Rajasthan Board RBSE Solutions for Class 11 Sanskrit रचना संकेताधारितम् अनुच्छेदलेखनम् Questions and Answers, Notes Pdf.
The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.
यदि हम किसी भी गद्य-पुस्तक को देखते हैं, तब हमें दिखाई देता है कि वह पुस्तक विभिन्न विभागों में विभाजित है। ये विभाग अध्याय कहलाते हैं। उसी प्रकार कोई भी निबन्ध, लघु-लेख भी विभिन्न भागों में विभक्त होता है। उस निबन्ध के ये विभाग अनुच्छेद कहलाते हैं। अनुच्छेद परस्पर में सम्बन्धित इस प्रकार के वाक्यों का समूह है जिसमें एक ही विचार-बिन्दु का वर्णन होता है। जैसा पद्य में चरणों और अक्षरों का छन्द के अनुसार क्रम होता है, वैसा अनुच्छेद में दीर्घता अथवा लघुता का नियम नहीं होता है।
अनुच्छेद लिखने में कुछ महत्त्वपूर्ण नियम ध्यान में रखने चाहिए। जैसे -
1. अनुच्छेद लिखने से पहले वर्ण्य विषयों के छोटे-छोटे वाक्यों का मन में चिन्तन करना चाहिए।
2. चिन्तन करते समय एक ही विचार-बिन्दु के बारे में सोचना चाहिए।
3. अनुच्छेद के प्रथम मूल वाक्य में अनुच्छेद के वर्ण्य विषय का मुख्य रूप से कथन होना चाहिए, उसके बाद उसका विवेचन करना चाहिए।
4. विषय के विवेचन में एक तार्किक क्रम होना चाहिए, जैसे 'गौ' (गाय) इस पद का विचार करते समय गाय के चरणों, पूँछ, वर्ण और उपयोगिता आदि का क्रमिक वर्णन करना चाहिए।
5. अनुच्छेद का अन्तिम वाक्य निष्कर्षात्मक अथवा सारांशयुक्त होना चाहिए।
6. वाक्यों के निर्माण में सरसता और सरलता का अनुसरण करना चाहिए। एक ही प्रकार का आश्रय लेने से नीरसता उत्पन्न होती है।
7. भाषा व्याकरणगत दोषों से रहित और सरल होनी चाहिए।
संक्षेप में अनुच्छेद-लेखन में ध्यातव्य क्रम इस प्रकार है -
1. विषय का चिन्तन।
2. विचारों की एकात्मकता।
3. सुन्दर उपोद्घात रूप (प्रारम्भिक कथन) मूल वाक्य।
4. विचारों का तार्किक क्रम।
5. वाक्य निर्माण के प्रसङ्ग में विविधता।
6. सम्पूर्ण निष्कर्षात्मक एक अन्तिम वाक्य।
7. व्याकरण के दोष से रहित व सरल भाषा।
अभ्यासार्थ-अनुच्छेद
निर्देश: - प्रदत्तसंकेताधारेण संस्कृतभाषायाम् अनुच्छेद: लेखनीयः -
1. रामायणम्
संकेतः - रामायणम्, रचयिता, महर्षिः वाल्मीकिः, लौकिक छन्दसां, आदिकाव्यम्, आदिकविः, रामचन्द्रस्य, जीवनचरितस्य, भारतीयसंस्कृतेः, काव्यदृष्ट्या, भाषा, भावाः, करुणरसस्य प्राधान्यम्, आचारशास्त्रम्, शिक्षाः, कविषु, नाटककारेषु, प्रभावः, कथावस्तुं, काव्यानां, कृतवन्तः।
अनुच्छेदः - रामायणं संस्कृतसाहित्यस्य उच्चकोटेः महाकाव्यं अस्ति। अस्य रचयिता महर्षि वाल्मीकिः वर्तते। सर्वप्रथमं रामायणे एव लौकिक छन्दसां प्रयोगः कृतः। अतएव रामायण एव आदिकाव्यं वाल्मीकिः एव आदिकविः। अस्मिन् महाकाव्ये मर्यादापुरुषोत्तम रामचन्द्रस्य जीवनचरितस्य वर्णनं विद्यते। अस्मिन् भारतीय संस्कृतेः सुन्दरतमं रूपं वर्णितमस्ति। काव्यदृष्ट्या इदं अतिसुन्दरं काव्यमस्ति। अस्य भाषा प्रारंभात् अन्तपर्यन्तं परिष्कृता प्रसादगुणयुक्ता चास्ति। अस्मिन् भावाः अत्युच्चाः मनोरमाश्च सन्ति। अस्मिन् करुणरसस्य प्राधान्यं वर्तते इदं आचारशास्त्रमस्ति। अस्य शिक्षाः व्यावहारिक्यः सन्ति। परकालिकेषु कविषु नाटककारेषु च अस्य अतिगम्भीरः प्रभावः संजातः। ते रामायणात् कथावस्तुं स्वीकृत्य काव्यानां रचनां कृतवन्तः।
2. महाभारतम्
संकेत: - महाभारतं, विश्वकोशात्मकः, धर्म-अर्थ-काम-मोक्षाणां, यत् किमपि, अस्ति, तदेव, अन्यत्र, नास्ति, एकलक्षश्लोकाः, चतुर्वेदेभ्यः अपि, अधिकभारत्वात्, नाम, विभाजनं, अष्टादशपर्वसु, 2108 अध्यायेषु, कारणतः, शतसाहस्त्री संहिता, कौरव-पाण्डवानां, जीवनस्य संग्रामस्य, रचना, 3100 वर्णाणि पूर्वम्।
अनुच्छेदः - महाभारतं विश्वकोशात्मकः ग्रन्थः अस्ति। धर्म-अर्थ-काम-मोक्षाणां विषये यत् किमपि महाभारते अस्ति तदेव अन्यत्र अपि अस्ति। यत् महाभारते नास्ति, तद् अन्यत्र अपि नास्ति। महाभारते एकलक्षश्लोकाः सन्ति। चतुर्वेदेभ्यः अपि अधिकभारत्वात् अस्य काव्यस्य नाम महाभारतम् अभवत्। महाभारतस्य विभाजनं अष्टादशपर्वसु 2108 अध्यायेषु च कृतम्। एकलक्ष-श्लोकसंख्यायाः कारणतः महाभारतं शतसाहस्त्रीसंहिता अपि कथ्यते। महाभारते मुख्यरूपेण कौरव-पाण्डवानाम् जीवनस्य संग्रामस्य च कथा अस्ति। भारतीयपरम्परानुसारेण महाभारतस्य रचना ख्रिस्तात् 3100 वर्षाणि पूर्वम् अभवत्।
3. महाभारतस्य वैशिष्टयम्
संकेत: - महाभारतं, महाकाव्यम्, इतिहास-पुराणम्, इतिहास-धर्म-नीति-दर्शानानां, अमूल्यनिधिः, विश्वकोशः, पञ्चमवेदः, काव्यानां, कथावस्तु, गृहीता, भारवे किरातार्जुनीयम्, शिशुपालवधम्, नैषधीयचरितम्, अभिज्ञानशाकुन्तलम्, वेणीसंहारम्, बालभारतम्, हिन्दीसाहित्यमपि, प्रभावितम्, गीतादयः ग्रन्थाः।
अनुच्छेदः - महाभारतं न केवलं महाकाव्यम् अस्ति, न केवलं पुराणं अस्ति अपितु इतिहास-पुराणम् अस्ति। महाभारतम् इतिहास-धर्म-नीति-दर्शनानां अमूल्यनिधिः अस्ति, अतएव विश्वकोशः पञ्चमवेदश्च कथ्यते। संस्कृते अनेकानां काव्यानां कथावस्तु महाभारतात् गृहीता अस्ति। तेषु मुख्यकाव्यानि सन्ति - भारवेः किरातार्जुनीयम्, माघस्य शिशुपालवधम्, श्रीहर्षस्य नैषधीयचरितम्, कालिदासस्य अभिज्ञान शाकुन्तलम्, भट्टनारायणस्य वेणीसंहारं राजशेखरस्य बालभारतं च। आधुनिकहिन्दीसाहित्यमपि महाभारतात् प्रभावितम् अस्ति। श्रीमद्भगवद्गीता, विष्णुसहस्रनाम, भीमस्तवराजः गजेन्द्रमोक्षश्च महाभारतस्य एव अंशभूता सन्ति। वेदव्यासः स्वयमेव महाभारतस्य विषये कथितवान् -
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति।
4. कुमारसंभवस्य वैशिष्टयम्
संकेत: - कुमारसंभवम्, कालिदासेन, विरचितं, महाकाव्यम्, कथानकस्य, मूलाधारः, शिवपार्वत्योः विवाहस्य, कार्तिकेयस्य जन्मकथा, मुख्यरस: वीरः, वैदर्भी रीतिः, प्रसादगुणः, उपमा कालिदासस्य, प्रकृतेः चित्रणम्, वसन्त-वर्णने, बाह्य-प्रकृत्याः, अन्तःप्रकृतिचित्रणे, कुशलः, पञ्चमसर्गे, पार्वत्याः, मनोभावानां, चित्रणं, काव्यसौन्दर्यं दृष्ट्वा, जयदेवः, 'कविताकामिनीविलासः', कथयति।
अनुच्छेदः - कुमारसंभवम् महाकविना कालिदासेन विरचितं एकं महाकाव्यं अस्ति। अस्य कथानकस्य मूलाधारः वाल्मीकीयरामायणम् अस्ति। अस्मिन् महाकाव्ये शिव-पार्वत्योः विवाहस्य कुमारस्य कार्तिकेयस्य जन्मकथायाश्च वर्णनम् अस्ति। अस्य महाकाव्यस्य मुख्यरस: वीरः अस्ति। अस्मिन् काव्ये वैदर्भी रीतिः प्रसादगुणश्च स्तः। शैली लालित्ययुक्ता परिष्कृता च अस्ति। भाषा समासरहिता अथवा अल्पसमासयुक्ता वर्तते। उपमा कालिदासस्य प्रियोऽलंकारः। यथा उक्तम् 'उपमा कालिदासस्य'। अस्मिन् महाकाव्ये प्रकृतेः चित्रणमपि शोभनं कृतम्। तृतीयसर्गे वसन्त-वर्णने बाह्य प्रकृत्याः चित्रणम् दृष्टव्यमस्ति। एवमेव अन्तःप्रकृति चित्रणे अपि कालिदासः कुशलः अस्ति। पञ्चमसर्गे पार्वत्याः मनोभावानां सुन्दरं चित्रणं सरलशब्दैः कृतम्। कालिदासस्य काव्यसौन्दर्यं दृष्ट्वा एव प्रसन्नराघवस्य कर्ता जयदेवः तं 'कविताकामिनीविलासः' इति कथयति।
5. रघुवंशमहाकाव्यस्य वैशिष्टयम्
संकेत: - रघुवंशं, महाकाव्यं, कालिदासस्य, प्रौढ़प्रतिभायाः, रघुवंशीयनृपाणां, गुणान्, प्रकटी, द्वितीयस , दिलीपस्य, गोसेवाप्रसंगे, सेवायाः, स्थापयति, पंचमे सर्गे, रघु-कौत्स-संवादे, दानशीलतायाः, निःस्पृहतायाश्च, इन्दुमति-स्वयंवरवर्णने, उपमानम्, अनेक, 'दीपशिखा कालिदासः', समुद्रनद्यो: संगमस्य, सर्वेषां रसानां, रघोः वर्णने, रमते।
अनुच्छेद: - रघुवंशम् महाकविकालिदासस्य प्रौढप्रतिभायाः प्रतिफलमस्ति। अस्मिन् महाकाव्ये कालिदासः रघुवंशीयनपाणां गुणवर्णनेन आदर्शनृपस्य गुणान् प्रकटी करोति। महाकाव्यस्य द्वितीयसर्गे कविः दिलीपस्य गोसेवाप्रसंगे सेवायाः निदर्शनं स्थापयति। पञ्चमसर्गे रघु-कौत्ससंवादे रघो: दानशीलतायाः कौत्सस्य निःस्पृहतायाश्च वर्णनं वर्तते। षष्ठसर्गे इन्दुमती स्वयंवरप्रसंगे इन्दुमत्याः कृते सर्वोत्तमम् उपमानं प्रदत्तम्। अनेन उपमानेन सः 'दीपशिखा कालिदासः' रूपेण प्रसिद्धोऽभवत्। त्रयोदशसर्गे समुद्रनद्योः संगमस्य वर्णनप्रसंगे प्रकृतिचित्रणमपि दृष्टव्यम्। त्रिवेणीसंगमस्य चित्रणे वर्णनस्य उदात्तता अपि दृष्टव्या। अष्टम् सर्गे 'मरणं प्रकृतिः शरीरिणाम्' इत्युक्त्वा कवि स्वदार्शनिक विचारान् प्रकटयति।
रस योजनादृष्ट्या रघुवंशे प्रायः सर्वेषां मुख्यरसानां परिपाकः जातः। अग्निवर्णस्य विशालवर्णने शृङ्गारस्य, रघु-अज रामस्य युद्धप्रसङ्गेषु वीरस्य, अज-विलापे करुणस्य वाल्मीकिवशिष्ठयौः आश्रयवर्णने सर्वस्वत्यागिनः रघोः वर्णने च शान्त रसस्य प्राधान्यं वर्तते।
रघुवंशस्य काव्य वैशिष्ट्यं दृष्ट्वा एव कथितम् अस्ति-'के इह रघुकारे न रमते।'
6. किरातार्जुनीयं महाकाव्यम्
संकेत: - किरातार्जुनीयम्, महाकाव्यं, भारविणा, विरचितम्, कथानकस्य मूलाधारः, महाभारतं वनपर्वणि, अष्टादशसर्गेषु, आश्रिव्य एव, किरातश्च अर्जुनश्च, तौ अधिकृत्य, किरातः शिवः, संक्षिप्तं, कथानकं, स्वीकृत्य, मौलिककल्पनाभिः, काव्यप्रतिभया, मौलिकताम्, उत्पादितवान्।
अनुच्छेदः - 'किरातार्जुनीयम्' महाकाव्यं महाकविना भारविणा विरचितम् अस्ति। अस्मिन् महाकाव्ये कथानकस्य मूलाधारः महाभारतम् वर्तते। महाभारतस्य वनपर्वेणि किरातार्जुनीयस्य कथा अस्ति। एषा कथा किरातार्जुनीये महाकाव्ये अष्टादश सर्गेषु विभक्ता वर्तते। कथानकम् आश्रित्य एव काव्यस्य नाम-'किरातार्जुनीयम्' अस्ति। किरातश्च अर्जुनश्च किरातार्जुनौ, तौ अधिकृत्य कृतं काव्यम् 'किरातार्जुनीयम्'। अत्र किरातः किरातवेषधारिशिवः अस्ति। महाभारतात् संक्षिप्त कथानकं स्वीकृत्य भारविः मौलिक-कल्पनाभिः काव्यप्रतिभया च कथानके मौलिकतां उत्पादितवान्।
7. नैषधीयचरितं महाकाव्यम्
संकेत: - नैषधीयचरितं, महाकाव्यं, श्रीहर्षेण विरचितम्, निषधदेशस्य राज्ञः नलस्य, पत्न्याः दमयन्त्यश्च, कथा, कथानकं, द्वाविंशतिसर्गेषु, विभक्तम्, वस्तुनिर्देशात्मकं, मंगलाचरणम्, पौराणिकी, नायकः, धीरोदात्तगुणैः, नायिका दमयन्ती, मुख्यरसः शृङ्गारः, शैली वैदर्भी, बृहत्वय्यां, प्रमुखं स्थानं।
अनुच्छेद: - इदम् महाकविना श्रीहर्षेण रचितम् एकं महाकाव्यम् अस्ति। अस्मिन् महाकाव्ये निषधदेशस्य राज्ञः नलस्य, तस्य पत्न्याः दमयन्त्यश्च कथा अस्ति। निषधदेशस्य अयं नैषधः, तस्य चरितम् नैषधीयचरितम् अथवा नैषधचरितम्। अस्य महाकाव्यस्य कथानकं द्वाविंशति सर्गेषु विभक्तमस्ति।
काव्यारंभे परम्परानुसारेण वस्तुनिर्देशात्मकं मंगलाचरणं वर्तते। कथावस्तु पौराणिकी अतिप्रसिद्धा च अस्ति। नायकः ऐतिहासिक नृपः नलः अस्ति। सः धीरोदात्तगुणैः युक्तः वर्तते। नायिका च दमयन्ती वर्तते। महाकाव्यस्य मुख्यरसः शृङ्गारः वर्तते। गौणरूपेण अन्ये अपि रसाः वर्तन्ते। अस्य महाकाव्यस्य शैली वैदर्भी अस्ति। संस्कृते बृहत्वय्यां नैषधीयचरितस्य प्रमुखं स्थानं वर्तते।
8. महाकविः अश्वघोषः
संकेत: - अश्वघोषः, महाकाव्यद्वयम्, सौन्दरनन्दं, बुद्धचरितं, रचितवान्, पुष्पिकायां, परिचयः प्राप्यते, साकेत निवासी, मातुः नाम सुवर्णाक्षी, भदन्तः, तार्किकः, ब्राह्मणकुले, रामायणस्य, पुराणानां, ज्ञाता, बौद्धमते: दीक्षितः, सम्राट कनिष्कस्य समकालीनः, कालः, प्रथमशताब्दी स्वीक्रियते।
अनुच्छेदः - अश्वघोषः महाकाव्यद्वयं-सौन्दरनन्दं बुद्धचरितम् च रचितवान्। सौन्दरनन्दस्य पुष्पिकायाम् अश्वघोषस्य परिचयः प्राप्यते। तदनुसारेण अश्वघोषः साकेत निवासी आसीत्, तस्य मातुः नाम सुवर्णाक्षी आसीत्। तस्य अपरनाम 'भदन्त' आसीत्। सः तार्किकः आसीत्। सः ब्राह्मणकुले उत्पन्नः आसीत्। वेदानां, रामायणस्य, महाभारतस्य, पुराणानां च ज्ञाता आसीत्। सः बौद्धमते दीक्षितः आसीत्। चीनदेशस्य परम्परानुसारेण अश्वघोषः सम्राट कनिष्कस्य समकालीनः आसीत्। अतएव तस्य कालः ख्रिस्तस्य प्रथम शताब्दी स्वीक्रियते।
9. बुद्धचरितं महाकाव्यम्
संकेत: - बुद्धचरितम्, अश्वघोषेन विरचितम्, महाकाव्यम्, अपूर्णरूपेण, उपलभ्यते, अनुदितरूपेण, 28 सर्गाः उपलभ्यन्ते, प्रारम्भः, बुद्धस्य गर्भाधानात्, अवसानं, अस्थिविभाजनात्, कलहेन, मुख्यरसः शान्तः, गौतमबुद्धस्य जीवनचरितस्य, उपदेशानां, ऐतिहासिकम्, वर्णनकौशलेन, मौलिकम् इव प्रतीयते।
अनुच्छेदः - 'बुद्धचरितम्' महाकवि अश्वघोषेन विरचितं एकं महाकाव्यं अस्ति। इदं संस्कृते अपूर्णरूपेण एव उपलभ्यते। परन्तु चीनदेशस्य भाषायां तिब्बतदेशस्य भाषायां च अनूदितरूपेण 28 सर्गाः उपलभ्यन्ते। कथानकस्य प्रारंभः बुद्धस्य गर्भाधानात् भवति, अवसानं च बुद्धस्य अस्थिविभाजनात् उत्पन्नकलहेन जायते। बुद्धचरितस्य मुख्यरसः शान्तः अस्ति। बुद्धचरिते मुख्यरूपेण गौतमबुद्धस्य जीवनचरितस्य तस्य उपदेशानां चित्रणं अस्ति। यद्यपि अस्य कथानकं मूलरूपेण ऐतिहासिकम् अस्ति तथापि समुचितवर्णनकौशलेन भावप्रवणतया च मौलिकम् इव प्रतीयते।
10. महाकविः भारविः
संकेत: - भारविः, कवि:, किरातार्जुनीयं, महाकाव्यम्, मूलनाम 'दामोदरः', कौशिकगौत्रीयः, पूर्वजाः, आनन्दपुरनगरे, स्थितिकालः, षष्ठशताब्द्या उत्तरार्द्धम्, अर्थगौरवाय, प्रसिद्धः, अनुशीलनेन ज्ञायते, वेदाङ्गेषु, राजनीतिशास्त्रे, काव्यशास्त्रे, व्याकरणशास्त्रे, पारङ्गतः आसीत्।
अनुच्छेदः - संस्कृतवाङ्मये महाकविः भारवि एकः प्रसिद्धः कविः अस्ति। 'किरातार्जुनीयम्' भारविणा विरचितं एकं महाकाव्यम् अस्ति। भारवे: मूलनाम 'दामोदरः' आसीत्। भारविः तस्य उपाधिः आसीत्। एषः कौशिकगौत्रीयः आसीत्। अस्य पूर्वजा: गुर्जरप्रदेशस्य आनन्दपुरनगरे वसन्ति स्म। विविधप्रमाणैः विद्वद्भिः भारवेः स्थितिकाल: ख्रिस्तस्य षष्ठ शताब्द्या उत्तरार्द्धम् स्वीकृतम्। संस्कृतसाहित्ये सः 'अर्थगौरवाय' प्रसिद्धः अस्ति। किरातार्जुनीयस्य अनुशीलनेन ज्ञायते यत् भारविः वेदाङ्गेषु, राजनीतिशास्त्रे, काव्यशास्त्रे, व्याकरणशास्त्रे पिङ्गलशास्त्रे च पारङ्गतः आसीत्।
11. नीतिशतकस्य परिचयः
संकेत: - नीतिशतकम्, भर्तृहरिणा विरचितम्, कथांशो नास्ति, मुक्तकपद्यानां संग्रहः, लोकव्यवहारस्य उपदेशः, मूर्खनिन्दाः, विद्याप्रशंसा, अन्याः विषयाः लोकोक्तिरूपेण, प्रचलितानि, सुभाषितानि, प्रतिभायाः, दार्शनिकतायाः, अनुभवस्य, काव्यकौशलस्य, परिचायकानि।
अनुच्छेद: - 'नीतिशतकम्' महाकविना भर्तृहरिणा विरचितम् एकं शतककाव्यम् अस्ति। काव्येऽस्मिन् कोऽपि कथांशो नास्ति अपितु एतत् काव्यं मुक्तकपद्यानां संग्रहः अस्ति। अस्मिन् काव्ये लोकव्यवहारस्य उपदेशः वर्तते। अस्मिन् मूर्खनिन्दा, विद्याप्रशंसा, सज्जन-प्रशंसा, धनस्य महत्ता, परोपकार-प्रशंसा, सत्संगते: महत्वम्, दैव-प्रशंसा, कर्म-प्रशंसा च एते विषयाः वर्णिताः सन्ति। नीतिशतकस्य पद्यानि लोकोक्ति रूपेण प्रचलितानि सन्ति। तस्य सुभाषितानि कवेः प्रतिभायाः दार्शनिकतायाः अनुभवस्य, काव्यकौशलस्य च परिचायकानि सन्ति।
12. हितोपदेशस्य परिचयः
संकेत: - हितोपदेशः, रचयिता, नारायणपण्डितः, राज्ञः धवलचन्द्रस्य, कथाः संकलिताः, मूलाधारः पञ्चतन्त्रम्, अर्थः, उपदेशानां संग्रहो, पशु-पक्षिणां कथामाध्यमेन, भाषा सहज, ग्राह्या, विभाजनं, चतुर्यु तन्त्रेषु, मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिः, पठनेन, सौविध्यं, प्रचारः प्रसारश्च, अधिकः।
अनुच्छेद: - 'हितोपदेशः' नीतिकथाप्रधानं काव्यमस्ति। अस्य रचयिता नारायणपण्डितः आसीत्। बंगालदेशस्य राज्ञः धवलचद्रस्य आज्ञानुसारेण नारायण पण्डितेन एताः कथाः संकलिताः। हितोपदेशस्य कथानां मूलाधारः पञ्चतन्त्रम् एव अस्ति। 'हितोपदेशः' इति शब्दस्य अर्थः अस्ति-हितस्य उपदेशः इति हितोपदेशः। अस्मिन् ग्रन्थे हितकारी उपदेशानां संग्रहो वर्तते। पशु-पक्षिणां कथामाध्यमेन अत्र हितस्य उपदेश: शिक्षा वा प्रदत्ता। पञ्चतन्त्रवत् अस्य ग्रन्थस्य भाषा अपि सरला, सरसा, सूक्तियुक्ता च अस्ति। अस्य शैली अपि अल्पसमासयुक्ता समासरहिता वा प्रसादगुणोपेता वैदर्भी शैली अस्ति।
पञ्चतन्त्रापेक्षया हितोपदेशस्य भाषा सहज ग्राह्या वर्तते। स्वानुभूति द्वारा सरलशब्दावल्याम् उपदेशस्य प्रणाली विशिष्टा अस्ति। सूक्तिभिः अपि उपदेशः प्रदत्तः 'कालो हि व्यसन प्रसारितकरो गृह्णानि दूरादपि।' हितोपदेशस्य विभाजनं चतुर्यु तन्त्रेषु कृतमस्तिमित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिश्च। हितोपदेश-पठनेन संस्कृतं शिक्षयितुं सौविध्यं भवति। अतएव अस्य प्रचारः प्रसारश्च अधिकः अस्ति।
13. पञ्चतन्त्रस्य परिचयः
संकेत: - पञ्चतन्त्रम्, प्रथमः ग्रन्थः, रचनाकारः, विष्णुशर्मा, राज्ञः अमरशक्तेः, पुत्राणां कृते, मूर्खाः आसन्, श्रवणेन, विद्वान्सः अभवन्, रचना, बालकानां शिक्षायै, संस्काराणि, पञ्चभागाः, 'तन्त्र' शब्दः, वाचकः, उपकथाः, 1103 पद्यानि, 75 उपकथाश्च।
अनुच्छेदः - 'पञ्चतन्त्रम्' नीतिकथा साहित्यस्य प्रथमः ग्रन्थः वर्तते। अस्य रचनाकारः विष्णु शर्मा आसीत्। अस्य ग्रन्थस्य रचना राज्ञः अमरशक्तेः पुत्राणां कृते कृता। अमरशक्तेः त्रयः पुत्राः आसन् परन्तु सर्वेऽपि मूर्खा : आसन्। पञ्चतन्त्रस्य कथानां श्रवणेन ते मूर्खपुत्राः विद्वान्सः अभवन्। एवं अस्य ग्रन्थस्य रचना बालकानां शिक्षायै कृता। वर्तमानसमये पञ्चतन्त्रं मूलरूपे न प्राप्यते। अस्य परिवर्तनानि संस्काराणि उपलभ्यन्ते।
वर्तमानसमये पञ्चतन्त्रस्य पञ्चभागा: उपलभ्यन्ते मित्रभेदः, मित्रलाभः, सन्धि-विग्रहः, लब्धप्रणाशः अपरीक्षितकारकं च। अत्र 'तन्त्र' शब्दः भागस्य वाचकः वर्तते पञ्चतन्त्रम् अर्थात् यस्मिन् काव्ये पञ्चतन्त्राणि (भागाः) सन्ति तत् काव्यम्। पञ्चतन्त्रे पञ्चमुख्य कथाः सन्ति किन्तु एकैकस्यां कथायाम् अपि अनेकाः उपकथाः सन्ति। सम्पूर्णपञ्चतन्त्रे गद्यभागेन सह 1103 पद्यानि सन्ति 75 उपकथाश्च सन्ति।
14. मेघदूतम्
संकेत: - मेघदूतम्, कालिदासस्य, अमरकृतिः, खण्डकाव्यं, गीतिकाव्यपरम्परायाम्, उत्कृष्टं स्थानम्, काव्यसौन्दर्य दृष्ट्वा, 'मेघे माघे गतं वयः', 121 पद्येषु, मनोव्यथायाः, भागद्वयम्, पूर्वमेघः, उत्तरमेघः, अलकापुर्याः स्वामी कुबेरः, यक्षः शापवशात्, मेघं दृष्ट्वा, स्वप्रियासमीपे संदेशं प्रेषयितुम्, मार्गस्य वर्णनं, मनोरमं चित्रणम्।
अनुच्छेदः - 'मेघदूतम्' महाकविकालिदासस्य एका अमरकृतिः वर्तते। इदं एकं खण्डकाव्यं वर्तते। गीतिकाव्यपरम्परायामपि अस्य उत्कृष्टं स्थानं विद्यते। मेघदूतस्य काव्यसौन्दर्य दृष्ट्वा एव विद्वद्भिः कथितम् अस्तिः 'मेघे माघे गतं वयः।'
मेघदूते कालिदासेन 121 पद्येषु स्वप्रियावियुक्तस्य पक्षस्य मनोव्यथायाः चित्रणं कृतम्। अस्य काव्यस्य भागद्वयम् वर्तते-पूर्वमेघः, उत्तरमेघश्च। अलकापुर्याः स्वामी कुबेरः स्वकर्तव्यं प्रति प्रमादिनं यक्षं शयत्ति। सः यक्षः शापवशात् एकवर्षपर्यन्तं स्वगृहात् दूरे रामगिरेः आश्रमेषु निवसति। यथा कथञ्चित् अष्टौ मासाः व्यतीताः, तदनन्तरं आषाढमासः आगच्छति। आषाढमासे नभसि मेधं दृष्ट्वा यक्षः अतीव दुःखितः भवति।
तस्य विरहवेदना तीव्रा भवति। सः मेघमाध्यमेन अलकापुर्यां स्वप्रियासमीपे संदेशं प्रेषयितुं वाञ्छति। मेघस्य पूजां कृत्वा सः यक्षः स्ववृत्तान्तं कथयति। सः रामगिरितः अलकापुरी पर्यन्तं मार्गस्य वर्णनं करोति। संक्षेपेण, पूर्वमेघः बाह्यप्रकृते: मनोरमं चित्रमस्ति तर्हि उत्तरमेघः अन्तःप्रकृतेः अनुभवाश्रित: अभिरामवर्णनं वर्तते। इदं कालिदासस्य नरप्रकृतेः बाह्यप्रकृतेश्च सूक्ष्म निरीक्षणस्य भव्यं आगारमस्ति।
15. महाकविः माघः
संकेत: - माघस्य स्थानं, शिशुपालवधम्, रचना, दत्तकः, महावैयाकरणः भिन्नमालनगरे, जालौरजनपदे राजस्थाने, श्रीमाली ब्राह्मणः, स्थितिकालः, सप्तमशताब्धाः उत्तरार्द्धम्, अध्ययनेन ज्ञायते, विविधशास्त्रेषु निपुणः, व्यक्तित्वे, कवित्वस्य, पाण्डित्यस्य, दुर्लभः संयोगः।
अनुच्छेदः - संस्कृतवाङ्मये महाकविमाघस्य महत्त्वपूर्ण स्थानं वर्तते। 'शिशुपालवधम्' महाकाव्यम् तस्य एकमात्र रचना अस्ति। अस्य महाकाव्यस्य अन्ते कविः स्वयमेव स्ववंश वर्णनम् लिखितवान्। अनेन वंशवर्णेन ज्ञायते यत् सुप्रभदेव वर्मलात नाम्नः राज्ञः सर्वाधिकारी आसीत्। सुप्रभदेवस्य पुत्रः 'दत्तकः' आसीत्। दत्तकस्य पुत्रः माघः आसीत्। माघः महावैयाकरणः आसीत्। सः भिन्नमालनगरे निवसति स्म। वर्तमानकाले भिन्नमाल नगरस्य एव नाम 'भीनमाल' इति अस्ति। भीनमाल नगरं जालौर जनपदे राजस्थान प्रदेशे अस्ति। माघः श्रीमाली ब्राह्मणः आसीत्। उपलब्ध प्रमाणैः ज्ञायत् यत् माघस्य स्थिति कालः ख्रिस्तस्य सप्तमशताब्धाः उत्तरार्द्धम् आसीत्। शिशुपालवधस्य अध्ययनेन ज्ञायते यत् माघः व्याकरण दर्शन-काव्यशास्त्र ज्योतिष-धर्मशास्त्र-आयुर्वेद-राजनीति-कामशास्त्रादिशास्त्रेषु निपुणः आसीत्। माघस्य व्यक्तित्वे कवित्वस्य पाण्डित्यस्य च दुर्लभः संयोगः अस्ति।
16. बुद्धचरितस्य वैशिष्टयम्
संकेत: - बुद्धचरितम्, अश्वघोषस्य, कीर्तिस्तम्भः, भाषा, सरला, प्रसादगुणोपेता, वैदर्भीरीतेः, कविना, समासरहितभाषायाः, प्रयोगः कृतः, उपमा.....अनुप्रासादीनाम्, अलंकाराणाम्, मुख्यरसः वीरः, गौणरूपेण,......श्रृंगारादयः सन्ति, दार्शनिकविवेचनानि, दृष्टव्यानि, व्याकरण. ..विषयकं ज्ञानं, जीवनस्य, उपदेशं ददाति।
अनुच्छेदः - 'बुद्धचरितम्' अश्वघोषस्य कीर्तिस्तम्भः वर्तते। काव्यस्य भाषा सरला, प्रसादगुणोपेता माधुर्यगुणोपेता च अस्ति। अश्वघोषः अपि कालिदासवत् वैदर्भी रीते: कविरस्ति। काव्येऽस्मिन कविना समासरहितभाषायाः अथवा अल्पसमासयुक्तभाषायाः प्रयोगः कृतः। अस्मिन् काव्ये उपमा-अर्थान्तरन्यास-उत्प्रेक्षा-यमक अनुप्रासादीनाम् अलंकाराणामपि प्रयोगः कविना कृताः। काव्यस्य मुख्यरस: वीरः अस्ति। गौणरूपेण वीर-करुण-शृंगारादयः अपि सन्ति। महाकाव्येऽस्मिन् दार्शनिकविवेचनानि दृष्टव्यानि सन्ति। अस्मिन् महाकाव्ये अश्वघोषस्य व्याकरण-दर्शन-पुराण-राजनीति-नीतिशास्त्र-कामशास्त्र विषयकं ज्ञानं प्रकटी भवति। अर्थान्तरन्यासमाध्यमेन कविः जीवनस्य उपदेशं ददाति।
17. रावणवधं महाकाव्यम्
संकेतः - रावणवधं, महाकाव्यं, भट्टिद्वारा विरचितम्, व्याकरणशास्त्रस्य पण्डितः, कठिनतां दूरीकर्तुम्, बोधयितुं, रचनां कृतवान्, भट्टिकाव्यम्, प्रचलितम्, 22 सर्गाः, 1624 पद्यानि, रामजन्मतः रामराज्याभिषेकपर्यन्तं, कथा, मूललक्ष्यं व्याकरणशिक्षणम्, कवित्वस्य, भावपक्षस्य, न्यूनता नास्ति, सरसता, सहृदयता, अलंकारसौन्दर्यम्।
अनुच्छेदः - रावणवधं महाकाव्यं वर्तते। इदं महाकविभट्टि द्वारा विरचितम् अस्ति। भट्टिकवि: व्याकरणशास्त्रस्य पण्डितः आसीत्। व्याकरणशास्त्रस्य कठिनतां दूरीकर्तुम् एषः काव्यमाध्यमेन व्याकरणं बोधयितुं रावणवधस्य रचनां कृतवान्। विद्वत्समाजे अस्य काव्यस्य नाम 'भट्टिकाव्यम्'-एव प्रचलितम् अस्ति। अस्मिन् महाकाव्ये 22 सर्गाः, 1624 पद्यानि च सन्ति। अस्मिन् काव्ये रामजन्मतः रामराज्याभिषेकपर्यन्तं रामायणस्य कथा अस्ति।
यद्यपि भटिकवे: मललक्ष्यं व्याकरणशिक्षणमेव वर्तते तथापि अस्मिन् महाकाव्ये कवित्वस्य भावपक्षस्य च न्यूनता नास्ति। व्याकरणस्य क्रमिक शिक्षा महाकाव्येऽस्मिन् वर्तते किन्तु सरसता, सहृदयता अपि अस्ति। अस्मिन् महाकाव्ये कुत्रचित् व्याकरणस्य जटिलता वर्तते अन्यत्र अलंकारसौन्दर्यम् अपि वर्तते।
18. नीतिशतकस्य वैशिष्टयम्
संकेतः - नीतिशतकं, महत्त्वपूर्ण, गीतिकाव्यम्, शैली, प्रसादगुणयुक्ता, वैदर्भीगुणयुक्ता, भाषा, लघुसमासयुक्ता, समासरहिता, सरला, सरसा, मधुरा, माधुर्यम्, पद्यानि, लोकोक्तिरूपेण, सूक्तरत्नानि, विभूषणं मौनम्, नास्त्यौषधम्, विद्याविहीनः, शीलं परं, सेवाधर्मः।
अनुच्छेदः - नीतिशतकम् संस्कृतवाङ्मये महत्त्वपूर्णं शतककाव्यम् गीतिकाव्यं च अस्ति। अस्य काव्यस्य शैली कालिदास इव प्रसादगुणयुक्ता वैदर्भीरीतियुक्ता च अस्ति। भाषा लघुसमासयुक्ता समासरहिता चास्ति। काव्यस्य भाषा अतीव सरला, सरसा, मधुरा रमणीया च अस्ति। श्रवणमात्रेण एव पदस्य भावानाम् अधिगमनं भवति। पद्येषु माधुर्य प्रसादगुणौ यत्र तत्र विद्यते। अस्मिन् काव्ये छन्दालंकारयोः वैविध्यं वर्तते। अस्य पद्यानि लोकोक्तिरूपेण प्रचलितानि वर्तन्ते। अत्र अनेकानि सूक्तिरत्नानि वर्तन्ते। उदाहरणार्थं यथा -
(i) विभूषणं मौनमपण्डितानाम्।
(ii) मूर्खस्य नास्त्यौषधम्।
(iii) विद्याविहीनः पशुः।
(iv) शीलं परं भूषणम्।
(v) सेवाधर्मः परमगहनो।
19. पञ्चतन्त्रस्यवैशिष्टयम्
संकेतः - पञ्चतन्त्रम्, बालोपयोगि, शैली, सरला सरसा च, प्रसादगुणः माधुर्यगुणश्च, क्लिष्टतान, बालकानां कृते, शैल्यां हास्यं विनोदश्च, सूक्तयः, प्रवाहः, यथार्थचित्रणं, वैशिष्ट्यम्, लघुकथा, नैतिकता, पात्राणि पशु-पक्षिणः, संक्षिप्तता, रोचकता, सरलता, सरसता, शिक्षायै, उपयुक्ताः सन्ति।।
अनुच्छेदः - 'पञ्चतन्त्रम्' बालोपयोगि काव्यम् अस्ति। अतएव अस्य शैली सरला सरसा च अस्ति। अस्मिन् काव्ये प्रसादगुणः माधुर्यगुणश्च स्तः। अत्र पाण्डित्यप्रदर्शनं, क्लिष्टता दुरूह शब्दावली, समासबद्धता च न सन्ति। यतो हि अस्य रचना बालकानां कृते कृता। शैल्यां हास्यं विनोदश्च स्तः।
लघु-लघु वाक्यानि, सूक्तयः, कथायां प्रवाहः, अनुभूतिनां यथार्थ चित्रणं च अस्य ग्रन्थस्य वैशिष्ट्यम्। लघुकथा माध्यमेन गूढ़ नैतिक तथ्यानां शिक्षणं अत्र प्रदत्तम्। पात्राणि अपि पशु-पक्षिणः सन्ति। कथा गधभागे वर्तते, उपदेशाश्च पद्येषु सन्ति। पद्येषु सामान्यतया अनुष्टुप्-उपजाति-आर्यादि छन्दसां प्रयोगः कृतः। पञ्चतन्त्रस्य कथासु संक्षिप्तता, रोचकता, सरलता सरसता च अस्ति। अतएव इमाः कथा: बालकानां शिक्षायै उपयुक्ताः सन्ति।
20. शिशुपालवधं महाकाव्यम्
संकेत: - शिशुपालवधं, बृहत्वय्यां, श्रीकृष्णेन कृतस्य, शिशुपालस्य, वधस्य, विंशतिसर्गाः, कथानकं, महाभारतात्, स्वीकृत्य, स्वप्रतिभया, परिवर्तनं परिवर्धनं च, माधः, प्रतिपादितवान्, नायकः श्रीकृष्णः, प्रतिनायकः, काव्यसौन्दर्यविषये, 'माघे सन्ति त्रयो गुणाः', उपमा, अर्थगांभीर्यम्, पदलालित्यम्, मुख्यरस: वीरः, अक्षयशब्दकोशः।
अनुच्छेदः - 'शिशुपालवधम्' बृहत्वय्यां द्वितीयं काव्यं अस्ति। अस्मिन् महाकाव्ये श्रीकृष्णेन कृतस्य शिशुपाल नाम्नः दुष्ट नृपस्य वधस्य कथा अस्ति। अस्मिन् महाकाव्ये विंशतिसर्गाः वर्तन्ते। महाकाव्यस्य कथानकं महाभारतात् स्वीकृतम् अस्ति। महाभारतात् लघुकथानकं स्वीकृत्य अपि तस्मिन् स्वप्रतिभया समुचितं परिवर्तनं परिवर्धनं च कृत्वा माघः मौलिकताम् प्रतिपादितवान्। अस्य महाकाव्यस्य नायकः श्रीकृष्णः अस्ति शिशुपालः प्रतिनायकः।
शिशुपालवधस्य काव्यसौन्दर्यविषये विदुषां इयं उक्तिः उल्लेखनीया वर्तते-'माघे सन्ति त्रयोः गुणाः" अर्थात् माघस्य काव्ये उपमायाः वैचित्र्यं, अर्थस्य गांभीर्यम् पदलालित्यं च एते त्रयः गुणाः सन्ति। माघः छन्दप्रयोगेऽपि पटुः आसीत्। शिशुपालवधे प्रायशः सर्वेषां छन्दसा प्रयोगः कृतः। शिशुपालवधस्य मुख्यरसः वीरः अस्ति शृङ्गारश्च गौणः। अस्मिन् महाकाव्ये प्रसाद-माधुर्य ओजोगुणानां सामञ्जस्यम् अस्ति। शिशुपालवधस्य नवसर्ग पर्यन्तमेव माघेन अक्षय शब्दकोशस्य प्रदर्शनम् कृतम्, अतएव विद्वद्भिः निगदितम्
"नवसर्गगते माघे नवशब्दो न विद्यते।"
21. महाकविः श्रीहर्षः
संकेत: - संस्कृतवाङ्मये, श्रीहर्षः, प्रमुखं स्थानं, नैषधीयचरितं महाकाव्यम्, खण्डन-खण्डखाद्यम्, सर्गान्तपद्येषु, स्वकीयं परिचयं, पितुः नाम श्रीहरिः, मातुः नाम मामल्लदेवी, कन्नोजनगरस्य राजा, आश्रयदाता, कविः, पण्डितः, व्याकरणशास्त्रस्य पण्डितः, "नैषधं विद्वदौषधम्", कालिदासात् प्रभावितः, दमयन्ती स्वयंवरवर्णनम्।
अनुच्छेदः - संस्कृतवाङ्मये महाकवि श्रीहर्षः प्रमुखं स्थानं भजते। नैषधीयचरितम्' तेन विरचितम् एकम् महाकाव्यम् अस्ति। 'खण्डन खण्डखाद्यम्' तस्य दार्शनिक रचना अस्ति। नैषधीयचरितस्य सर्गान्तपद्येषु श्रीहर्षः स्वकीय परिचयं प्रस्तौति। तेन परिचयेन ज्ञायते यत् श्री हर्षस्य पितुः नाम श्री हरिः आसीत्, मातुः नाम च मामल्लदेवी आसीत्। कन्नोज नगरस्य राजा तस्य आश्रयदाता आसीत्। श्रीहर्षः कविः अपि आसीत् पण्डित अपि आसीत्, अतएव ताम्बूलद्वयं आसनद्वयं च कान्यकुब्जेश्वरात् लभते स्म। श्रीहर्षः व्याकरणशास्त्रस्य पण्डितः आसीत्। तस्य व्याकरणज्ञानं दृष्ट्वा एव विद्वद्भिः कथितम्-"नैषधं विद्वदौषधम्।" श्रीहर्षः कालिदासात् प्रभावितः आसीत्। दमयन्ती स्वयंवरवर्णनम् रघुवंशस्य इन्दुमतीस्वयंवर वर्णनात् प्रभावितम् अस्ति।
22. नीतिकथा-साहित्यम्
संकेत: - नीतिकथासाहित्यम्, वैदिककाले, आविर्भावः, रामायणे अपि, उल्लेखः, महाभारते, उपलभ्यन्ते, बौद्धजातककथासु, कथाः, उद्देश्य, धर्म-अर्थ-कामानाम् उपदेशः, सदाचार; राजनीतिः, व्यवहारज्ञानं, पात्राणि पशुपक्षिणः, भाषा गद्यमयी, पद्येषु।
अनुच्छेदः - नीतिकथासाहित्यं अतिप्राचीनं वर्तते। वैदिककाले एव नीतिकथानां आविर्भावः अभवत्। रामायणे अपि नीतिकथानां उल्लेखः प्राप्यते। महाभारते अनेकाः नीतिकथाः उपलभ्यन्ते। धार्मिक मार्जारस्य, चतुर शृगालस्य श्वानस्य च कथा: महाभारते सन्ति। बौद्धजातककथासु बोधिसत्वस्य वानर-मृगादिजन्मनां कथाः सन्ति। नीतिकथानाम् उद्देश्यं कथामाध्यमेन धर्म-अर्थ-कामानाम् उपदेशः भवति। एतासां कथानां विषयः सदाचारः, राजनीतिः व्यावहारिक ज्ञानं च भवति। एतासां कथानां पात्राणि पशुपक्षिणः अपि भवन्ति। एकस्यां प्रधानकथायां अनेकाः गौणकथाः सम्मिलिताः भवन्ति। कथायाः भाषा गद्यमयी भवति किन्तु उपदेशः पद्येषु भवति। नीतिकथा साहित्ये पतन्त्र हितोपदेशयोः महत्त्वपूर्णे स्थाने स्तः।
23. मम ग्रामः
संकेत: - मम ग्रामः, ग्रामस्य नाम, समीपे, कृषकाः, उत्पादयन्ति, ग्रामस्य जलवायुः, वृक्षाः उपवनानि च, जीवनमतिसरलम्, एका पाठशाला, आदर्शग्रामः।
अनुच्छेदः - मम ग्रामः जयपुरस्य समीपं वर्तते। मम ग्रामस्य नाम 'महापुरा' वर्तते। अस्य ग्रामस्य समीपे क्षेत्राणि सन्ति। क्षेत्रेषु कृषकाः अन्नम् उत्पादयन्ति। मम ग्रामस्य जलवायुः शुद्धं स्वास्थ्यवर्द्धकं चास्ति। ग्रामं परितः वृक्षाः उपवनानि च सन्ति। अस्य ग्रामस्य जनानां जीवनमतिसरलम् अस्ति। ते परिश्रमशीलाः सन्ति। ग्रामे एका भव्या पाठशाला अस्ति। अत्र ग्रामस्य बालकाः बालिकाश्च सहैव पठन्ति। वस्तुतः अयम् आदर्शग्रामः अस्ति।
24. सत्सङ्गतिः।
संकेतः - सतां सङ्गतिः, मानव-जीवने, फलम्, महत्त्वं, मूर्खः, प्रवीणताम्, विचारधारा, यशः, गुणयुक्तः, दोषनिवारणः, कुसङ्गतिः, विनाशः, सत्सङ्गतिः, सन्तः, महिमानम्।
अनुच्छेदः - सतां सज्जनानां वा सङ्गतिः सत्सङ्गतिः कथ्यते। सत्सङ्गते मानवजीवने अतिमहत्त्वं वर्तते। सत्सङ्गत्या मानवः सर्वत्र यशः सुखं च प्राप्नोति। तस्य बुद्धिः निपुणाः भवति। मनः पवित्रं जायते। मानवः यादृशैः जनैः सङ्गतिं करोति सः तादृश एव भवति। सज्जनैः सह सङ्गत्या सज्जनः तथा मूखैः सह सङ्गत्या मूर्खः जायते। सज्जनानां सङ्गत्या मानवः सर्वत्र पूज्यः भवति तथा आदरं विद्याकीर्तिश्च लभते। कुसंगत्या मानवस्य पतनं विनाशं च भवति। सत्सङ्गत्या मानवः श्रेष्ठफलं प्राप्नोति। सः प्रवीणतां याति। तस्य विचारधारा पवित्रा जायते तथा सः गुणयुक्तः भवति। सत्संगत्या मानवस्य दोषनिवारणोऽपि भवति। सन्तः सत्सङ्गते महिमानं वर्णयन्ति। अतः सर्वविधविकासाय सर्वदा सत्सङ्गतिः करणीया।
25. संस्कृतभाषायाः महत्त्वम्।
संकेत: - संस्कृत भाषा, प्राचीनतमा, शुद्धं, संस्कृतम्, संस्कृतिः संस्कृते, वेदाः भारतस्य, जननी, भाषा, सरला, सङ्गणकस्य, विज्ञानम्, ज्ञानम्, वयं, संस्कृत, संस्कृतेन, कुरु।
अनुच्छेदः - संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वर्तते। इयं भाषा सर्वासां भाषाणां जननी वर्तते। संस्कृतभाषायां भारतस्य प्राचीनग्रन्थाः चत्वारो वेदाश्च सन्ति। इयं सरला शुद्धा सुसंस्कृतं च भाषा अस्ति। अस्माकं सर्वमपि ज्ञानं विज्ञानं च संस्कृते एव निहितमस्ति। भारतीयसंस्कृतिः संस्कृतभाषायामेव दृश्यते। सङ्गणकस्य कृते संस्कृतभाषा एवं सर्वोत्तमा वर्तते। वयं संस्कृतेनैव भारतीयसंस्कृते स्वरूपस्य ज्ञान प्राप्तुं शक्नुमः। इयं भाषा अस्माभिः भारतीयैः रक्षणीया पठनीया संवर्द्धनीया च।
26. विनयगुणः
संकेत: - विनयगुणः, प्रधानः, विनयवान्, सर्वेषां, प्रेमास्पदं, विनयरहितः, अनादृतः, विनयी, प्रतिष्ठां, प्राप्नोति, मानवस्य, महद्भूषणम्, विनयवतः कोऽपि शत्रुः न, शान्त्यै, समृद्धये, विनयस्य महती, आवश्यकता।
अनुच्छेदः - सर्वेषु गुणेषु विनयगुणः प्रधानः वर्तते। संसारे विनयवान् जनः सर्वेषां कृते प्रेमास्पदं भवति। सर्वे जनाः तस्य आदरं कुर्वन्ति। विनयरहितः तु सर्वत्र अनादृतः भवति। विनयी एव संसारे प्रतिष्ठा प्राप्नोति। वस्तुतः मानवस्य विनयगुणः एव वास्तविकं महद्भूषणं भवति। विनयवतः कोऽपि शत्रुः न भवति। सर्वे जनाः तेन सह मित्रतायुक्तं व्यवहरन्ति। मानव-जीवने सुख-शान्त्य, समृद्धये च विनयस्य महती आवश्यकता वर्तते।
27. प्रातःकालम्
संकेतः - प्रात:कालम्, रमणीयं, दृश्यम्, वातावरणं, विशुद्धम्, शीतलवायुः, सूर्योदयः, रम्यः, सर्वत्र प्रकाशः, पुष्पाणि विकसन्ति, मधुरं भ्रमरगुञ्जनम्, खगाः गीतं, प्रातः, भ्रमणं, अतीव हितकरं, केचन व्यायाम, क्रीडनं, स्व स्व कार्य कुर्वन्ति।
अनुच्छेदः - प्रात:कालम् अतीव रमणीयं भवति। प्रात:कालस्य दृश्यं मनोहारी स्वास्थ्यवर्धकञ्च भवति। प्रातःकाले वातावरणं नितान्त विशुद्धं शान्तं च भवति। प्रात:काले शीतलवायुः मन्दं मन्दं प्रवहति। प्रातः सूर्योदयः भवति। सः कालः अतीव रम्यः भवति। यदा सूर्योदयः भवति तदा सर्वत्र प्रकाशः जायते। उद्यानेषु विविधानि पुष्पाणि विकसन्ति। तेषु मधुरं भ्रमरगुञ्जनम् अतीव मनोहारि भवति। प्रात:काले खगाः गीतं गायन्ति। प्रातः उद्यानेषु भ्रमणं स्वास्थ्यवर्धकम् अतीव हितकरं च भवति। प्रात:काले केचन जना: व्यायाम, केचन क्रीडनं केचन च स्व स्व कार्यं कुर्वन्ति।
28. राष्ट्रियाः उत्सवा
संकेत: - भारते उत्सवाः द्विविधाः, राष्ट्रियाः, अगस्तमासस्य, देशः स्वतन्त्रः, देशे उत्सवाः जनवरी मासस्य, राष्ट्रिया: उत्सवाः, संस्कृतज्ञाः संस्कृतोत्सवः, अस्माभिः संस्कृतकार्यक्रमेषु, विदुषां, संस्कृतञ्चैव संस्कृतिः।
अनुच्छेदः - भारते उत्सवाः द्विविधाः भवन्ति-राष्ट्रियाः लौकिकाश्च। राष्ट्रियोत्सवेषु स्वतन्त्रता-दिवसः, गणतन्त्रदिवसश्च प्रमुखः वर्तते। 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः संजातः। अस्मिन् दिने प्रतिवर्ष स्वतन्त्रता-दिवसस्य उत्सवः सम्पूर्णभारतदेशे आयोज्यते। एवमेव जनवरी-मासस्य षड्विंशतिः दिनाङ्के गणतन्त्रदिवसस्य उत्सवः भवति। अन्येऽपि अनेके राष्ट्रियाः उत्सवाः सन्ति। रक्षा-बन्धनदिवसे संस्कृतज्ञाः संस्कृतोत्सवस्य आयोजनं कुर्वन्ति। अस्माभिः संस्कृतकार्यक्रमेषु सोत्साहं भागं गृह्यते। अस्मिन् दिवसे संस्कृतस्य विदुषां सम्मानमपि भवति। वस्तुतः संस्कृतञ्चैव संस्कृतिः वर्तते।
29. पर्यावरण-संरक्षणम्
संकेत: - यत् परितः, पर्यावरणम्, साकं मानवजीवनस्य, प्रकृत्याः, वर्तमानकाले सुखस्वरूपा, सुखशान्तियुता अस्ति, वृक्षलतागुल्मवायुजलजीवाः, दुर्लभाः विलुप्यन्ते, अस्माभिः, विषपानं, ऊष्मा, आप्नोति, दु:खमयं सञ्जातम्, पर्यावरणस्य, भूयः भूयः, पर्यावरणदिवसः, प्रवर्धमाना मानवसभ्यतायाः, वर्तते।
अनुच्छेदः - अस्मान् यत् परितः आवृणोति तत् पर्यावरणं कथ्यते। पर्यावरणेन साकं मानवजीवनस्य घनिष्ठ सम्बन्धं वर्तते। प्रकृत्याः शुद्धता एव वर्तमानकाले सुखस्वरूपा भवितुं शक्नोति। अद्य प्रदूषणेन प्रकृतिः न कुत्रापि सुखशान्तियुता अस्ति। वृक्षलतागुल्मवायुजलजीवाः सर्वेऽपि पर्यावरणसर्जकाः सन्ति। वनेषु अनेके जीवाः दुर्लभाः विलुप्यन्ते। वायुप्रदूषणेन अस्माभिः प्रतिक्षणं विषपानं क्रियते। वाहनैः ऊष्मा वृद्धिम् आप्नोति। सकलं मानवजीवनं दुःखमयं सञ्जातम्। पर्यावरणस्य संरक्षणार्थं भूयः भूयः पर्यावरणदिवस: आयोज्यते। प्रवर्धमानायाः मानवसभ्यतायाः संरक्षणार्थं पर्यावरणसंरक्षणम् अस्माकं कर्त्तव्यं वर्तते।
30. सत्यमेव जयते।
संकेत: - जगति सत्यस्य आवश्यकता, सत्येनैव, सत्यभाषणेन, अभ्युदयः सत्यमाश्रयति, सफलं भवति, समाजस्य देशस्य, सत्यात् परोधर्मः, पातकं परम्, सत्यपालनार्थमेव, भारतस्य, सत्यमेव जयते।
अनुच्छेदः - जगति सत्यस्य अत्यधिकं आवश्यकता भवति। सत्येनैव संसारस्य स्थितिः वर्तते। सत्यभाषणेन मनः पवित्रं भवति। जनानां सकलः अभ्युदयः सत्यमाश्रयति। सत्येन एव मानवजीवनं सफलं भवति। सत्यमेव समाजस्य देशस्य वा आधारः अस्ति। न कोऽपि सत्यात् परोधर्मः वर्तते। असत्यं पातकं परं मन्यते। सत्यपालनार्थमेव राजा दशरथः स्वप्राणान् अत्यजत्। भारतस्य विश्वे या प्रतिष्ठा वर्तते सा सत्याधारेणैवास्ति। वस्तुत: सत्यमेव जयते नानृतम्।
31. संगणकम्
संकेत: - शिक्षाक्षेत्रे संगणकानां, शिक्षणे उपयोगः, परीक्षा-कार्येषु, पुस्तकादिप्रकाशनेऽपि, कम्प्यूटर-माध्यमेन, आदर्श चित्रं सारल्येन, व्यापारक्षेत्रे, वित्तीय संस्थानां कृते, यत् किंचिद् ज्ञानम्, माध्यमेन विधीयते।
अनुच्छेदः - आधुनिकयुगे न केवलं शिक्षाक्षेत्रे अपितु सर्वेषु क्षेत्रेषु संगणकानां बहुमहत्त्वं वर्तते। शिक्षणे, परीक्षा कार्येषु, पुस्तकादिप्रकाशनेऽपि च संगणकयन्त्रस्य अतीव उपयोगः भवति। आंग्लभाषायाम् अस्य कृते कम्प्यूटर इति शब्द: अस्ति। कम्प्यूटरमाध्यमेन आदर्शचित्रं सारल्येन निर्मातुं शक्यते। व्यापारक्षेत्रे वित्तीय संस्थानां कृते च संगणकयन्त्रस्य बहूपयोगः दृश्यते। अधुना वयं यत् किंचिद् ज्ञानं प्राप्नुमः तत् सर्वमेव संगणकमाध्यमेन विधीयते।
32. दूरदर्शनस्य महत्त्वम्
संकेत: - मानवजीवनस्य, विज्ञानस्य, आविष्कारेण, प्रभावितः, युवा, युवतिः, यापयितुं न शक्नोति, ग्रामेष्वपि, साधनं, ज्ञानवर्धकम्, विविधकार्यक्रमाः, लोकसभायाः, राज्यसभायाः, बौद्धिकविकासाय।
अनुच्छेदः - इदानीम् मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते। दूरदर्शनाविष्कारेण तु मानवः अति प्रभावितः। वर्तमानसमये कोऽपि युवा युवतिर्वा दूरदर्शनं विना जीवनं यापयितुं न शक्नोति। न केवलं नगरेषु अपितु ग्रामेष्वपि अस्य प्रभावः परिलक्ष्यते। इदं दूरदर्शनं न केवलं मनोरञ्जनस्य साधनं अपितु ज्ञानवर्द्धकमपि वर्तते। दूरदर्शनमधुना जीवनस्य अभिन्नमंगं वर्तते। दूरदर्शने प्रातःकालादारभ्य मध्यरात्रिर्यावत् विविधकार्यक्रमाः चलन्ति। वर्तमानसमये न केवलं संगीतानि अपितु भजनानि, विविध धारावाहिकाश्च वयं दूरदर्शने पश्यामः। लोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारोऽपि दूरदर्शने वयं पश्यामः। एवं युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते। अस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः।
33. सदाचारः
संकेत: - सताम् आचारः, सज्जनाः, आचरन्ति, सर्वैः, व्यवहार, विनयः, अक्रोधः, क्षमा, सद्गुणाः, सत्तयैव, उन्नतिं, देशस्य, राष्ट्रस्य, जनस्य, महती आवश्यकता, ब्रह्मचारिणो, शरीरं परिपुष्टं बुद्धिः वर्धते।
अनुच्छेदः - सताम् आचारः सदाचारः इति कथ्यते। सज्जनाः यथा आचरन्ति तथैव आचरणं सदाचारो भवति। ते सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। तेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणाः दृश्यन्ते। सदाचारस्य सत्तयैव संसारे जनः उन्नतिं करोति। देशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपुष्टं भवति। सदाचारेण बुद्धिः वर्धते।
34. राणाप्रतापः
संकेत: - मेवाडराज्यं, शूराणां जन्मभूमिः, राजा, सिंहासनम् आरूढवान्, हस्तच्युतानां, प्रतिप्राप्तिः, विचिन्त्य, पुरप्रमुखाणां सभाम्, प्रतिज्ञां, सुवर्णपात्रे, राजप्रासादे, वासं न करिष्यामि, मृदुतल्पे शयनम्, अवदन्, त्यक्ष्यामः, दास्यामिः, सैन्यं।
अनुच्छेदः - मेवाडराज्यं बहूनां शूराणां जन्मभूमिः। तस्य राजा राणाप्रतापः सिंहासनम् आरूढवान्। 'हस्तच्युतानां भागानां प्रतिप्राप्तिः कथम्' इति विचिन्त्य सः पुरप्रमुखाणां सभाम् आयोजितवान्। तत्र सः प्रतिज्ञां कृतवान्–'चित्तौडस्थानं यावत् न प्रतिप्राप्स्यामि तावत् सुवर्णपात्रे भोजनं न करिष्यामि। राजप्रासादे वासं न करिष्यामि। मृदुतल्पे शयनम् अपि न करिष्यामि' इति। तदा पुरप्रमुखाः अवदन् 'वयम् अपि सुखसाधनानि त्यक्ष्यामः। देशाय यथाशक्ति धनं दास्यामिः। अस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः' इति।
35. दीपावली-महोत्सवः
संकेत: - दीपावली, राष्ट्रियोत्सवः, सर्वे जनाः, भेदभावं विस्मृत्य आनन्दमग्नाः, श्रीरामः वनात्, सीतालक्ष्मणाभ्यां सह, स्वागतं व्याहर्तुम् अयोध्यावासिनः, दीपान् प्रज्वालितवन्तः, आरभ्य, कार्त्तिकमासे अमावस्यां, उत्साहेन, गृहाणि परिष्कुर्वन्ति, उपहारान्, अभिनन्दन्ति, मिष्टान्नं, स्फोटनकानि, शुभेच्छाः।
अनुच्छेदः - दीपावली अस्माकं राष्ट्रियोत्सवः वर्तते। अस्मिन् उत्सवे सर्वे जनाः परस्परं भेदभावं विस्मृत्य आनन्दमग्नाः भवन्ति। श्रीरामः वनात् अस्मिन् एव दिने सीतालक्ष्मणाभ्यां सह अयोध्यां प्रत्यावर्तितवान्। तान् स्वागतं व्याहर्तुम् अयोध्यावासिनः नगरे सर्वत्र दीपान् प्रज्वालितवन्तः। तदा आरभ्य अद्यावधिः प्रतिवर्ष कार्तिकमासे अमावस्यायां तिथौ भारते दीपावली-महोत्सवः महता उत्साहेन आयोजितः भवति।
दीपावल्यां जनाः गृहाणि परिष्कुर्वन्ति। अस्मिन्नवसरे ते स्वमित्रेभ्यः बन्धुभ्यश्च उपहारान् यच्छन्ति, परस्परम् अभिनन्दन्ति च बालकेभ्यः मिष्टान्नं यच्छन्ति। पितरः स्वसन्ततिभ्यः स्फोटनकानि ददति। अस्मिन् महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति।
36. एकतायाः महत्त्वम्
संकेत: - संसारे एकतायाः, कलियुगे, संहतिः, सामाजिकं राष्ट्रियं च, निर्माणाय रक्षणाय, परमावश्यकम्, अद्यत्वे, अभावः, सद्य एव परतन्त्रतापाशबद्धं, अनया, सहयोगेन, विच्छिन्नं, गान्धिमहोदयेन, देशभक्तैः, छेदनं विहितम्, राष्ट्र, स्वोन्नति विदधाति।
अनुच्छेदः - संसारे एकतायाः अतीवावश्यकता वर्तते। विशेषतः कलियुगेऽस्मिन् संहतिः कार्यसाधिका। यतो हि वर्तमाने काले यादृशं सामाजिकं राष्ट्रियं च जीवनमस्ति, तस्य निर्माणाय रक्षणाय च संगठनं परमावश्यकम्। अद्यत्वे संसारे यस्मिन् राष्ट्र एकतायाः अभावोऽस्ति, तत् राष्ट्र सद्य एव परतन्त्रतापाशबद्धं भवति। अस्माकं देशस्य पारतन्त्र्यम् अनया एव एकतया सहयोगेन वा विच्छिन्नं जातम्। महात्मना गान्धिमहोदयेन तथैवान्यैश्च देशभक्तैः भारतीयसमाजे सर्वत्र एकत्वभावनोदयेन पराधीनतापाशस्य छेदनं विहितम्। अधुना लोकतन्त्रात्मकस्माकं राष्ट्र संघटनबलेलैव स्वोन्नतिं विदधाति।
37. श्रमस्य महत्त्वम्
संकेतः - मानव-जीवने, सर्वे जनाः, सुखसमृद्धिं प्राप्नोति, वाञ्छति, अभिलषति, समुन्नतिं कांक्षते, श्रममेव, स्वाभिमानं शारीरिक-शक्तिं, दक्षतां आपादयति, साफल्यं मिलति, कर्त्तव्यः, सम्पत्तेरुद्भवो, पापभाक्, प्रज्ञाः तुर्येऽपि वयसि, न त्यजेयुः, वसुन्धरा, च उन्नतये।
अनुच्छेदः - मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रममाश्रित्यैव सुखसमृद्धिं प्राप्नोति। जनः सुखं वाञ्छति, मनोरथं पूरयितुमभिलषति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते। श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति। अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।
रुद्भवो भवति, यतोहि व्यर्थं परिश्रमं कुर्वन् नरः पापभाक भवति। प्रज्ञा : तुर्येऽपि वयसि परमं श्रमं न त्यजेयुः। यस्मिन् देशे जनाः पूर्णश्रमपरायणाः भवन्ति, तत्र वसुन्धराः धनैर्धान्यैः पूर्णा विराजते। अतएव स्वस्य लोकस्य चोन्नतये सदैव श्रमः कर्त्तव्यः।
38. भारतदेशस्य महत्त्वम्
संकेत: - पुण्यः, भौगोलिकदृष्ट्या, सांस्कृतिकदृष्ट्या, महत्त्वपूर्ण स्थानं, भारतीयसंस्कृतिः विश्ववन्द्याः, सर्वग्राह्याः, सम्प्रदायानां, देवानाम्, 'भिन्नत्वे एकत्वम', वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्र, वन्दनीयः, सुखदा, रत्नाकरत्वं, वृणीते।
अनुच्छेदः - पुण्योऽस्माकं देशः भारतवर्षः। न केवलं भौगोलिकदृष्टया अपितु सांस्कृतिकदृष्टया अपि अस्य देशस्य महत्त्वपूर्ण स्थानं वर्तते। विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च। भारतदेशे विभिन्नसम्प्रदायानां विविधभाषाणाम्, अनेकदेवानाम्, भिन्नभिन्नानां दर्शनानां च प्रचारः प्रचलत्येव। तथापि भारतीयानां 'भिन्नत्वे एकत्वमिति' कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।
भारतदेशः विश्वस्य सर्वोत्कृष्टं वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्र वर्तते। अत्र देवस्वरूपः हिमालय: मुकुटमणिरिव शोभते। भारते मधुरजलयुक्ताः गंगायमुनासरयूकृष्णादयः नद्यः वहन्ति। अयं देश: नानातीर्थ ः रमणीयः, मुनिजनदेवैः च वन्दनीयोऽस्ति। भारतस्य भूमिः अध्यात्ममयी, गौरवपूर्णा, शान्तिवहा, सुखदा, सस्यश्यामला, हिरण्यरूपा, अतिकमनीया चास्ति। रत्नाकरोऽपि स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं भारतभव्यभूमेः चरणौ वृणीते।
39. अस्माकं पुस्तकालयः
संकेत: - बौद्धिकविकासाय ज्ञानवर्धनाय, पुस्तकालयानां, संग्रहो, पत्र-पत्रिकाः, रमणीये स्थाने, दशसहस्राणि पुस्तकानि, वाचनालयः, स्वाध्यायं, भवनं विशालं, प्रशंसां, महती भूमिका, आदर्शः।
अनुच्छेदः - मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते। पुस्तकालयेषु विविधपुस्तकानां संग्रहो भवति। अत्र विविधभाषाणां पत्र-पत्रिकादयोऽपि प्रतिदिनं आयान्ति। अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते। अस्मिन् दशसहस्राणि पुस्तकानि सन्ति। अस्माकं पुस्तकालये हिन्दी-आंग्ल-संस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्ति। अस्य समीपे एकः वाचनालयः वर्तते। यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति। अस्माकं पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते। अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसां कुर्वन्ति। अस्माकं ज्ञानवर्धनाय अस्य महती भूमिका वर्तते। अयम् एकः आदर्शः पुस्तकालयः विद्यते।
40. राजस्थान-प्रदेशः
संकेत: - भूमिः वीराणां, वीरांगनाम्, जननी, महाराणा प्रतापः, सांगा, दुर्गादास, अत्रैव पद्मिनी पन्ना, समुत्पन्नाः, देशसेवायां तत्पराः, विदुषां जन्मस्थली कार्यस्थली, विद्वान्सः, जयपुरं, लघुकाशी, विविधखनिजद्रव्याणि, संगमरमर पाषाणस्य, प्रसिद्धिः, ताम्रोत्पादने, प्रमुखः, ताम्रनिधिः।
अनुच्छेदः - राजस्थान प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते। अत्र महाराणा प्रतापः, महाराणा सांगा वीरवर दुर्गादास सदृशाः वीराः समुत्पन्नाः। अत्रैव पद्मिनी पन्ना सदृश्यः वीरांगनाः समुत्पन्नाः। अद्यापि राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः वर्तन्ते।
अयं प्रदेश: न केवलं वीराणां भूमिः अपितु विदुषां जन्मस्थली कार्यस्थली च वर्तते। अत्र अनेके विद्वान्सः काले-काले समुत्पन्नाः। राजस्थानस्य राजधानी जयपुरं तु लघुकाशी मन्यते। अत्र संस्कृतस्य अनेके विद्वान्सः अभवन्। राजस्थानप्रदेशे विविधखनिजद्रव्याणि प्राप्यन्ते। अत्रत्य 'संगमरमर' इत्याख्यस्य पाषाणस्य तु प्रसिद्धिः सर्वत्र वर्तते। ताम्रोत्पादनेऽपि राजस्थानप्रान्तो देशस्य प्रमुखः ताम्रनिधिरस्ति।
41. देशाटनस्य महत्त्वम्
संकेतः - देशाटनस्य, गुणाः, नानादेशजलवायुप्रभावेण, स्वास्थ्यलाभो, कलाकौशल, नागरिकाः, पर्यटनप्रियाः, ब्रिटिशशासनकाले, रुचिं नोत्साहयन्ति स्म, प्रेरणां विना, परतन्त्राः, आपद्यते, प्रोत्साहयेयुः, अमरीका, देशेषु, गताः, स्वदेशमागत्य, ज्ञानेन, उन्नमयिष्यन्ति।
अनुच्छेदः - देशाटनस्य बहवो गुणाः भवन्ति। नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति। देशान्तरकला-कौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति। ब्रिटिशशासनकाले शासका भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म। भारतीयाश्च प्रेरणां विना न किमपि कुर्वन्तीति सर्वविदितम्। परमधुना न वयं परतन्त्राः, अतः शासकानामेतत् कर्त्तव्यमापद्यते यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः। अधुना बहवो भारतीयाश्छात्रा अमरीका-इङ्गलैण्डरूसप्रभृतिदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति। स्वदेशमागत्य ते स्वोपार्जितज्ञानेन स्वदेशमवश्यमेवोन्नमयिष्यन्तीति जानीमः।