RBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्

Rajasthan Board RBSE Solutions for Class 8 Sanskrit रचना निबन्ध-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Rachana निबन्ध-लेखनम्

प्रश्न 1. 
निर्देशानुसारं पदानि स्वीकृत्य 'विद्यालयम्' निबन्ध लेखनम् कुरुत - 
(अस्माकम्, छात्र-छात्राश्च, अध्यापकाः, अष्टम् कक्षा, द्विशतं छात्राः)। 
उत्तरम् : 
विद्यालयम् . अस्माकं विद्यालय: जयपुरनगरस्य मध्ये रमणीये स्थाने स्थितः। अयम् उच्चमाध्यमिकविद्यालयः अस्ति। अहम् अस्मिन् विद्यालये अष्टमी कक्षायां पठामि। अस्मिन् विद्यालये छात्रछात्राश्च सहैव पठन्ति। अस्माकं विद्यालये पञ्चदश अध्यापका: सन्ति। अत्र द्विशतं छात्रा: पठन्ति। अस्य विद्यालयस्य भवनं द्विभूमिकं विस्तृतं भव्यं सुसज्जितम् चास्ति। अस्य पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति, विविधाः पत्र-पत्रिकाः च समायान्ति। अयं विद्यालयः पठन-पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते। अत्रत्याः छात्रा: योग्यतमाः सन्ति। अयम् आदर्शविद्यालयः अस्ति। 

प्रश्न 2. 
निर्देशानुसार पदानि स्वीकृत्य 'उद्यानम्' विषये निबन्धलेखनं कुरुत - 
(विद्यालयस्य समीपे, वक्षाः,खगाः, पुष्पाणि, भ्रमणाय)। 
उत्तरम्-
उद्यानम् अस्माकं विद्यालयस्य समीपे एकं रम्यम् उद्यानम् अस्ति। इदम् उद्यानम् अतीव विशालं सुन्दरं चास्ति। अस्मिन् उद्याने विविधाः वृक्षाः पादपाः लताश्च सन्ति। पादपेषु विविधानि पुष्पाणि विकसितानि सन्ति। वृक्षेषु विविधाः खगा: कलरवं कुर्वन्ति। जनाः प्रातः सायं चात्र भ्रमणाय प्रतिदिनं आगच्छन्ति। अस्मिन् उद्याने बालकाः बालिकाश्च क्रीडन्ति। उद्यानस्य वातावरणं स्वच्छं वर्तते। 

RBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्

प्रश्न 3. 
निर्देशानुसार पदानि स्वीकृत्य 'शिक्षकः' इति विषये निबन्धलेखनं कुरुत - 
(शिक्षयति, अज्ञानान्धकार, पशुतुल्यः मनुष्यस्य, गुरुकुले, वारयति, संयमानुशासनं ज्ञानं च, त्यागस्य भावनां)।
उत्तरम् :
शिक्षकः
उत्तरम्य: शिक्षयति सः शिक्षकः। शिक्षक: छात्राणाम् अज्ञानान्धकार दूरीकरोति। अशिक्षितः मानवः पशुतुल्यः भवति। शिक्षक: मनुष्यस्य बाल्यकालादेव तस्य मनः मस्तिष्कं च शिक्षयति। शिक्षितं कृत्वा जनं मनुष्यं करोति। प्राचीनकाले गुरुकुले शिक्षक: छात्रेभ्यः शिक्षयन्ति स्म। छात्राः तान् गुरुः इति अकथयन्। शिक्षक: बालकान् दुष्प्रवृत्तेवारयति। सः संयमानुशासनं ज्ञानं |च शिक्षयति। सः बालकेषु परोपकारस्य, सेवायाः, त्यागस्य भावनां पूरयति। एतादृशः शिक्षकस्य स्थानं समाजे अपि महत्वपूर्णम् अस्ति। अस्माकं देशे प्रतिवर्षे सितम्बरमासस्य पञ्चमे दिनाङ्के "शिक्षकदिवसः" आयोज्यते।

प्रश्न 4. 
निर्देशानुसारं पदानि स्वीकृत्य परोपकारः' इति विषये निबन्धलेखनं कुरुत -
(कथ्यते, निःस्वार्थभावनया, सज्जनाः, परहिताय, प्रवहन्ति, वर्षित्वा, परकल्याणरता, प्रत्युपकारम्)। 
उत्तरम् :
परोपकारः परेषाम् उपकारः परोपकारः कथ्यते। यत्कार्यं नि:स्वार्थभावनाया क्रियते तदैव परोपकारः। संसारे द्विविधा मनुष्याः सन्ति। तेषु केचन् सज्जना: भवन्ति। तेषां सम्पूर्ण-जीवनं परहितार्थं समर्पित भवति। वृक्षाः परहिताय स्वफलानि छायां च यच्छन्ति। नद्यः परेषां पिपासां शान्तयितुं अनवरतं प्रवहन्ति। मेघाः जलं वर्षित्वा संसारं हरितं कुर्वन्ति। प्रकृतिः निरन्तरं परकल्याणरता वर्तते। परम् इयं कदापि प्रत्युपकारं न वाञ्छति। प्रकृतेः सदृशः परोपकारिणः स्वशरीरम् अपि परोपकारायैव मन्यते।

प्रश्न 5. 
निर्देशानुसारं पदानि स्वीकृत्य 'भारतदेशः' विषये निबन्धलेखनं कुरुत - 
(जन्मभूमिः, विविध-रलानां, अनुपमा, हिमालयः, सागरः, गुरुरस्ति, नद्यः, जनाः)।
उत्तरम् : 
भारतदेशः भारतवर्षः अस्माकं देशः अस्ति। अयं अस्माकं जन्मभूमिः। अस्य भूमिः विविध-रत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। भारतवर्ष: अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुना प्रभृत्यः नद्य अस्य शोभां वर्धयन्ति। अयं देशः सर्वासां विद्यानां केन्द्रम् अस्ति। अयम् अनेकप्रदेशेषु विभक्तः। अत्र विविध-धर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृतिः धर्मपरम्परा च श्रेष्ठा अस्ति। इयं भूः स्वर्गः अपि वर्तते। ईश्वरस्य अवताराः अस्मिन् देशे सजाताः। वयं स्वदेशोपरि गर्वान्विताः स्मः। 

RBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्

प्रश्न 6. 
निर्देशानुसारं पदं स्वीकृत्य 'संस्कृतभाषायाः महत्त्वम्' इति विषये निबन्धलेखनं कुरुत - 
(सर्वासां भाषाणां, देवभाषा, प्राचीनतमा, आधुनिक, दृष्ट्या)। 
उत्तरम् :
संस्कृतभाषायाः महत्त्वम् संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। इयं भाषा देवभाषा कथ्यते। संस्कृतभाषा सर्वासां भाषाणां जननी वर्तते। आधुनिककालेऽपि संस्कृतस्य महत्त्वं दृश्यते। वैज्ञानिकाः सङ्गणकस्य कृते संस्कृतं सर्वोत्तमा भाषा मन्यन्ते। सर्वे प्राचीनग्रन्थाः, चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। व्याकरणस्य दृष्ट्या तु संस्कृतभाषा सर्वश्रेष्ठा अस्ति। 

प्रश्न 7. 
निर्देसानुसारं पदानि स्वीकृत्य अनुशासनम्' इति विषये निबन्धलेखनं कुरुत -
(नियमानां, महत्त्वं, प्रत्येकस्मिन्, सफलं, छात्रेभ्यः, प्रियः, अत्यन्तं, कलहः)। 
उत्तरम् : 
अनुशासनम् 
समाजे नियमानां पालनम् अनुशासनं भवति। जीवने अनुशासनस्य विशेष महत्त्वं भवति। प्रत्येकस्मिन् पदे अनुशासनम् आवश्यकं भवति। अनुशासनं विना किमपि कार्य सफलं न भवति। छात्रेभ्यः अनुशासन व्यवस्थायै परमावश्यकम अस्ति : अनुशासितः सर्वेभ्य: प्रियः भवति। सामाजिकव्यवस्थायै अनुशासनम् अत्यन्तम् आवश्यकम् अस्ति यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति शिक्षकस्य अनुशासने छात्राः निरन्तरं उन्नतिपथे गच्छन्ति प्रकृतिः अपि ईश्वरस्य अनुशासने तिष्ठति। य: नरः पूर्णतया अनुशासनं पालयति सः स्वजीवने सदा सफल: भवति। अतः अनुशासनस्य पालनं जीवने बहु आवश्यकं भवति। 

प्रश्न 8. 
निर्देशानुसारं पदानि स्वीकृत्य 'हिमालयः' विषये निबन्धलेखनं कुरुत - 
(उत्तरस्यां दिशि, हिमाच्छादिताः, हिमस्य, उन्नततमः, नगाधिराजः, शिवस्य, पार्वत्याः, अपि)। 
उत्तरम् : 
हिमालयः हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्यां दिशि वर्तते। अस्य शिखरभागाः सदैव हिमाच्छादिताः सन्ति। अतएव सः हिमस्य आलयः अर्थात् 'हिमालयः' कथ्यते। सः विश्वस्य समस्तेषु पर्वतेषु' उन्नततमः। अतः एव सः 'नगाधिराजः' इत्यपि ज्ञायते। पर्वतोऽयं भगवतः शिवस्य क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलमपि, विविधकिन्नर-गन्धर्वसाधु-सुरादीनां वसतिरपि। 

RBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्

प्रश्न 9. 
मंजूषातः पदानि चित्वा सड़कसुरक्षाविषये निबन्धलेखनं कुरुत
(सड़कसुरक्षार्थम्, यातायातस्य नियमाः, 'दुर्घटना न भवेत्', चतुष्पथेषु, मद्यपानं, नियन्त्रिता, पालनं, सुरक्षाकवच)। 
उत्तरम् : 
सड़क-सुरक्षा
1. सड़कसुरक्षार्थ नियमानां अधिकाधिकं प्रचार- सारं करणीयम्। 
2. वाहनस्य गतिनियमानां पालनं करणीयम्। 
3. वाहनस्य गतिः नियन्त्रिता भवेत्।
4. मद्यपानं कृत्वा वाहनचालनं न स्यात्।। 
5. सड़क सुरक्षार्थ यातायातस्य नियमाः पालनीयाः। 
6. 'दुर्घटना न भवेत्' इत्यस्य प्रसारः भवेत्। 
7. चतुष्पथेषु सावधानतया गन्तव्यम्। 
8. वाहनचालनसमये सुरक्षाकवचस्योपयोगः कर्त्तव्यः। 

प्रश्न 10. 
निर्देशानुसार पदानि स्वीकृत्य 'धेमोः महत्त्वम्' विषये निबन्धलेखनं कुरुत - 
(पूजनीया, धेनवः, कपिलायाः, बलवर्धक, गोमूत्रम्, गोमयेन, पञ्चगव्यस्य, रक्षां)। 
उत्तरम् : 
धेनोः महत्त्वम् 
1. भारतदेश धेनुः मातृवत् पूजनीया अस्ति। 
2. भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति। 
3. कपिलायाः धेनोः महत्त्वम् अधिकमस्ति। 
4. धेनुदुग्धं सुपाच्यं पौष्टिकं बलवर्धकं च भवति। 
5. गोमूत्रम् अनेकासु औषधिषु प्रयुक्तं भवति। 
6. गोमयेन वयं स्वगृहान् पवित्रीकुर्मः।
7. पञ्चगव्यस्य उपयोग: विविधरोगाणां निवारणाय भवति। 
8. धेनुः अस्माकं मातृवत् रक्षां करोति। 

RBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्

प्रश्न 11. 
निर्देशानुसारं पदानि स्वीकृत्य 'पुस्तकालयः'। 
निबंध-लेखनम् कुरुत -
(विद्यालये, सार्वजनिकस्थाने, पुस्तकालयः जनाः दैनिक समाचारपत्राणि, विविध-विषयानाम् पुस्तकानि)
उत्तरम् : 
पुस्तकालयः 
मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते। अस्माकं ग्रामस्य सार्वजनिकस्थाने एकः पुस्तकालयः वर्तते। अत्र विविध-विषयानाम् पुस्तकानि सन्ति। अस्मिन् पुस्तकालये जनाः दैनिक-समाचारपत्राणि पठितुमपि आगच्छन्ति। अस्य पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते। अस्य समीपे एकः वाचनालयः वर्तते। यत्र बहवः जनाः छात्राः, युवतयश्च प्रतिदिनम् आगत्य स्वाध्यायं कुर्वन्ति। अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसा कुर्वन्ति। अयम् एकः आदर्शः पुस्तकालयः विद्यते। मम विद्यालयेऽपि एकः पुस्तकालयः अस्ति। वयं तत्र पठामः।

Prasanna
Last Updated on June 9, 2022, 9:40 a.m.
Published June 8, 2022