकृष्ण अर्जुन से कहते हैं कि
हिन्दी अनुवाद/व्याख्या - श्रद्धा तीन प्रकार की होती है...संगजा, शास्त्रजा तथा स्वभावजा। मनुष्यों में रहने वाली वह स्वभावजा अर्थात् स्वभाव से उत्पन्न हुई स्वतः सिद्ध श्रद्धा है। वह स्वभावजा श्रद्धा तीन प्रकार की ही होती है - सात्त्विकी, राजसी और तामसी। उन तीनों को सुनो।।
हे अर्जन! सभी मनष्यों की वह श्रद्धा (स्वभावजा) अन्त:करण के अनुरूप होती है अर्थात अन्त:करण जैसा होता है, उसमें सात्त्विक, राजस या तामस जैसे संस्कार होते हैं, वैसी ही श्रद्धा होती है। यह मनुष्य श्रद्धामय है, (इसलिए) जो जैसी श्रद्धा वाला है, वही उसका स्वरूप है अर्थात् वही उसकी निष्ठा (स्थिति) है। ता होती है अर्थात्चानवहरण इसालोद -
विशेष -
(i) यहाँ मनुष्यों में स्वभावतः रहने वाली श्रद्धा का प्रेरणास्पद वर्णन करते हुए प्रेरक सदुपदेश दिया गया है।
(ii) सर्वस्य' पद का तात्पर्य है कि जो शास्त्रविधि को जानते हों या न जानते हों, अनुष्ठान आदि करते हों या नहीं करते हों, किसी भी जाति, वर्ण, आश्रम, सम्प्रदाय अथवा देश का हो-उन सभी की स्वाभाविक श्रद्धा तीन प्रकार की होती है। सप्रसङ्ग संस्कृत-व्याख्या
प्रसङ्गः - प्रस्तुतश्लोकः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य 'सत्त्वमाहो रजस्तमः' इति शीर्षकपाठाद् उद्धृतः मूलतः पाठोऽयं श्रीमद्भगवद्गीतायाः सप्तदशाध्यायात् संकलितः। श्लोकेऽस्मिन् भगवान् श्रीकृष्णः मानवानां श्रद्धाविषये जिज्ञासायाः समाधानं कुर्वन् जीवेषु व्याप्तायाः स्वभावजन्यायाः श्रद्धायाः त्रिविधभेदान् वर्णयन् च कथयति यत्
1. संस्कृत-व्याख्या - देहिनाम् = मनुष्याणाम् शरीरधारिणां वा, सा स्वभावजा = सा स्वभावात् उत्पन्ना, श्रद्धा = निष्ठा, सात्त्विकी = सत्त्वगुणयुक्ता, च, राजसी च = रजोगुणयुक्ता च, तामसी = तमोगुणयुक्ता चेति, त्रिविधा = त्रिप्रकारिका भेदत्रयं युक्ता, एव भवति, ताम् = तथाविधां श्रद्धाम, शृणु = आकर्ण्य। अर्थात् मानवेषु स्वभावात् उत्पन्ना सा श्रद्धा त्रिविधा भवति-सात्त्विकी, राजसी तामसी चेति।
विशेष: - (i) गीतानुसारेण श्रद्धा त्रिविधा भवति - सङ्गजा, शास्त्रजा, स्वभावजा चेति। मानवेषु स्वभावजा श्रद्धा भवति। सा च स्वभावजा श्रद्धाऽपि त्रिविधा भवति - सात्त्विकी, राजसी, तामसी चेति।
(ii) व्याकरणम् - श्रद्धा-श्रत् + धा + अङ् + टाप्। देहिनाम्-देह + इनि, पुं.ष. वि. बहुवचनम्। स्वभावजा स्वभावात् जायते इति. स्त्री.। सात्त्विकी-सत्त्व + ठञ्, स्त्री.।
2. संस्कृत-व्याख्या - भारत! = हे अर्जुन!, सर्वस्य = सर्वविधस्य मानवस्य, श्रद्धा = निष्ठा, स्वभावजा श्रद्धा, सत्त्वानुरूपा = सत्त्वस्य अनुरूपा, अन्त:करणानुरूपा वा, भवति = अस्ति, अर्थाद् मानवेषु स्वभावजा सा श्रद्धा मानवानाम् अन्त:करणानुरूपा एव भवति। अयम् = एषः, पुरुषः = मानवः, श्रद्धामयः = निष्ठायुक्तः वर्तते अतः, यः यच्छ्रद्धः = यस्य मानवस्य यादृशी श्रद्धा भवति सः तादृश एव श्रद्धायुक्तः भवति, सैव तस्य निष्ठा वर्तते।
विशेष -
(i) अत्र भगवता श्रीकृष्णेन मानवानां श्रद्धायाः प्रेरणास्पदं वर्णनं कृत्वा समुपदिष्टं यत् मानवः सत्त्वादिगुणयुक्तेन अन्त:करणानुसारमेव श्रद्धावान् भवति।
(ii) व्याकरणम्-सत्त्वानुरूपा-सत्त्वस्य अनुरूपा इति, ष. तत्पुरुषः। यच्छ्रद्धः-यस्य श्रद्धा (भवति) सः, बहुव्रीहि.।
2. यजन्ते सात्त्विका ............................................. तामसाः जनाः ॥3॥
अशास्त्रविहितं घोरं ....................................................रागबलान्विताः॥4॥
अन्वयः - (i) सात्त्विका: देवान् यजन्ते, राजसाः यक्षरक्षांसि (यजन्ते), च अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते॥
(ii) ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते, (ये च) दम्भाहङ्कारसंयुक्ताः, (ये च) कामरागबलान्विताः (तान् आसुरनिश्चयान् विद्धि)॥
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक के 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित किया गया है। इसमें निष्ठा (श्रद्धा) के बारे में अर्जुन के द्वारा पूछे गये प्रश्नों का भगवान् श्रीकृष्ण द्वारा समाधान करते हुए श्रद्धा के विविध स्वरूप का विवेचन किया गया है। इसी क्रम में प्रस्तुत श्लोक में श्रीकृष्ण अर्जुन को उपदेश देते हुए कहते हैं कि -
हिन्दी अनुवाद/व्याख्या - सात्त्विक अर्थात् दैवी-सम्पत्ति वाले मनुष्य देवों का पूजन करते हैं। राजस (रजोगुण वाले) मनुष्य यक्षों और राक्षसों का पूजन करते हैं और अन्य तामस (तमोगुण वाले) मनुष्य प्रेतों तथा भूतों का पूजन करते जो मनुष्य शास्त्रविधि से रहित घोर तप करते हैं, जो दम्भ और अहंकार से भरे हुए हैं और जो भोग-पदार्थ, आसक्ति तथा हठ से युक्त हैं (उन अज्ञानियों को आसुरी निष्ठा वाले समझना चाहिए)।
विशेष : यहाँ भगवान् श्रीकृष्ण ने सत्त्व, रज, तम गुणों वाले मनुष्यों की प्रवृत्ति के बारे में बतलाया है। साथ ही तामसी अथवा आसुरी वृत्ति वाले लोग शास्त्रों में जिनका निषेध है ऐसे घोर तप करने वाले दर्शाये हैं, वे दम्भ, अहंकार आदि से लिप्त रहते हैं।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोकः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य 'सत्त्वमाहो रजस्तमः' इति शीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं श्रीमद्भगवद्गीतायाः सप्तदशाध्यायात् सङ्कलितः। श्लोकेऽस्मिन् मानवानां श्रद्धाविषये अर्जुनस्य जिज्ञासायाः समाधानं कुर्वन् सत्त्वादिगुणानुसारं तेषां स्वभावं कर्म च वर्णयन् भगवान् श्रीकृष्णः कथयति यत्
3. संस्कृत-व्याख्या - सात्त्विकाः = सत्त्वगुणयुक्ताः मानवाः, देवान् = सुरान् देवतान् वा, यजन्ते = पूजनं यज्ञं वा कुर्वन्ति। राजसाः = रजोगुणयुक्ताः मानवाः, यक्षरक्षांसि = यक्षगणानां राक्षसणाञ्च, पूजनं कुर्वन्ति। अन्ये = अपरे, च, तामसाः जनाः = तमोगुणयुक्ताः मानवाः, प्रेतान् = प्रेतगणानाम्, भूतगणान् = भूतान् मृतजनानां वा, यजन्ते = पूजनं कुर्वन्ति।
विशेषः -
(i) अत्र भगवता श्रीकृष्णेन सात्त्विकजनानां राजसानां तामसानाञ्च जनानाम् स्वभावानुसारं यजनविषये यथार्थं वर्णनं कृतम्।
(ii) व्याकरणम्-सात्त्विकाः-सत्त्व + ठञ्, पुं. प्र. बहुवचनम्। यजन्ते-यज्-आत्मनेपदम्, लटू. प्र. पु. बहुवचनम्। जना:-जन् - बहुवचनम्।
4. संस्कृत-व्याख्या - ये जनाः = ये मनुष्याः, अशास्त्रविहितम् = शास्त्रविधिना रहितम्, घोरम् = भयङ्करम्, तपः = तपस्याम्, तप्यन्ते = तपः कुर्वन्ति। ये च, दम्भाहङ्कारसंयुक्ताः = दम्भेण अहङ्कारेण च संलिप्ताः जनाः, ये च, कामरागबलान्विताः = भोगादिपदार्थेन आसक्तिना हठेन च संयुक्ताः जनाः सन्ति, तान् अज्ञान् जनान् आसुरनिश्चयान् विद्धि, इत्यनेनान्वयः।
विशेष :
(i) अत्र आसुरनिष्ठायुक्तजनां स्वभावं कर्म च दर्शितम्।
(ii) व्याकरणम् - अशास्त्रविहितम्-शास्त्रेण विहितं शास्त्रविहितम्, न शास्त्रविहितम् इति अशास्त्रविहितम्। दम्भाहङ्कारसंयुक्ताः-दम्भाहङ्काराभ्यां संयुक्ताः।
3. आहारस्त्वपि सर्वस्य ............................................................. भेदमिमं शृणु ॥5॥
आयुः सत्त्वबलारोग्य .................................................................स ात्त्विकप्रियाः॥6॥
अन्वयः - (i) आहारः अपि सर्वस्य त्रिविधः प्रियः भवति, तु तथा यज्ञः तपः दानं (च)। तेषाम् इमं भेदं शृणु।
(ii) आयुः सत्त्व-बल-आरोग्य-सुख-प्रीति-विविर्धनाः स्थिराः हृद्याः रस्याः स्निग्धाः आहाराः सात्त्विकप्रियाः (भवन्ति)।
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक के 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित है। अर्जुन द्वारा निष्ठा (श्रद्धा) के विषय में पूछे गए प्रश्नों के प्रत्युत्तर में भगवान् श्रीकृष्ण स्वभावजा श्रद्धा के तीन भेद बतलाते हुए उनकी भिन्न-भिन्न प्रकृति के बारे में बतलाते हैं। इसी क्रम में प्रस्तुत श्लोक में श्रीकृष्ण द्वारा सात्त्विक, राजसी व तामसी प्रकृति वाले मनुष्यों के आहार एवं यज्ञादि के भी तीन प्रकारों का उल्लेख किया गया है। श्रीकृष्ण अर्जुन से कहते हैं कि
हिन्दी अनुवाद/व्याख्या - जिस प्रकार यजन करने के प्रकार से मनुष्य की श्रद्धा की पहचान होती है, उसी प्रकार आहार से भी आहारी की श्रद्धा (निष्ठा) की पहचान होती है, क्योंकि आहार भी सभी को तीन प्रकार का (सात्त्विक, राजसी व तामसी) प्रिय होता है और उसी प्रकार यज्ञ, तप और दान भी तीन प्रकार के होते हैं अर्थात् शास्त्रीय कर्मों में भी गुणों को लेकर तीन प्रकार की रुचि होती है। (इसलिए हे अर्जुन! तुम) उनके इस भेद को सुनो।
जिन आहारों को करने से मनुष्य की आयु बढ़ती है, सत्त्वगुण बढ़ता है, शरीर, मन, बुद्धि आदि में सात्त्विक बल एवं उत्साह पैदा होता है, शरीर में नीरोगता बढ़ती है, सुख-शान्ति प्राप्त होती है और जिनको देखने से ही प्रीति बढ़ती है, जो गरिष्ठ नहीं प्रत्युत् सुपाच्य हैं और जिनका सार बहुत दिनों तक शरीर में शक्ति देता रहता है, हृदय को शक्ति देने वाले, फल-दूध आदि रसयुक्त पदार्थ, घी, मक्खन आदि स्नेहयुक्त भोजन के पदार्थ - ऐसे भोजन के पदार्थ सात्त्विक मनुष्य को प्रिय होते हैं।
विशेष : सात्त्विक मनुष्यों की रुचि सात्त्विक खान-पान, रहन-सहन में, राजस मनुष्यों की राजसी तथा तामस मनुष्यों की तामसी खान-पान आदि में रुचि होती है। अत: मनुष्य के आहार, रहन-सहन आदि से भी उसकी निष्ठा की पहचान होती है।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोके अर्जुनस्य मानवानां श्रद्धाविषये कृतप्रश्नानां समाधानप्रसङ्गे भगवान् श्रीकृष्णः सत्त्वादिगुणानुसारम् मानवस्य आहारविषये वर्णयन् कथयति यत्
5. संस्कृत-व्याख्या - आहारः = भोजनम्, अपि, सर्वस्य = सर्वविधस्य जनस्य, त्रिविधः = त्रिप्रकारकः, प्रियः = मनोनुकूलः वाञ्छितः वा भवति। अर्थाद् यथा यजनेन मानवस्य श्रद्धायाः ज्ञानं भवति, तथैव आहारेणापि तस्य श्रद्धायाः ज्ञानं भवति, यतोहि आहारोऽपि सर्वेभ्यः त्रिविधः (सात्त्विकः, राजसः, तामसश्चेति) प्रियः भवति। तथा च यज्ञः, तपः दानं चापि त्रिप्रकारकं भवति। अतएव हे अर्जुन्! तेषाम् = तादृशानाम् आहारयुक्तानाम्, इमम् = एतत्, भेदं, शृणु = आकर्ण्य।
विशेषः :
(i) अत्र भगवता श्रीकृष्णेन प्रतिपादितं यत् मानवस्य अन्तःकरणानुरूपं सत्त्वादिगुणानुसारं च आहारमपि प्रियं भवति, तथैव शास्त्रीयकर्म यज्ञादिकं प्रियं भवति। यथा श्रद्धा त्रिविधा भवति, तथैव आहारमपि त्रिविधं भवति।
(ii) व्याकरणम् - आहारस्त्वपि-आहारः + तु + अपि। शृणु-श्रु-श्रवणे, म.पु.एक.।
6. संस्कृत-व्याख्या - आयुवर्धका आहाराः, सत्त्वगुणवर्धकाः, बलदायकाः, आरोग्यप्रदायकाः, सुखप्रदाः आनन्ददायकाः वा, प्रीतिवर्धकाः च, स्थिराः पाचकाः वा, हृद्याः = मनोप्रियाः, हृदयम् आनन्ददायकाः, रस्याः = रसयुक्ताः, स्निग्धाः = स्नेहयुक्ताः, आहाराः = भोजनानि, सात्त्विकप्रियाः = सत्त्वगुणयुक्तजनानां कृते प्रियाः = रुचिकराः भवन्ति।
विशेष :
(i) अत्र सत्त्वगुणान्वितानां जनानां कीदृशं भोजनं प्रियं भवतीति सम्यकृतया वर्णितम्। सात्त्विकजना : भोजनमपि सात्त्विकं स्वीकुर्वन्ति।
(ii) व्याकरणम् - स्निग्धाः-स्निद् + क्त। स्थिरा:-स्था + किरच्। हृद्याः-हृद् + यत्। सात्त्विकप्रियाः-सात्त्विकानां प्रियाः, ष. तत्पुरुषः। सुखप्रीतिविवर्धना:-सुखञ्च प्रीतिश्च सुखप्रीतयः, तेषां विवर्धनाः।
4. कट्वम्ललवणा ....................................................................... दुःखशोकामयप्रदाः ॥7॥
यातयामंगतरसं............................................................................... भोजनं तामसप्रियम् ॥8॥
अन्वयः - (i) कटु-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः आहाराः राजसस्य इष्टाः (भवन्ति, ये) दु:खशोकामयप्रदाः (सन्ति)॥
(ii) यत् भोजनं यातयामम्, गतरसम्, पूतिम्, पर्युषितं च उच्छिष्टं च अमेध्यम् अपि (अस्ति, तत्) तामसप्रियम् (भवति)॥
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित किया गया है। इसमें भगवान् श्रीकृष्ण ने अर्जुन को उपदेश देते हुए सात्त्विक, राजसी एवं तामसी मनुष्यों के आहार, रहन-सहन आदि के बारे में बतलाया है। प्रस्तुत दोनों श्लोकों में राजसी व तामसी प्रकृति के मनुष्यों के आहार के सम्बन्ध में बतलाते हुए श्रीकृष्ण कहते हैं कि -
हिन्दी अनुवाद/व्याख्या - करेला आदि अति कड़वे पदार्थ, इमली आदि अधिक खट्टे पदार्थ, अधिक नमक वाले पदार्थ, अत्यन्त गरम-गरम पदार्थ, मिर्च आदि अधिक तीखे पदार्थ, अधिक रूखे पदार्थ और राई आदि अधिक दाहकारक पदार्थ - इस प्रकार के भोजन के पदार्थ राजस मनुष्यों को प्रिय होते हैं, जो कि दु:ख, शोक और रोगों को देने वाले हैं।
जो भोजन सड़ा हुआ, रसरहित, दुर्गन्धित, बासी और जूठा है तथा जो महान् अपवित्र, मांस आदि भी है, वह भोजन तामस मनुष्यों को प्रिय होता है।
विशेष : यहाँ राजसी एवं तामसी प्रकृति वाले भोजन के पदार्थों का उल्लेख किया गया है। इस प्रकार के भोजन करने से मनुष्यों की निष्ठा (श्रद्धा) भी उसी प्रकार की होती है।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोके अर्जुनाय समुपदिशन् भगवान् श्रीकृष्णः सत्त्वादिगुणयुक्तमानवानां भोजनं कीदृशं प्रियं भवतीति वर्णयति।
7. संस्कृत-व्याख्या - रजोगुणयुक्तमानवानां कृते कीदृशं भोजनं प्रियं भवतीति वर्णयन् श्रीकृष्णः कथयति यत् कट्वम्ललवणात्युष्णः = कटुः = अमधुरम्, अम्लः = अम्लयुक्तः, लवणः = लवणयुक्तः, अत्युष्णः = अत्यधिकतापयुक्तः, तीक्ष्णः = 'तीखे' इति भाषायाम, रूक्षः = कठोरः, शुष्कः वा, विदाहिनः = अतीव दाहयुक्तः च, आहाराः = भोजनानि, राजसस्य = रजोगुणयुक्तस्य जनस्य, इष्टाः = प्रियाः, भवन्ति, ईदृशं रजोगुणयुक्तं भोजनम्, दु:खशोकामयप्रदाः = दुःखम्, शोकम्, रोगञ्च दायकं भवति।
विशेष: -
(i) अत्र प्रेरणा प्रदत्ता यत् राजसभोजनं कष्टदायकं रोगदायकं च भवति, ईदृशं भोजनं राजसानां कृते प्रियं भवति न तु सात्त्विकानां कृते।
(ii) व्याकरणम्-कट्वाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः-कटुश्च, अम्लश्च, लवणः च, अत्युष्णश्च, तीक्ष्णश्च, रूक्षश्च विदाही च। इष्टाः-इष् + क्त।
8. संस्कृत-व्याख्या - तमोगुणयुक्तमानवानां प्रियभोजनविषये वर्णयन् श्रीकृष्णः कथयति यत्-यत् भोजनम् = आहारम्, यातयामम् = प्रदूषितम् अर्द्धपक्वं वा, गतरसम् = रसविहीनम्, पूतिम् = दुर्गन्धयुक्तम्, पर्युषितम् = पूर्वदिवसस्य अवशिष्टम्, च, उच्छिष्टम् = शेषम्, भोजनावशिष्टम् वा, च, अमेध्यम् = अपवित्रम् अस्वच्छं वा, अपि अस्ति, तत् भोजनं तामसप्रियम् = तमोगुणयुक्तस्य कृते रुचिकरं भवति।
विशेषः - (i) अत्र तामसजनानां कृते कीदृशं भोजनं प्रियं भवतीति सम्यक्तया वर्णितम्। तामसभोजनं सर्वथा त्यजनीयं भवति। (ii) व्याकरणम्-यातयामम्-यातः यामः यस्य तत्। गतरसम्-गतः रसः यस्मात्। पूतिम्-पूय् + क्तिच्। पर्युषितम् परि + उष् (वस्) + क्त। उच्छिष्टम्-उत् + शिष् + क्त।
5. देवद्विजगुरुप्राज ............................................................ तप उच्यते ॥9॥
अनुद्वेगकरं वाक्यं ............................................................... वाङ्मयं तप उच्यते ॥10॥
अन्वयः - (i) देव-द्विज-गुरु-प्राज्ञपूजनम्, शौचम्, आर्जवम्, ब्रह्मचर्यम् च अहिंसा शारीरं तपः उच्चते।
(ii) यत् अनुद्वेगकरं सत्यं च प्रियहितं वाक्यं च स्वाध्यायं च अभ्यसनम् एव वाङ्मयं तपः उच्यते।
कठिन-शब्दार्थ :
अनुद्वेगकरम् = किसी को भी उद्विग्न न करने वाला। प्रियहितम् = प्रिय और हितकारक। अभ्यसनम = अभ्यास। वाङ्मयम् = वाणी-सम्बन्धी।
प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक के 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित किया गया है। इन दोनों श्लोकों में क्रमश: भगवान् श्रीकृष्ण द्वारा शरीर एवं वाणी सम्बन्धी तप के बारे में बतलाया गया है। अर्जुन को उपदेश देते हुए श्रीकृष्ण कहते हैं कि -
हिन्दी अनुवाद/व्याख्या - देवता, ब्राह्मण, गुरुजन और जीवन्मुक्त महापुरुष का यथायोग्य पूजन करना, शुद्धि रखना, सरलता, ब्रह्मचर्य का पालन करना और हिंसा न करना-यह शरीर-सम्बन्धी तप कहा जाता है।
जो किसी को भी उद्विग्न न करने वाला, सत्य, प्रिय तथा हितकारक भाषण है, वह तथा स्वाध्याय और अभ्यास (नामजप आदि) भी वाणी-सम्बन्धी तप कहा जाता है।
विशेष : यहाँ प्रथम श्लोक में शारीरिक तप और द्वितीय श्लोक में वाचिक तप का अत्यन्त सरल शब्दों में लक्षण दिया गया है।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोके भगवता श्रीकृष्णेन शारीरिकं तपः वाङ्मयं तपः च कीदृशं भवतीति वर्णितम्। अर्जुनाय समुपदिष्टन् श्रीकृष्णः कथयति यत्
9. संस्कृत-व्याख्या - देवद्विजगुरुप्राज्ञपूजनम् = देवतानां ब्राह्मणानां गुरुजनानां विदुषां च यथायोग्यं पूजा करणम्, शौचम् = पवित्रताम्, आर्जवम् = सारल्यम्, स्पष्टवादितां वा, ब्रह्मचर्यम् = ब्रह्मचर्यव्रतपालनम्, अहिंसा = हिंसायाः त्यागम् अहिंसावृत्ते : पालनं वा, शारीरम् = दैहिकम्, तपः = तपश्चर्या, उच्यते = कथ्यते।
विशेषः
(i) अत्र भगवता श्रीकृष्णेन शारीरिकतपसः स्वरूपं विवेचितम्।
(ii) व्याकरणम्-शौचम्-शुचेर्भावः + अण्। आर्जवम्-ऋजु + अण्। ब्रह्मचर्यम्-ब्रह्मणि चर्या यस्य यत्। शारीरम् शरीर् + अण्
10. संस्कृत-व्याख्या - वाङ्मयतपसः स्वरूपं वर्णयन् भगवान् श्रीकृष्णः कथयति यत्-यत्, अनुद्वेगकरम् = अनुत्तेजात्मकम्, यत् कमपि उद्विग्नं न करोति तत्, सत्यम् = यथार्थम्, प्रियम् = मधुरम्, च, हितम् = हितकारकं, वाक्यम् = वचनम् वर्तते, यत् च स्वाध्यायाभ्यसनम् = स्वाध्यायम्, अभ्यासञ्च (नामजपादिकम्) वर्तते तत् सर्वमेव वाङ्मयं = वाक्सम्बन्धितम्, तपः = तपस्या, उच्यते = कथ्यते।
विशेषः -
(i) अत्र वाङ्मयस्य तपसः स्वरूपं भगवता श्रीकृष्णेन यथार्थरूपेण वर्णितम्।
(ii) व्याकरणम् - अनुद्वेगकरम्-न उद्वेगकरम् इति, नञ् तत्पुरुषः। प्रियहितम्-प्रियं च हितं च, द्वन्द्व.। स्वाध्यायाभ्यसनम्-स्वाध्यायः च अभ्यसनम् च। वाङ्मयम्-वाच् + मयट्।
6. मनः प्रसादः सौम्यत्वं .................................................. मानसमुच्यते॥11॥
श्रद्धया परया तप्तं ............................................................ सात्त्विकं परिचक्षते॥12॥
अन्वयः - (i) मनःप्रसादः, सौम्यत्वम्, मौनम्, आत्मविनिग्रहः, भावसंशुद्धिः इति एतत् मानसं तपः उच्यते।
(ii) परया श्रद्धया युक्तः, अफलाकाङ्क्षिभिः नरैः त्रिविधं तपः तप्तम्। तत् सात्त्विकं परिचक्षते।
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित किया गया है। सात्त्विक, राजसी एवं तामसी प्रकृति के लोगों के आहार, विहार, रहन-सहन, दान, तप आदि के विवेचन के प्रसङ्ग में प्रस्तुत श्लोकों में भगवान् श्रीकृष्ण ने मानसिक एवं सात्त्विक तप के बारे में बतलाते हुए कहा है कि -
हिन्दी अनुवाद/व्याख्या - मन की प्रसन्नता, सौम्य भाव, मननशीलता, मन का निग्रह और भावों की भली-भाँति शुद्धि इस तरह यह मानसिक (मन-सम्बन्धी) तप कहा जाता है।
परम श्रद्धा से युक्त, फल की इच्छा से रहित मनुष्यों के द्वारा जो तीन प्रकार (शरीर, वाणी और मन) का तप किया जाता है, उसको सात्त्विक तप कहते हैं।
विशेष : यहाँ प्रथम श्लोक में शारीरिक तप और द्वितीय श्लोक में लक्षण दिया गया है। परम श्रद्धा एवं निष्काम भाव से शारीरिक, मानसिक एवं वाचिक तप करना चाहिए।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोके भगवता श्रीकृष्णेन मानवानां सत्त्वादिगुणानुसारेण आहारविहारदानतपादिनां वर्णनप्रसङ्गे तपसः स्वरूपं विवेचितम्।
11. संस्कृत-व्याख्या - मानसिकतपसः = स्वरूपं वर्णयन् भगवान् श्रीकृष्णः कथयति यत्-मनः प्रसादः = मनसः चेतसः वा प्रसन्नता, सौम्यत्वम् = सौम्यभावं, मौनम् = मननशीलता, आत्मविनिग्रहः = मनसः निग्रहः, आत्मनः वशीकरणं वा, तथा च, भावसंशुद्धिः = भावानां सम्यक्प्रकारेण शुद्धिकरणम्-इत्येतत् = इति इदम्, मानसम् = मानसिकम् मनसम्बन्धी वा, तपः = तपस्या, उच्यते = कथ्यते।
विशेषः -
(i) अत्र मानसिकतपसः स्वरूपं वर्णितम्। सर्वप्रकारेण येन तपसा मनसः शुद्धिर्भवति, तत् तपः मानसं कथ्यते।
(ii) व्याकरणम् - सौम्यत्वम्-सौम्य + त्व। आत्मविनिग्रहः-आत्मनः विनिग्रहः (आत्मनः नियन्त्रणम्)। भावसंशुद्धिः-भावानां सम्यक् शुद्धिः।
12. संस्कृत-व्याख्या - सात्त्विकतपसः स्वरूपं वर्णयन् भगवान् श्रीकृष्णः कथयति यत्- परया = श्रेष्ठया, श्रद्धया = निष्ठया, युक्तैः = समन्वितैः, अफलाकाक्षिभिः = फलस्य इच्छाविहिनैः, नरैः = मनुष्यैः, त्रिविधम् = त्रिप्रकारकम्, तपः = तपश्चर्याम्, तप्तम् = विहितम्। अर्थाद् परमश्रद्धया निष्कामभावेन मनुष्यैः यत् त्रिविधं शारीरिकं वाचिकं मानसिकञ्च तपः कृतम्, तत् = तत् तपः, सात्त्विकम् = सत्त्वगुणोपेतम्, परिचक्षते = कथ्यते।
विशेषः - (i) अत्र सात्त्विकतपसः यथार्थं स्वरूपं वर्णितम्। निष्कामभावेन परमश्रद्धया च मनसा वाचा कर्मणा च कृतं तपः सात्त्विकं कथ्यते।
(ii) व्याकरणम्-तपस्तत्-तपः + तत्। अफलाकाक्षिभिः-न फलम् इति अफलम्, तेन आकाक्षिभिः। परिचक्षते-परि + चक्ष्, आत्मनेपद।
7. सत्कारमानपूजार्थं .................................................... राजसंचलमध्रुवम् ॥13॥
मूढग्राहेणात्मनो.........................................................तत्तामसमुदाहृतम् ॥14॥
अन्वयः - (i) यत् तपः सत्कार-मान-पूजार्थं च दम्भेन एव क्रियते, तत् इह चलम्, अध्रुवं (च तपः) राजसं प्रोक्तम्।
(ii) यत् तपः मुढग्राहेण आत्मनः पीडया वा परस्य उत्सादनार्थं क्रियते, तत् तामसम् उदाहृतम्।।
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ गीता के सत्रहवें अध्याय से संकलित किया गया है। इसमें भगवान् श्रीकृष्ण ने अर्जुन को उपदेश देते हुए सात्त्विक, राजसी एवं तामसी प्रकृति के मनुष्यों के आहार-विहार, तप, दान आदि के बारे में बतलाया है। प्रस्तुत दोनों श्लोकों में क्रमशः राजस एवं तामस तप के बारे में उपदेश देते हुए श्रीकृष्ण कहते हैं कि -
हिन्दी अनुवाद/व्याख्या - जो तप सत्कार, मान और पूजा के लिए तथा दिखाने के भाव से भी किया जाता है, वह इस लोक में अनिश्चित और नाशवान् फल देने वाला तप 'राजस' कहा गया है। जो तप मूढ़तापूर्वक हठ से अपने को पीड़ा देकर अथवा दूसरों को कष्ट देने के लिए किया जाता है, वह तप 'तामस' कहा गया है।
विशेष : यहाँ प्रथम श्लोक में 'राजस' तप तथा द्वितीय श्लोक में 'तामस' तप के स्वरूप को स्पष्ट किया गया है।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोके भगवता श्रीकृष्णेन अर्जुनस्य जिज्ञासायाः समाधानार्थं मानवानां सत्त्वादित्रिविधगुणानुसारं तेषाम् आहार-विहार-दान-तपादिनां वर्णनप्रसङ्के, राजसं तामसं च तपसः स्वरूपं वर्णितम्।
13. संस्कृत-व्याख्या - भगवान् श्रीकृष्ण : राजसतपसः स्वरूपं वर्णयन् कथयति यत्-यत् तपः सत्कारमानपूजार्थम् = सत्काराय, सम्मानाय, पूजायै च, दम्भेन = अहङ्कारेण प्रदर्शनमात्रेण, एव; क्रियते = विधीयते, तत् तपः, इह = अस्मिन् लोके, चलम् = अनिश्चितम्, अध्रुवम् = नाशवान् फलप्रदम्, च, राजसम् = रजोगुणयुक्तम् ‘राजसम्' इति तपः, प्रोक्तम् = कथितम्।
विशेषः -
(i) स्वदम्भप्रदर्शनाय, सत्काराय, सम्मानाय च कृतं तपः राजसं कथ्यते। तस्य फलं नाशवान् अनिश्चितं च भवतीति भगवता श्रीकृष्णेन समुपदिष्टम्।
(ii) व्याकरणम्-चैव-च + एव। तदिह-तत् + इह। प्रोक्तम्-प्र + उक्तम्। अध्रुवम्-न ध्रुवम् इति।
14. संस्कृत-व्याख्या - भगवान् श्रीकृष्णः तामसतपसः स्वरूपं वर्णयन् कथयति यत्-यत् तपः = यत् तपोकर्म, मूढग्राहेण = मूर्खतापूर्णहठेन, आत्मनः = स्वाम्, पीडया = कष्टेन, वा = अथवा, परस्य = अन्यस्य, उत्सादनार्थम् = य, क्रियते = विधीयते, तत् तपः, तामसम् = तमोगुणप्रधानं 'तामसम्' इति नाम्नः तपः, उदाहृतम् = कथितम्।
विशेषः -
(i) अत्र तामसतपसः स्वरूपं वर्णितम्। तदनुसारेण यत् तपः मूर्खतापूर्वकं हठेन आत्मनः पीडया अथवा अन्यं पीडया क्रियते, तत् तपः तामसं कथ्यते।
(ii) व्याकरणम्-परस्योत्सादनार्थम्-परस्य + उत्सादनार्थम्, उत्सादनाय इति।
8. दातव्यमिति यद्दान ................................................. सात्त्विकं स्मृतम् ॥15॥
यत्तु प्रत्युपकारार्थं ......................................................... राजसं स्मृतम् ॥16॥
अदेशकाले .............................................................तत्तामसमुदाहृतम् ॥17॥
अन्वयः - (i) दातव्यम् इति यत् दानं देशे च काले च पात्रे अनुपकारिणे दीयते, तत् दानं सात्त्विकं स्मृतम्॥
(ii) तु यत् परिक्लिष्टं च प्रत्युपकारार्थं वा फलम् उद्दिश्य पुनः दीयते, तत् दानं राजसं स्मृतम् ॥
(iii) यत् दानम् असत्कृतं च अवज्ञातम् अदेशकाले अपात्रेभ्यः दीयते, तत् तामसम् उदाहृतम् ॥
कठिन-शब्दार्थ :
प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' के 'सत्त्वमाहो रजस्तमः' शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ श्रीमद्भगवद्गीता के सत्रहवें अध्याय से संकलित किया गया है। इन तीनों श्लोकों में क्रमशः सात्त्विक, राजसी एवं तामसी दान के प्रकारों का वर्णन एवं उनके स्वरूप का प्रतिपादन करते हुए भगवान् श्रीकृष्ण कहते हैं कि -
हिन्दी अनुवाद/व्याख्या - 'दान देना कर्त्तव्य है' ऐसे भाव से जो दान देश (स्थान), काल और पात्र व्यक्ति के प्राप्त होने पर अनुपकारी को अर्थात् निष्काम भाव से दिया जाता है, वह दान 'सात्त्विक' कहा गया है।
किन्तु जो दान क्लेशपूर्वक और प्रत्युपकार के लिए अथवा फल-प्राप्ति का उद्देश्य बनाकर फिर दिया जाता है अर्थात् फल का उद्देश्य रखकर अथवा जिससे भविष्य में कुछ न कुछ मिलने की सम्भावना है उसका विचार पहले करके फिर पीछे दान देता है, वह दान 'राजस' कहा जाता है। जो दान बिना सत्कार के तथा अवज्ञापूर्वक, अयोग्य देश और काल में कुपात्र को दिया जाता है, वह दान 'तामस' कहा गया है।
विशेष : यहाँ मनुष्यों की तीन प्रकार की निष्ठा (श्रद्धा) के अनुसार भिन्न-भिन्न प्रकृति होने से दान के भी तीन भेदों के स्वरूपों को प्रकट किया गया है।
सप्रसङ्ग संस्कृत-व्याख्या -
प्रसङ्गः - प्रस्तुतश्लोकः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य ‘सत्त्वमाहो रजस्तमः' इति शीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं श्रीमद्भगवद्गीतायाः सप्तदशाध्यायात् सङ्कलितः। स्वभावजायाः श्रद्धायाः सात्त्विकगुणादिभेदानुसारं मानवानां सात्त्विकाहारादिनां वर्णन् प्रसङ्गे प्रस्तुतश्लोके सात्त्विकदानादिभेदानां स्वरूपं वर्णयन् भगवता श्रीकृष्णेन महत्त्वपूर्णमुपदेशं प्रदत्तम्।
15. संस्कृत-व्याख्या - श्लोकेऽस्मिन् सात्त्विकदानस्य विवेचनं कुर्वन् श्रीकृष्णः कथयति यत् दातव्यमिति = दानम् अवश्यमेव प्रदेयम् इति, यद्दानम् = यादृशं दानं प्रयच्छनं वा, देशे च = स्थाने च, काले च = समये च, पात्रे = दानग्रहणाय सुपात्रे भाजने वा, अनुपकारिणे = निष्कामभावेन, दीयते = प्रयच्छ्यते प्रदीयते वा, तद्दानम् = तादृशं दानं प्रदानं वा, सात्त्विकम् = सत्त्वगुणोपेतम्, स्मृतम् = कथितम्।
विशेषः :
(i) स्वकर्त्तव्यं मत्त्वा यद्दानं देशकालपात्रादिकं विचार्य निष्कामभावेन सुपात्रे प्रदीयते तदेव दानं सात्त्विकं कथ्यते। अनेनात्र सात्त्विकदानस्य स्वरूपं प्रकटितम्।।
(ii) व्याकरणम्-दातव्यम्-दा + तव्यत्। यद्दानम्-यत् + दानम्। अनुपकारिणे-न उपकारिणे इति। तद्दानम्-तत् + दानम्।
16. संस्कृत-व्याख्या - श्लोकेऽस्मिन् राजसदानस्य स्वरूपं वर्णयन् श्रीकृष्णः समुपदिशति यत् यत्तु = परन्तु यत् दानम्, परिक्लिष्टम् = क्लेशपूर्वकम्, च = तथा, प्रत्युपकारार्थम् = प्रत्युपकाराय, प्रतिफलप्राप्तिकामनायै, फलम् = फलप्राप्तये, वा = अथवा, उद्दिश्य = निमित्तं निर्माय, उद्देश्यकामनया वा, पुनः = तदनन्तरम्, दीयते = प्रदीयते प्रयच्छ्य ते वा, तद्दानम् = तादृशं दानम्, राजसम् = रजोगुणोपेतम्, स्मृतम् = कथितम्।।
विशेषः -
(i) प्रस्तुतश्लोके राजसदानस्य यथार्थं स्वरूपं प्रकटितम्। कष्टपूर्वकं प्रत्युपकाराय फलप्राप्तिकामनायै च प्रदत्तं दानं राजसं कथ्यते।
(ii) व्याकरणम्-प्रत्युपकारार्थम्-प्रति + उपकारार्थम्। उद्दिश्य-उत् + दिश् + ल्यप्। परिक्लिष्टम्-परि + क्लिश् + क्त। तद्दानम्-तत् + दानम्।
17. संस्कृत-व्याख्या - श्लोकेऽस्मिन् तामसदानस्य स्वरूपं वर्णयन् श्रीकृष्णः समुपदिशति यत्-यद्दानम् = यत् दानम् प्रदानं वा, असत्कृतम् = सत्कारं विना, च = तथा, अवज्ञातम् = अवज्ञापूर्वकम् अपमानपूर्वकं वा, अदेशकाले = अयोग्यस्थाने असमये च, अपात्रेभ्यः = कुपात्रेभ्यः दानाय अभाजनेभ्यः वा, दीयते = प्रयच्छ्यते, तद्दानम् = तादृशं प्रदानम्, तामसम् = तमोगुणोपेतम्, उदाहृतम् = कथितम्।
विशेषः -
(i) श्लोकेऽस्मिन् भगवता श्रीकृष्णेन तमोगुणोपेतं तामसदानस्य स्वरूपं वर्णितम्। अवज्ञापूर्वकं सत्कारं विना च कुपात्रेभ्यः अयोग्यस्थाने असमये च प्रदत्तं दानं तामसं कथ्यते।
(ii) व्याकरणम्-पात्रेभ्यश्च-पात्रेभ्यः + च। असत्कृतम्-न सत्कृतम्। अवज्ञातम्-अव + ज्ञा + क्त। उदाहृतम् उत् + आ + हृ +क्त।