RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

Rajasthan Board RBSE Solutions for Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Rachana वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 1. 
मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
[मंजूषा : अस्माकं, विद्यालये, अध्यापकाः, छात्र-छात्राश्च, पुस्तकालयः क्रीडाक्षेत्रे] 
उत्तरम् : 
वाक्यानि
(i) अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति। 
(ii) अस्मिन् विद्यालये विंशतिः अध्यापकाः सन्ति। 
(iii) अस्माकं विद्यालये छात्र-छात्राश्च सहैव पठन्ति। 
(iv) अस्मिन् विद्यालये एकः पुस्तकालयः अपि अस्ति। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 2. 
सड़कसुरक्षार्थं किं करणीयम्? चत्वारिवाक्यानि लिखत।
अथवा 
मञ्जूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - सड़कसुरक्षार्थम्, यातायातस्य नियमाः, 'दुर्घटना न भवेत्', मद्यपानं, नियन्त्रिता, पालनं] 
उत्तरम् : 
वाक्यानि
1. सड़कसुरक्षार्थ नियमानां अधिकाधिक प्रचार-प्रसारं करणीयम्। 
2. वाहनस्य गतिनियमानां पालनं करणीयम्। 
3. वाहनस्य गतिः नियन्त्रिता भवेत्। 
4. मद्यपानं कृत्वा वाहनचालनं न स्यात्। 

प्रश्न 3. 
मञ्जूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - पर्यावरणम्, संरक्षणम्, वायु-जल-ध्वनिप्रदूषणेन, मनः स्वास्थ्यं च, उत्तरोत्तरं प्रवर्धमाना, सन्तुलनम्] 
उत्तरम् : 
वाक्यानि
1. यत् परितः अस्मान् आवृणोति तत् पर्यावरणम्। 
2. पर्यावरणेन अस्माकं मनः स्वास्थ्यं च प्रभावितानि भवन्ति। 
3. अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दु:खमयं सञ्जातम्। 
4. पर्यावरणप्रदूषणस्य समस्या उत्तरोत्तरं प्रवर्धमाना अस्ति।

प्रश्न 4. 
मञ्जूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - अनुशासनम्, प्रकृतिरपि, सर्वेभ्यः प्रियः, उन्नतिपथं, किमपि कार्य, महत्त्वम्] 
उत्तरम् : 
वाक्यानि
1. समाजे नियमानां पालनम् अनुशासनं भवति। 
2. जीवने अनुशासनस्य विशेष महत्त्वं भवति। 
3. अनुशासनं विना किमपि कार्य सफलं न भवति। 
4. अनुशासितः जनः सर्वेभ्यः प्रियः भवति। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 5. 
मजूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - सड़कसुरक्षायाः, चतुष्पथेषु, अल्पवयस्काः , सुरक्षाकवचस्योपयोगः, दण्डं दातव्यम्, यातायातनिरीक्षकाणाम्]
अथवा 
"सड़कसुरक्षायाः उपायाः" इति विषये चत्वारिवाक्यानि लिखत।
उत्तरम् : 
सड़कसुरक्षायाः उपायाः/वाक्यानि
1. सड़कसुरक्षायाः नियमानां पालनं सर्वैः करणीयम्। 
2. यातायातनिरीक्षकाणां पर्याप्तव्यवस्था स्यात्। 
3. ये जनाः यातायातनियमानां पालनं न कुर्वन्ति तेभ्यः दण्ड दातव्यम्। 
4. अल्पवयस्का: बालकाः वाहनं न चालयेयुः।

प्रश्न 6. 
मञ्जूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - असावधानतया, यातायातनियमानाम्, चलदूरभाषयन्त्रण, प्रवेश निषेधमार्गे, तीव्रगत्या, दुर्घटना] 
उत्तरम् :
वाक्यानि
1. असावधानतया वाहनचालनेन दुर्घटना भवति। 
2. प्रवेश-निषेधमार्गे प्रवेशत् सड़कदुर्घटना जायते। 
3. तीव्रगत्या वाहनचालनेन दुर्घटना भवति। 
4. वाहनचालनसमये चलदूरभाषयन्त्रेण वार्तया दुर्घटना जायते। 

प्रश्न 7. 
चित्रं दृष्ट्वा चत्वारिवाक्यानि रचयत - 
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 1
उत्तरम् : 
1. चित्रे राजमार्गस्य दृश्यं वर्तते। 
2. राजमार्गे विविधानि वाहनानि गच्छन्ति। 
3. वाहनानां धूमेन वातावरणं प्रदूषितं भवति। 
4. वाहनस्य गतिनियमानां पालनं करणीयम्। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 8. 
चित्रं दृष्ट्वा चत्वारिवाक्यानि रचयत -
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 2
उत्तरम् : 
(i) अस्मिन् चित्रे छात्राः अध्यापका: च स्वच्छताकार्य कुर्वन्ति। 
(ii) चित्रे शिक्षकाः स्वच्छताकार्ये छात्राणां सहायतां कुर्वन्ति। 
(iii) छात्रा: राजमार्गे स्वच्छतां कुर्वन्ति। 
(iv) अधुना भारदेशे सर्वत्र स्वच्छताभियानं प्रचलति। 

प्रश्न 9. 
चित्रं दृष्ट्वा चत्वारिवाक्यानि लिखत। 
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 3
उत्तरम् : 
1. अस्मिन् चित्रे छात्रा: स्वच्छताकार्यं कुर्वन्ति। 
2. ते सार्वजनिकस्थलस्य स्वच्छताभियाने तत्पराः सन्ति। 
3. कतिपयेषु छात्रेषु हस्ते स्वच्छता-सन्देशपट्टिकाः सन्ति। 
4. स्वच्छताभियानं सम्पूर्णभारते प्रचलति। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 10. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 4
[सड़कदुर्घटनायाः, सुरक्षार्थं, गतिनियमानां, नियन्त्रिता, मद्यपानं, पालनीयाः] 
उत्तरम् : 
1. इदं चित्रं सड़कदुर्घटनायाः वर्तते। 
2. राजमार्गे जनानां सुरक्षार्थं सावधानतया वाहनं चालयेत्। 
3. वाहनचालनसमये गतिनियमानां पालनं करणीयम्।' 
4. चतुष्पथेषु वाहनस्य गतिः नियन्त्रिता भवेत्।

प्रश्न 11. 
स्वच्छताविषये चत्वारिवाक्यानि लिखत।
अथवा 
मञ्जूषातः पदं चित्वा चत्वारिवाक्यानि लिखत।
[मंजूषा - स्वच्छताभियानम्, सार्वजनिकस्थानस्य, स्वच्छताकार्य, शौचालयानां अवकरपात्रेषु, अस्माकं दायित्वम्]
उत्तरम् : 
1. अधुना अस्माकं देशे 'स्वच्छताभियानं' प्रचलति। 
2. अस्माभिः गृहस्य सार्वजनिकस्थलस्य च स्वच्छता करणीया। 
3. सर्वत्र स्वच्छतायाः अस्माकं दायित्वम् अस्ति। 
4. अस्माभिः अवकरपात्रेषु अवकरं स्थापनीयम्। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 12. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
अथवा 
पर्यावरणप्रदूषणविषये चत्वारिवाक्यानि लिखत।
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 5
[पर्यावरण प्रदूषणम्, धूममुञ्चन्ति, वाहनानां, वायुमण्डलं, 'जीवनं, असन्तुलनं] 
उत्तरम् : 
1. अद्य अस्माकं पर्यावरणम् अतीव दूषितं वर्तते। 
2. महानगरमध्ये बहूनि वाहनानि सततं धूमं मुञ्चन्ति। 
3. वाहनानां कोलाहलेनापि ध्वनि-प्रदूषणं भवति। 
4. तेषां धूमेन वायुमण्डलं भृशं प्रदूषितं भवति। 

प्रश्न 13. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत -
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 6
[सड़कदुर्घटना, कारयानम्, चलदूरभाषयन्त्रेण, नियन्त्रणाभावेन, तीव्रगत्या, असावधानतया] 
उत्तरम् : 
(i) इदं चित्रं सड़कदुर्घटनायाः अस्ति। 
(ii) कारयानचालक: चलदूरभाषयन्त्रेण वार्ता करोति। 
(iii) सः तीव्रगत्या वाहनचालनं करोति। 
(iv) अनेन वाहने नियन्त्रणाभावेन बालिका दुर्घटनाग्रस्ता जाता। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 14. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत - 
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 7
[वर्ण-विद्युतस्तम्भः, राजमार्गम्, स्वस्य पंक्ती, आवागमनस्य, रक्तवर्णः, हरितवर्णः] 
उत्तरम् : 
1. इदं चित्रं राजमार्गे चतुष्पथस्य वर्तते। 
2. चित्रे वर्ण-विद्युतस्तम्भः, राजमार्गश्च दृश्येते। 
3. रक्तवर्णः अग्रे गमनात् निषेधयति। 
4. हरितवर्णस्य चिह्नानुसारेण अग्रे गन्तव्यम्। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 15. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 8
[यातायातनिरीक्षकः, नियमानां, दण्डं, गतिनियन्त्रणं, चतुष्पथेषु, सुरक्षाकवचस्य] 
उत्तरम् : 
(i) अस्मिन् चित्रे यातायातनिरीक्षकः निरीक्षणं करोति। 
(ii) सड़कसुरक्षार्थ यातायातनियमानां पालनं आवश्यकम्।
(iii) अत्र वाहनचालकाय निरीक्षकः दण्डं ददाति। 
(iv) राजमार्गे वाहनस्य गतिनियन्त्रणम् अनिवार्यम्। 

प्रश्न 16. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 9
[यातायात-प्रदूषणम्, सड़क सुरक्षार्थम्, वाहनानां धूमेन, अन्धता, दुर्घटना, वाहन-सुरक्षा।] 
उत्तरम् : 
1. अस्मिन् चित्रे यातायात-प्रदूषणं दृश्यते। 
2. सड़कसुरक्षार्थ यातायात-प्रदूषणस्य नियन्त्रणमनिवार्यम्। 
3. वाहनानां धूमेन राजमार्गस्य वातावरण प्रदूषितं भवति। 
4. धूमेन जनेषु अनेके रोगाः, अन्धता च भवति। 

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 17. 
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य चत्वारि वाक्यानि लिखत - 
(खगाः, विकसन्ति, उदेति, कमलानि, सूर्यः, बालाः कूजन्ति, क्रीडन्ति)
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 10
उत्तरम् : 
1. इदं चित्रम् उद्यानस्य वर्तते। 
2. उद्याने बालाः क्रीडन्ति। 
3. उद्याने खगाः कूजन्ति। 
4. उद्याने सूर्यः उदेति, कमलानि च विकसन्ति।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम्

प्रश्न 18. 
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा चत्वारि वाक्यानि लिखत।
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् एवं चित्र आधारित वर्णनम् 11
[मञ्जूषा - छात्रः, छात्रा, गवाक्षे, श्यामपटे, घटिकायन्त्रम्, कुरुतः, भित्तौ, परीक्षायाः, दृश्यते] 
उत्तरम् :
वाक्यानि
(i) अस्मिन् चित्रे परीक्षायाः दृश्यं दृश्यते।
(ii)  अत्र एकः छात्र: एका छात्रा च वार्ता कुरुतः।
(iii) भित्तौ घटिकायन्त्रम् अस्ति।
(iv) श्यामपटे 'परीक्षा' इति शब्द: लिखितः।

Prasanna
Last Updated on June 9, 2022, 11:52 a.m.
Published June 9, 2022