RBSE Class 11 Sanskrit अपठितावबोधनम्

Rajasthan Board RBSE Solutions for Class 11 Sanskrit अपठितावबोधनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit अपठितावबोधनम्

निर्देश: - अधोलिखितगद्यांशान् पठित्वा एतदाधारितप्रश्नानां यथानिर्देशम् उत्तराणि लिखत -

1. रमणीयं खलु वाल्मीकिरामायणम्। 'रामायणम्' आदिकाव्यं तत्प्रणेता च वाल्मीकिरादिकविः। यद्यपि रामायणात् पूर्वमपि बहवः काव्यमयाश्छन्दोबद्धाश्च ग्रन्था ग्रथिताः। किन्तु तेषु रसमयता नास्ति। न च तत्रालंकारच्छटा दृश्यते। लौकिकधरातले वाल्मीकिरामायणमेव एतादृशं प्रथमं कमनीय काव्य यद्रसभावभरितं गुणगौरवान्वितं अलंकारैरलंकृतं च सत् सहृदयहृदयं सततं रञ्जयति। अतो वाल्मीकिरामायणमेव आदिकाव्यत्वेन आद्रियते संस्कृतकाव्यकानने।

आदर्शचरित्रचित्रणं रामायणस्य अद्वितीयं वैशिष्टयम्। अस्य नायकः श्रीरामः मर्यादापुरुषोत्तमः। सर्वे आदर्शाः समाश्च मर्यादाः रामचरिते साकारतां गताः। 
भगवती सीता वाल्मीकिरामायणस्य नायिका। सा खलु भारतीयसंस्कृतेः प्रतिमा एव। पतिव्रतानां धुरि कीर्तनीया सीता वनं गच्छन्तमपि राममनुजगाम। तत्र सा वनवासदुःखानि न गणयामास। 

सर्वथा सर्वतोभावेन अनुकरणीयं सीताचरितं कल्याणकामाभिः कामिनीभिः। रामायणस्य अन्यान्यपि चरित्राण्यादर्शभूतानि। पदे-पदे चारुचरित्रचित्रणमेव वाल्मीकिरामायणस्य महनीयं महत्त्वम्। तत्र न केवलं रामस्य मातृपितृगुरुभक्तिः सीताया वा पतिभक्तिः, अपितु भरतलक्ष्मणशत्रुघ्नानां भ्रातृभक्तिः तत्रभवतः हनूमतः स्वामिभक्तिः, सुग्रीवस्य चानुरक्तिरपि सहृदय हृदयान्याकर्षति। 

प्रश्नाः 
(i) एकपदेन उत्तरं लिखत - 
(क) आदिकविः कः मन्यते? 
(ख) रामायणस्य नायकः कः? 
(ii) पूर्णवाक्येन उत्तरं लिखत - 
(क) किम् आदिकाव्यत्वेन आद्रियते संस्कृतकाव्यकानने? 
(ख) वाल्मीकिरामायणस्य किम् महनीयं महत्त्वम्? 
(iii) 'सा खलु भारतीयसंस्कृतेः प्रतिमा एव'-इत्यस्मिन् वाक्ये 'सा' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) “रामायणात् पूर्वमपि बहवः ग्रन्था ग्रथिताः' अस्मिन् वाक्ये कर्तृपदं किम्? 
(v) (क) 'प्रथमं काव्यम्' इत्यनयोः पदयो: विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'पवनपुत्रः' इतिपदस्य पर्यायशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'रञ्जयति' इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम्?
उत्तराणि :
(i) (क) वाल्मीकिः। 
(ख) श्रीरामः। 
(ii) (क) वाल्मीकिरामायणमेव आदिकाव्यत्वेन आद्रियते संस्कृतकाव्यकानने। 
(ख) पदे-पदे चारुचरित्रचित्रणमेव वाल्मीकिरामायणस्य महनीयं महत्त्वम्। 
(iii) सीता। 
(iv) ग्रन्थाः। 
(v) (क) प्रथम 
(ख) हनूमतः। 
(vi) रामायणस्य महत्त्वम्। 
(vii) वाल्मीकिरामायणं काव्यम्। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

2. अस्मिन् पुण्ये भारतवर्षे प्राचीन-कालादेव अहिंसाया: महत्त्वं मन्यते। भगवान् बुद्धः, भगवान् महावीरः, सम्राट अशोकः अहिंसायाः शान्तेश्च उपदेश ददौ। तेषामेव अनुयायी श्रीमान् महात्मा गांधी-महाभागः अपि स्वजीवनं अहिंसाया व्रतं स्वीकृतवान्। तस्य मतमासीत् यत् अहिंसया दुष्कराणि अपि कार्याणि सुकराणि भवन्ति। शास्त्रेषु प्रतिपादितैः यम-नियमैरेव जीवनस्य संचालनं भवति, तेषु चापि अहिंसायाः प्रथमं स्थानं वर्तते, 'तत्राहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः'। 

कस्मैचित् क्लेशप्रदानं, कस्यचित् हननं ताडनं वा हिंसा अस्ति तस्या अभाव एव अहिंसा कथ्यते। अत्र च क्षमायाः शान्तेश्च प्राधान्यं भवति। जैनशास्त्रे अहिंसाया महिमा विविधरूपेण वर्णितः अस्ति। वस्तुतः अहिंसा भगवती, हितकारी, सुख-शान्ति-दायिनी चास्ति। इयमेव सर्वा आपदः विनाशयति। भगवान् बुद्धः अहिंसया एव समस्तं जगत् स्ववशे चकार। महात्मागांधी अहिंसाशस्त्रेण भारतीय-स्वतंत्रतां विजितवान्। श्रीमान् जवाहरलाल नेहरू-महाभागः श्रीमान् लालबहादुरशास्त्री महोदयः च अहिंसायाः सन्देशं दत्त्वा संसारे भारतस्य यशः प्रसारितवान्। अतः सत्यमेव कथितम्-अहिंसा परमो धर्मः

प्रश्ना : 
(i) एकपदेन उत्तरं लिखत - 
(क) भारतवर्षे प्राचीनकालादेव कस्याः महत्त्वं मन्यते? 
(ख) महात्मागांधी केन शस्त्रेण भारतीय-स्वतंत्रतां विजितवान्? 
(ii) पूर्णवाक्येन उत्तरं लिखत - 
(क) कैः जीवनस्य संचालनं भवति? 
(ख) भगवान् बुद्धः कया एव समस्तं जगत् स्ववशे चकार? 
(iii) अहिंसाया व्रतं स्वीकृतवान्।" इत्यस्मिन् वाक्ये 'स्वीकृतवान्' इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम्? 
(iv) 'इयमेव सर्वा आपदः विनाशयति।' इत्यस्मिन् वाक्ये 'इयम्' इति सर्वनामस्थाने संज्ञापदं किम्? 
(v) (क) 'प्रथमं स्थानम्' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'अहिंसा' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।। 
(vii) अहिंसया दुष्कराणि अपि कार्याणि सुकराणि भवन्ति।' इत्यस्मिन् वाक्ये कर्तृपदं किम्? 
उत्तराणि :
(i) (क) अहिंसायाः। 
(ख) अहिंसाशस्त्रेण। 
(ii) (क) शास्त्रेषु प्रतिपादितैः यम-नियमैरेव जीवनस्य संचालनं भवति।
(ख) भगवान बद्धः अहिंसया एव समस्तं जगत स्ववशे चकार
(iii) श्रीमान् महात्मा गाँधी महाभागः। 
(iv) अहिंसा। 
(v) (क) स्थानम्। 
(ख) हिंसा। 
(vi) 'अहिंसा परमो धर्मः। 
(vii) कार्याणि। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

3. जगति मानवसंस्कृतिः विभिन्नेषु विभागेषु विविधरूपैः सह विकसिता वर्तते। अद्यत्वे संसारे याः काश्चित् संस्कृतयः सन्ति, तासु भारतीयसंस्कृतिः प्राचीनतमा। सर्वैरपि भारतीयसंस्कृतेः सविशिष्टं महत्त्वं स्वीक्रियते , यतो ह्यस्यामेव मानवसमाजस्य मङ्गलभावना, धर्माचरणोपदेशः पारलौकिकीभावना वर्णाश्रमव्यवस्थादि च सर्वेऽपि सामाजिक नियमाः प्राप्यन्ते। भारतीयसंस्कृतेः महत्त्वमिदं यत् इयमास्तिक्यसंस्कृतिः, अस्यामेव विश्वबन्धुत्वभावना, अहिंसा, धर्माचरणशीलता, पुनर्जन्मवादः, श्रुतीनां प्रामाण्यं, यज्ञ-यागदीनां महत्त्वम्, कर्मवादः, पुरुषार्थचतुष्टयस्य स्थितिः, मोक्षवादः, तपोमयजीवनम्, त्यागस्य महत्त्वम्, मातृपितृगुरुभक्तिः पञ्चमहायज्ञानाम् ऋणत्रयाणाञ्च परिपालनम् इत्यादि विशेषताः सदैव विद्यमानाः दृश्यन्ते। अत एव समग्रेऽपि संसारे भारतीयसंस्कृतेः स्थानं सर्वोपरि मन्यते। 

भारतीयजीवने या समन्वयात्मिका प्रवृत्तिः परिदृश्यते, मानवसभ्यतायाः सर्वविधं मङ्गलं विधातुं या उदात्ततमा विचारधारा प्रचरति, सहिष्णुता, सेवा, क्षमा, परोपकारः, सत्यपरता, सहयोगः, मैत्री दयादयश्च ये भावाः सामाजिकेऽस्माकं भारतीयजीवने विलसन्ति, इयम् भारतीयसंस्कृतिः एव शिक्षयति। एवञ्च विश्वस्य सर्वा एव मूलभावनाः अस्यामेव संस्कृतौ समुपलभ्यन्ते। संक्षेपतः सुस्पष्टमस्ति यत् अस्माकं भारतीयसंस्कृतिः जगति पुरातना विशिष्टतमा च अस्ति। विविधैः विशिष्टगुणैः समन्विता इयं संस्कृतिः समादरणीया वर्तते। 

प्रश्ना: 
(i) एकपदेन उत्तरं लिखत -
(क) का संस्कृतिः संसारे प्राचीनतमा? 
(ख) विश्वस्य सर्वा एव मूलभावनाः कस्यामेव समुपलभ्यन्ते? 
(ii) पूर्णवाक्येन उत्तरं लिखत 
(क) समग्रेऽपि संसारे भारतीयसंस्कृते: स्थानं कीदृशं मन्यते? 
(ख) आस्तिक्यसंस्कृतिः का कथ्यते? 
(iii) उपर्युक्तगद्यांशे 'शिक्षयति' इति क्रियापदस्य कर्तृपदं किम्? 
(iv) "विश्वस्य सर्वा एव मूलभावनाः अस्यामेव संस्कृतौ समुपलभ्यन्ते।" उपर्युक्तवाक्ये 'अस्याम्' इति सर्वनामस्थाने संज्ञापदं किम्? 
(v) (क) 'विभिन्नेषु विभागेषु' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'नवीनतमा' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) अस्माकं भारतीयसंस्कृतिः जगति पुरातना विशिष्टतमा च अस्ति।' 
उपर्युक्तवाक्ये कर्तृपदं किम्? 
उत्तराणि :
(i) (क) भारतीयसंस्कृतिः। 
(ख) भारतीयसंस्कृतौ। 
(ii) (क) समग्रेऽपि संसारे भारतीयसंस्कृतेः स्थानं सर्वोपरि मन्यते। 
(ख) भारतीयसंस्कृतिः आस्तिक्यसंस्कृतिः कथ्यते। 
(iii) भारतीयसंस्कृतिः। 
(iv) भारतीयाम्। 
(v) (क) विभिन्नेषु। 
(ख) प्राचीनतमा। 
(vi) भारतीयसंस्कृते: वैशिष्ट्यम्। 
(vii) भारतीयसंस्कृतिः। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

4. अस्मिन् लोके मानवसभ्यतायाः समुन्नतेः विकासाय उद्योगः परमावश्यकं तत्त्वं स्वीक्रियते। अयमेव सकलेऽपि जनानां सर्वविधं मनोरथं पूरयति। प्रत्येकस्मिन् कर्मणि सफलतामवाप्तुं सुखसम्पदं सम्पादयितुं समस्तं कार्यकलापं च साधयितुमेष उद्योग एव प्रधानं साधनं मन्यते। उद्यममाश्रित्यैव मानवः स्वसुखसमृद्धिंः साधयितुं प्रभवति। जनः सुखं वाञ्छति, मनोरथं परयितमभिलषति, जीवने समन्नतिं कांक्षते. तत्सर्वस्य साधनमद्योगमन्तरेण नैव सम्भाव्यम। उद्यम एव जनस्य कार्यक्षमतां वर्धयति, तस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति।

उद्यमेनैव सर्वत्र साफल्यं मिलति। विना उद्योगं किमपि न प्राप्यते। उद्यमस्य कृते आलस्यत्यागः कर्त्तव्यः। जनाः यदि आलस्यं विहाय कर्मनिरताः स्युः तदा साफल्यं सुनिश्चितमेव। उद्यममाश्रित्य पिपीलिका योजनानां सहस्रं याति, पतत्रिणो योजनशतमुड्डीयन्ते, परमुद्यमाभावे वैनतेयोऽपि पदमेकं गन्तुं न प्रभवति। ईश्वरोऽपि तेषामेव साहाय्यमाचरति ये जनाः उद्योगिनो भवन्ति। 

प्रश्ना : 
(i) एकपदेन उत्तरं लिखत - 
(क) कम् आश्रित्यैव मानवः स्वसुखसमृद्धिं साधयितुं प्रभवति? 
(ख) उद्यमस्य कृते कस्य त्यागः कर्त्तव्यः? 
(ii) पूर्णवाक्येन उत्तरं लिखत - 
(क) लोके किमर्थम् उद्योग: परमावश्यकं तत्त्वं स्वीक्रियते? 
(ख) ईश्वरोऽपि केषामेव साहाय्यमाचरति? 
(iii) 'तस्य स्वाभिमानं प्रसारयति।' अत्र 'तस्य' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) 'जना: आलस्यं विहाय कर्मनिरताः स्युः।' उपर्युक्तवाक्ये कर्तृपदं किम्? किञ्च तस्य क्रियापदम्? 
(v) (क) 'प्रत्येकस्मिन् कर्मणि' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'अवनतिम्' इत्यस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।। 
(vii) उद्यमाश्रित्य पिपीलिका योजनानां सहस्रं याति।' उपर्युक्तवाक्ये क्रियापदं किम्? 
उत्तराणि :
(i) (क) उद्यमम्। 
(ख) आलस्यस्य। 
(ii) (क) लोके मानवसभ्यतायाः समुन्नते: विकासाय उद्योगः परमावश्यकं तत्त्वं स्वीक्रियते। 
(ख) ईश्वरोऽपि तेषामेव साहाय्यमाचरति ये जनाः उद्योगिनो भवन्ति। 
(iii) जनस्य। 
(iv) 'जनाः' कर्तृपदम्, 'स्युः' क्रियापदम्। 
(v) (क) कर्मणि। 
(ख) समुन्नतिम्। 
(vi) उद्योगस्य महिमा।
(vii) याति। 

5. विश्वेऽस्मिन् न कोऽपि देशो प्रान्तो वा विद्यते यत्रत्याः जनाः कालिदासं न जानन्ति। भारतीयेषु कविषु कालिदास एव भूयसी कीर्तिमलभत। आनन्दवर्धनाचार्यः कालिदासं महाकविमाह। प्रसन्नराघवस्य कर्ता जयदेवस्तं 'कविकुल गुरुः कालिदासो विलासः' अकथयत्। कविकुलगुरुर्महाकविः कालिदासः संस्कृत-साहित्यस्य अद्यावधि कनिष्ठिकाधिष्ठित कविरस्ति। 

कालिदासकृत-ग्रन्थेषु रघुवंश कुमारसंभवंचेति द्वे महाकाव्ये, मेघदूत ऋतुसंहारमिति खण्डकाव्यद्वयम्। मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलञ्चेति त्रीणि नाटकानि। एषु ग्रन्थेषु रघुवंशमहाकाव्यं यथा चरित्र वर्णनदृष्ट्या गौरवान्वितं स्वीक्रियते, तथैव अभिज्ञान शाकुन्तलं नाम नाटकं समस्तेऽपि नाट्य साहित्ये सर्वोत्कृष्टं स्थानं लभते। कालिदासस्य समग्र साहित्यं प्रसादगुणवैदर्भीरीत्या संवलितं वर्तते। वैदर्भी रीति सन्दर्भ कालिदासः विशेषेण सफलतामधिगतः। उक्तं च-"वैदर्भीरीति सन्दर्भ कालिदासो विशिष्यते।" अलंकार प्रयोगेऽपि अयं कवि अति प्रवीणः। उपमाप्रयोगे तु अस्य विशेष कीर्तिरस्ति, तदुक्तिरियं-'उपमा कालिदासस्य'। 

प्रश्ना: 
(i) एकपदेन उत्तरं लिखत - 
(क) कालिदासं कः महाकविमाह? 
(ख) रघुवंशमहाकाव्यस्य रचयिता कः? 
(ii) पूर्णवाक्येन उत्तरं लिखत 
(क) कालिदासः संस्कृत-साहित्यस्य कीदृशः कविरस्ति? 
(ख) समस्तेऽपि नाट्यसाहित्ये किन्नाम नाटकं सर्वोत्कृष्टं स्थानं लभते? 
(iii) अलंकारप्रयोगेऽपि अयं कविः अतिप्रवीण:'-इत्यस्मिन् वाक्ये 'अयम्' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "भारतीयेषु कविषु कालिदासः एव भूयसी कीर्तिमलभत।" उपर्युक्तवाक्ये कर्तृपदं क्रियापदं च पृथक्तया लिखत। 
(v) (क) 'त्रीणि नाटकानि' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्यक्तगद्यांशे 'अतिनिपुणः' इत्यस्य पर्यायशब्दः कः प्रयक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। . 
(vii) आनन्दवर्धनाचार्यः कालिदासं महाकविमाह।' उपर्युक्तवाक्ये क्रियापदं किम्?
उत्तराणि :
(i) (क) आनन्दवर्धनाचार्यः। 
(ख) कालिदासः। 
(ii) (क) कालिदासः संस्कृतसाहित्यस्य कनिष्ठिकाधिष्ठितः कविरस्ति। 
(ख) अभिज्ञान-शाकुन्तलं नाम नाटकं समस्तेऽपि नाट्यसाहित्ये सर्वोत्कृष्टं स्थानं लभते। 
(iii) कालिदासः। 
(iv) 'कालिदासः' इति कर्तृपदम्, 'अलभत' इति क्रियापदम्।
(v) (क) त्रीणि। 
(ख) अतिप्रवीणः। 
(vi) महाकविः कालिदासः। 
(vii) आह। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

6. यद्यपि संस्कृत साहित्ये अनेके प्रसिद्धाः ग्रन्था सन्ति किन्तु मह्यं तु भगवद्गीता एव रोचते। वस्तुतः अयं ग्रन्थः न केवलं संस्कृत साहित्यस्य अपितु सम्पूर्णवाड्मयस्य सर्वोच्चं गौरवभूतं समुज्ज्वलं रत्नमिवास्ति। महाभारतस्य युद्धे अर्जुनं विषण्णहृदयं द्रष्ट्वा तस्य कर्त्तव्यबोधनार्थं भगवता कृष्णेन य उपदेशः दत्तः स एव 'श्रीमद्भगवद्गीता' इति नाम्ना प्रसिद्धोऽस्ति। भारतीयदर्शनसाहित्ये अस्य ग्रन्थस्य महत्त्वपूर्ण स्थानं वर्तते। वेदान्तदर्शनस्य आधार भूतायाः प्रस्थानत्रयी, तस्यामियमेव प्रस्थानमेव मन्यते दार्शनिकैः। इयं गीता न केवलं सर्वासामपि उपनिषदाम्, अपितु श्रुतीनां सारतत्त्वं प्रस्तौति। अस्यां सांख्ययोगदर्शनयोः सिद्धान्तानां विवेचनमस्ति। कर्मयोगस्य प्रतिपादनं तु गीतायाः विशिष्टं महत्त्वं प्रकटयति। 

गीतायाः दार्शनिकं साहित्यकञ्च गौरवं सर्वैः विद्वद्भिः स्वीक्रियते। सम्प्रति यावन्ति भाष्याणि व्याख्यानानि वाऽस्याः सन्ति, तावन्ति कस्यापि ग्रन्थस्य न दृश्यन्ते। अस्याः अनुवाद सर्वासु भारतीय भाषासु प्रमुखासु च विश्वभाषासु संजातः। एतदतिरिक्तं इमां गीतां आधारीकृत ब्रहूनां स्वतन्त्रग्रन्थानामपि रचना विविधासु भाषासु जातास्ति। अतएव गीतामनुसृत्य विरचितं साहित्य 'गीतासाहित्य' कथ्यते। इयं गीता सर्वोपनिषदां साररूपेणास्ति। 

प्रश्नाः 
(i) एकपदेन उत्तरं लिखत - 
(क) भारतीयदर्शनसाहित्ये कस्य ग्रन्थस्य स्थानं महत्त्वपूर्ण वर्तते? 
(ख) कस्य प्रतिपादनं तु गीतायाः विशिष्टं महत्त्वं प्रकटयति? 
(ii) पूर्णवाक्यन उत्तर लिखत -
(क) कम् किमर्थञ्च भगवता कृष्णेन गीतायाः उपदेशः दत्तः? 
(ख) गीता केषां सारतत्त्वं प्रस्तौति? 
(iii) अस्याः अनुवादः सर्वासु भारतीयभाषासु संजातः।' उपर्युक्तवाक्ये 'अस्याः' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "मह्य तु भगवद्गीता एव रोचते।" 
उपर्युक्तवाक्ये 'रोचते' क्रियायाः सम्बन्धः केन पदेन सह वर्तते? 
(v) (क) "विविधासु भाषासु' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'प्रसन्नहृदयम्' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'भगवता कृष्णेन' इति कर्तृपदस्य क्रियापदं किम्? 
उत्तराणि :
(i) (क) गीतायाः। 
(ख) कर्मयोगस्य। 
(ii) (क) अर्जुनं कर्त्तव्यबोधनार्थं भगवता कृष्णेन गीतायाः उपदेशः दत्तः। 
(ख) गीता सर्वासाम् उपनिषदाम् श्रुतीनां च सारतत्त्वं प्रस्तौति।
(iii) गीतायाः। 
(iv) मह्यम्। 
(v) (क) भाषासु। 
(ख) विषण्णहृदयम्। 
(vi) गीतायाः महत्त्वम्। 
(vii) दत्तः।
 
7. 'सत्यमेव जयते' अस्य कथनस्य भावोऽयं यत् सदैव सत्यस्य विजयं भवति नानृतस्य। सत्यस्य व्युत्पत्तिलब्धोऽर्थः-सते अर्थात् कल्याणाय हितं सत्यं भवति। वस्तुतस्तदूपेण कथनं, प्रकाशनं लेखनं वा सत्यमित्यभिधीयते। जगति सत्यस्य यादृशी आवश्यकता विद्यते, न तादृशी अन्यस्य कस्यचिद् वस्तुनः। सत्येनैव समाजस्य स्थितिः वर्तते। सत्येन संसारस्य व्यवहारश्चलति। यदि सर्वे मिथ्याभाषणं कुर्युस्तदा विश्वस्य यात्रा सर्वथा अवरुद्धा भवेत्। सत्यस्यैव एष महिमा यद् वयं समाजे मनुष्येषु विश्वासं कुर्मः। अतः सिध्यति यत् सत्यं लोकस्याधारोऽस्ति। 

सत्यभाषणेन मनुष्यो निर्भीको भवति। यः सत्यं वदति, स सर्वेभ्यो पापेभ्योऽपिनिवृत्तो भवति। सत्यभाषणेन तस्य तेजो यशः कीर्तिः विद्या गौरवं च वर्धन्ते। सत्यभाषणं वस्तुतो जीवने सर्वोत्तमं तपो वर्तते। अस्माकं भारतीयसाहित्ये सत्यस्य महिमा पदे-पदे समुपलभ्यते। सत्यस्य कृते एव युधिष्ठिरादयः पाण्डवाः नानाविधान् कष्टान् अनुभवन्तः द्वादशवर्षपर्यन्तं वनवासरूपं जीवन व्यतीतं कृतवन्तः आसन्। सत्यस्य पालनार्थमेव दशरथः प्रियं पुत्रं रामं वनं प्रेषयत्। राजा हरिश्चन्द्रः सत्यपालनार्थमेव सर्वाणि दुःखानि असहत। महात्मागांधी महोदयः सत्यस्यैव सदा शिक्षामदात्। भारतस्य राजचिह्नेऽपि 'सत्यमेव जयते' इत्यादरेण उल्लिख्यते। 

प्रश्ना : 
(i) एकपदेन उत्तरं लिखत - 
(क) सदैव कस्य विजयं भवति? 
(ख) सत्यभाषणेन मनुष्यो कीदृशो भवति? 
(ii) पूर्णवाक्येन उत्तरं लिखत 
(क) किम् सत्यमभिधीयते?। 
(ख) किमर्थं राजा हरिश्चन्द्रः सर्वाणि दुःखानि असहत?
(iii) "सत्यभाषणेन तस्य तेजो यशः कीर्तिश्च वर्धन्ते।" उपर्युक्तवाक्ये 'तस्य' इति सर्वनामस्थाने संज्ञापदं किम्?
(iv) "सत्यस्य पालनार्थमेव दशरथः प्रियं पुत्रं रामं वनं प्रैषयत्।" उपर्युक्तवाक्ये 'दशरथः' इति कर्तृपदस्य क्रियापदं किम्? 
(v) (क) 'प्रियं पुत्रम्' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'सत्यस्य' इति पदस्य विलोम शब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'कुर्मः' इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम्?
उत्तराणि :
(i) (क) सत्यस्य। 
(ख) निर्भीकः। 
(ii) (क) तद्रूपेण कथनं, प्रकाशनं लेखनं वा सत्यमभिधीयते। 
(ख) सत्यपालनार्थमेव राजा हरिश्चन्द्रः सर्वाणि दुःखानि असहत। 
(iii) मनुष्यस्य। 
(iv) प्रेषयत्। 
(v) (क) प्रियम्। 
(ख) अनृतस्य। 
(vi) सत्यमेव जयते/सत्यस्य महिमा। 
(vii) वयम्।

RBSE Class 11 Sanskrit अपठितावबोधनम् 

8. अस्मिन् संसारे असंख्याः भाषाः सन्ति। तासु भाषासु संस्कृतभाषा सर्वोत्तमा विद्यते। संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृत भाषा कथ्यते। इयमेव भाषा देवभाषा, गीर्वाणगीः, सुरवाणी इत्यादिभिः शब्दैः संबोध्यते। एतानि नामानि एव अस्या महत्त्वं सूचयन्ति। संस्कृतभाषा जगतः सर्वासां भाषाणां जननी अस्ति। सर्वभाषाणां मूलरूप ज्ञानाय एतस्या आवश्यकता भवति। यादृशं महत् साहित्य संस्कृत भाषायाः अस्ति तादृशं अन्यासां भाषाणां नास्ति। विश्व साहित्यस्य सर्व प्राचीन ग्रन्थाः चत्वारो वेदाः संस्कृत भाषायामेव विराजन्ते। अस्यामेव भाषायां ब्राह्मण ग्रन्थाः, आरण्यकाः, अध्यात्मविषय प्रतिपादिका उपनिषदः सन्ति। भारते गौरवभूताः षड् दर्शन ग्रन्थाः सन्ति, ये विश्व साहित्येऽद्यापि सर्वमान्याः सन्ति। आदिकाव्यं रामायणं शान्त रसपूर्ण वीरकाव्यं महाभारतमपि संस्कृतस्य गौरवं वर्धयतः। अनयोः ग्रन्थयोः विषयं गृहीत्वा एवं विशालस्य (संस्कृत) साहित्यस्य रचना संजाता। पुराणानि, स्मृतिग्रन्थाः अन्यद्विषयकं च सर्वं साहित्य संस्कृतस्य माहात्म्यमेवोद्घोषयति। 

प्रश्ना : 
(i) एकपदेन उत्तरं लिखत - 
(क) का भाषा सर्वोत्तमा विद्यते? 
(ख) संस्कृतभाषा सर्वासां भाषाणां का अस्ति? 
(ii) पूर्णवाक्येन उत्तरं लिखत - 
(क) कीदृशी भाषा संस्कृतभाषा कथ्यते? 
(ख) कौ ग्रन्थौ संस्कृतस्य गौरवं वर्धयतः? 
(iii) उपर्युक्तगद्यांशे 'एतस्याः' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "एतानि नामानि एव अस्याः महत्त्वं सूचयन्ति।" उपर्युक्तवाक्ये 'सूचयन्ति' इति क्रियापदस्य कर्तृपदं किम्? 
(v) (क) 'चत्वारो वेदाः' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'माता' इति पदस्य पर्यायशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'विराजन्ते' इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि :
(i) (क) संस्कृतभाषा। 
(ख) जननी। 
(ii) (क) संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृतभाषा कथ्यते।
(ख) रामायणं महाभारतं चेति ग्रन्थौ संस्कृतस्य गौरवं वर्धयत। 
(iii) संस्कृतभाषायाः। 
(iv) एतानि नामानि।
(v) (क) वेदाः। 
(ख) जननी। 
(vi) संस्कृतभाषायाः महत्त्वम्।
(vii) चत्वारो वेदाः। 

9. ज्ञानार्थक-विद्धातोः विद्याशब्दः सिद्ध्यति। कस्यचिदपि वस्तुनः पदार्थस्य वा सम्यक् ज्ञानं विद्येति कथ्यते। वेदशास्त्र-विज्ञानादीनां साध्वनुशीलनं तत्त्वार्थज्ञानं च विद्येति स्वीक्रियते।. उपनिषदाम् अनुसारं द्वेविद्ये पराऽपरा च। तत्र पराविद्या यया तदक्षरमधिगम्यते, उपनिषद्विद्या ब्रह्मविद्येति वा। यया लौकिकं ज्ञानं जायते सा अपरा। विद्याधनं सर्वधनं प्रधानमस्ति। विद्यैव तद् धनम् यया सर्वोऽपि मानवीयो मनोरथोऽभिलाषा वा पूर्यते। विद्ययैव कर्तव्याकर्त्तव्यज्ञानं धर्माधर्म परिज्ञानम् पुण्यापुण्यविवेकः लाभालाभावबोधश्च भवति। अपरं चैतस्य विद्याधनस्य वैशिष्ट्यं यदेतद् धनं न भ्रातृभाज्यं न चौरहार्यं न च भारकारि वर्तते यथा यथा दीयते विभज्यते तथा तथैव वृद्धिम् अश्नुते। 

अस्मिन् समये विद्यायाः अतिमहत्वं वर्तते। विद्याविहीनस्तु मानवः साक्षाद् पशुरेव। विद्ययैव मनुष्यः सर्वत्र प्रतिष्ठा प्राप्नोति। विदुषः पुरस्तात् राजानोऽपि नतशिरांसि भवन्ति। विद्यया मानवः स्वकीर्ति चतुर्दिक्षु प्रसारयति। विद्यैव जगति मनुष्यस्य उन्नतिं करोति। दुःखेषु विपत्तिषु च तस्य रक्षां करोति। विद्यैव मनुष्यः सर्वं सुखं प्राप्नोति। विद्यैव कीर्ति धनं च ददाति। विद्या वस्तुतः कल्पलता इव विद्यते। 

प्रश्ना: 
(i) एकपदेन उत्तरं लिखत - 
(क) कर्त्तव्याकर्त्तव्यज्ञानं कया भवति? 
(ख) कस्य पुरस्तात् राजानोऽपि नतशिरांसि भवन्ति? 
(ii) पूर्णवाक्येन उत्तरं लिखत -
(क) किम् विद्येति कथ्यते? 
(ख) अपरा विद्या का भवति? 
(iii) "दुःखेषु विपत्तिषु च तस्य रक्षां करोति।" उपर्युक्तवाक्ये 'तस्य' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) उपर्युक्तगद्यांशे 'प्रसारयति' इति क्रियायाः कर्तृपदं किम्? 
(v) (क) 'द्वे विद्ये' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'लाभः' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'ददाति' इति क्रियायाः कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि : 
(i) (क) विद्यया। 
(ख) विदुषः। 
(ii) (क) कस्यचिदपि वस्तुनः पदार्थस्य वा सम्यक् ज्ञानं विद्येति कथ्यते। 
(ख) यया लौकिकं ज्ञानं जायते सा अपरा विद्या भवति।
(iii) मनुष्यस्य। 
(iv) मानवः। 
(v) (क) द्वे 
(ख) अलाभः। 
(vi) विद्यायाः महत्त्वम्। 
(vii) विद्या। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

10. परेषाम् उपकारः परोपकारोऽस्ति। समाजे मानवः परस्य हितसाधनार्थं यत्किंचिद् वितरति, मनसा, वाचा, कर्मणा च पदार्थं सम्पादयति, परेषां हितं वाऽनुतिष्ठति, सर्वं तत् परोपकारो गण्यते। प्राचीन ग्रन्थेषु परोपकारस्य महत्त्वं वर्णितमस्ति। जगतः कल्याणं परोपकारेणैव भवति, मनुष्याणां सुखं शान्तिं च एधते। परोपकारः समेषामुपदेशानां सारतत्त्वं विद्यते। 

यः पुरुषः परोपकारं करोति तस्य मनः पवित्रं विनययुक्तं, सदयं, सरसं स्वच्छंच जायते। परोपकारिणः परेषां दुःखं स्वकीयं मत्वा तन्नाशाय प्रयत्नं कुर्वन्ति। ते दीनेभ्यों दानं ददति, निर्धनेभ्यो धनं, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्यो अन्नम्, अशिक्षितेभ्यश्च शिक्षाम्। सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति। ते परोपकारकरणे स्वीयं दुःखं न गणयन्ति।
 
परोपकारेण न केवलं अन्येषामेव प्राणिनां लाभः किन्तु आनन्दः अपि सञ्जायते। परोपकारिणः अन्तःकरणे सन्तोषः जायते। परोपकारेणैव जनैः सर्वाः सम्पदः प्राप्यन्ते। परोपकारस्य भावनयैव महाराजो दधीचिः देवानां हिताय स्वीयानि अस्थीनि ददौ। महाराजः शिविः कपोतरक्षणार्थं स्वमांसं श्येनाय प्रादात्। महर्षि दयानन्दः महात्मा गांधिश्च भारतभूमिहितायैव प्राणान् दत्तवन्तौ। अतः सर्वैरपि सर्वदा परोपकारः करणीयः। 

प्रश्नाः 
(i) एकपदेन उत्तरं लिखत - 
(क) जगतः कल्याणं केन भवति? 
(ख) कः देवानां हिताय स्वीयानि अस्थीनि ददौ? 
(ii) पूर्णवाक्येन उत्तरं लिखत 
(क) परोपकारः केषां सारतत्त्वं विद्यते? 
(ख) परोपकारिणः मनः कीदृशं जायते? 
(iii) उपर्युक्तगद्यांशे 'ते' इति सर्वनामस्थाने संज्ञापदं किं प्रयुक्तम्? 
(iv) "सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति।" उपर्युक्तवाक्ये कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'सर्वाः सम्पदः' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'दु:खम्' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) उपर्युक्तगद्यांशे 'ददौ' इति क्रियायाः कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि :
(i) (क) परोपकारेण। 
(ख) महाराजः दधीचिः। 
(ii) (क) परोपकारः समेषामुपदेशानां सारतत्त्वं विद्यते। 
(ख) परोपकारिणः मनः पवित्रं विनययुक्तं सदयं स्वच्छं च जायते। 
(iii) परोपकारिणः। 
(iv) 'सज्जनाः' कर्तृपदम्, 'भवन्ति' क्रियापदम्।
(v) (क) सम्पदः। 
(ख) सुखम्। 
(vi) परोपकारः। 
(vii) महाराजः दधीचिः। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

11. 'हर्षचरितम्' बाणभट्टेन विरचितः प्रथमः ग्रन्थः अस्ति। 'हर्षचरितम्' अष्टोच्छ्वासेषु विभक्तम् एका आख्यायिका अस्ति। हर्षचरितस्य प्रथमोच्छवासत्रये बाणेन स्वीया आत्मकथा लिखिता। चतुर्थादुच्छ्वासात् आरभ्य समाप्तिपर्यन्तं राज्ञः हर्षस्य चरितं वर्णितम्। हर्षस्य पितरौ यशोमती-प्रभाकरवर्धनौ आस्ताम्। ज्येष्ठः भ्राता राज्यवर्द्धनः, अनुजा राज्यश्रीः चासीत्। चतुर्थोच्छ्वासे राजकुमारयोः तत्स्वसुश्च जन्मवृत्तानि, पञ्चमे उच्छ्वासे राजकुमारयोर्विजययात्रा वर्णिता। हूणानां जयार्थे गते राज्यवर्धने हर्षे च मृगयां गतै प्रभाकरवर्धनः मृतकल्पः जातः इति श्रुत्वा हर्षः मृगयातः निवृत्तः। षष्ठे उच्छ्वासे राज्यवर्धनस्य पसवर्तनम्, ग्रहवर्मणः मृत्युः, राज्यश्रियः बन्दीभावः, राज्यश्रियः उद्धाराय राज्यवर्धनस्य प्रस्थानम्, गौडेश्वरशशाङ्कद्वारा तस्य वधश्च वर्णितः। सप्तमे उच्छ्वासे हर्षस्य दिग्विजययात्रा, मालेश्वरविजयः, अष्टमे राज्यश्रियः प्राप्तिः, दिवाकरमित्राख्यबौद्धभिक्षुणा सङ्गतिः। एवंविधया मूलकथा विस्तरेण अत्र वर्णिता। 

प्रश्ना : 
(i) एकपदेन उत्तरं लिखत - 
(क) बाणभट्टेन विरचितः प्रथमः ग्रन्थः कः? 
(ख) राज्ञः हर्षस्य ज्येष्ठभ्राता कः आसीत्? 
(ii) पूर्णवाक्येन उत्तरं लिखत - 
(क) बाणेन स्वीया आत्मकथा कुत्र लिखिता? 
(ख) राज्ञः हर्षस्य पितरौ कौ आस्ताम्? 
(iii) "तस्य वधश्च वर्णितः" इत्यत्र 'तस्य' इति सर्वनामस्थाने संज्ञापदं किम् प्रयुक्तम्? 
(iv) "इति श्रुत्वा हर्षः मृगयातः निवृत्तः।" उपर्युक्तवाक्ये कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'षष्ठे उच्छ्वासे' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'जन्म' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) एवं विधया मूलकथा विस्तरेण अत्र वर्णिता।' 
उपर्युक्तवाक्ये कर्तृपदं किम् प्रयुक्तम्? 
उत्तराणि :
(i) (क) हर्षचरितम्। 
(ख) राज्यवर्धनः। 
(ii) (क) हर्षचरितस्य प्रथमोच्छ्वासत्रये बाणेन स्वीया आत्मकथा लिखिता। 
(ख) राज्ञः हर्षस्य पितरौ यशोमती-प्रभाकरवर्धनौ आस्ताम्। 
(iii) राज्यवर्धनस्य। 
(iv) कर्तृपदं 'हर्षः' इति, क्रियापदं च 'निवृत्तः' इति। 
(v) (क) षष्ठे। 
(ख) मृत्युः। 
(vi) बाणभट्टस्य हर्षचरितम्। 
(vii) मूलकथा। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

12. गद्यसाहित्याकाशे अस्य बाणभट्टस्य महती प्रसिद्धिः अस्ति। अस्य समयः प्रायेण निश्चितः अस्ति। अयं कविः सम्राट्हर्षवर्धनस्य समकालीनः आसीत्। महाराजहर्षदेवः 606 ईशवीयसमयात् आरभ्य 648 पर्यन्तं थानेश्वरनाम्नि स्थाने राज्यं कृतवान्। सः चायं हर्षः बाणभट्टेन स्वकीये हर्षचरिते सविशेषं वर्णितः। एतेन बाणभट्टस्य तत्समयवर्तित्वं प्रतीयते, तथा च बाणस्य समयः सप्तमशतकं सिद्ध्यति। 
बाणभट्ट वात्स्यायनवंशे जन्म गृहीतवान्। तत्पूर्वजाः बिहार प्रान्तस्थितस्य शोणाख्यस्य हिरण्यबाह्वपरनामकस्य महानदस्य तटे प्रीतिकूटनामकग्रामे न्यवसन्। तस्य पिता चित्रभानुः माता च राज्यदेवी आसीत्। बाणेन हर्षचरिते स्ववंशपरिचयः विस्तृतेन प्रदत्तः। कादम्बर्याम् अपि स्ववंशवर्णनं कृतवान्।। बाणभट्टेन बहुदेशाटनं कृतम्। देशभ्रमणेन तस्य प्रज्ञानप्रकर्षे महाँल्लाभो जातः। देशाटनात् परतः सः स्वगृहे अवस्थाय शास्त्राणाम् अध्ययने प्रावर्तत। 

प्रश्ना: 
(i) एकपदेन उत्तरं दातव्यम् - 
(क) बाणभट्टः कस्य समकालीनः आसीत? 
(ख) बाणभट्टः कस्मिन् वंशे जन्म गृहीतवान्? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) महाराजहर्षदेवः कुत्र राज्यं कृतवान्? 
(ख) बाणभट्टस्य माता पिता च कः आसीत? 
(iii) 'अस्य समयः प्रायेण निश्चितः अस्ति।' उपर्युक्तवाक्ये 'अस्य' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) बाणभट्टेन बहुदेशाटनं कृतम्' इत्यत्र कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'महती प्रसिद्धिः' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'कालः' इत्यस्य पर्यायशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) "बाणेन हर्षचरिते स्ववंशपरिचयः विस्तृतेन प्रदत्तः।" उपर्युक्तवाक्ये क्रियापदं किम् प्रयुक्तम्?
उत्तराणि :
(i) (क) सम्राट हर्षवर्धनस्य। 
(ख) वात्स्यायनवंशे।
(ii) (क) महाराजहर्षदेवः थानेश्वरनाम्नि स्थाने राज्यं कृतवान्। 
(ख) बाणभट्टस्य माता राज्यदेवी पिता च चित्रभानुः आसीत्। 
(iii) बाणभट्टस्य। 
(iv) कर्तृपदं 'बाणभट्टेन', क्रियापदञ्च 'कृतम्' इति। 
(v) (क) प्रसिद्धिः। 
(ख) समयः। 
(vi) गद्यसम्राट् बाणभट्टः। 
(vii) प्रदत्तः। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

13. गद्यसम्राट महाकविबाणभट्टेन विरचिता कादम्बरी बाणस्य सर्वश्रेष्ठं गद्यकाव्यमस्ति। इयं कथाग्रन्थरूपा अस्ति। स्वयमेव कविना-धिया निबद्धेयमतिद्वयी कथा इति कादम्बर्याः कथाग्रन्थत्वम् उद्घोषितम्। कादम्बर्यां निबद्धा कथा गुणाढ्यकृतायाः बृहत्कथायाः गृहीता। बृहत्कथायाः साम्प्रतम् उपलब्धिः नास्ति तथापि बाणकाले सा उपलभ्या आसीत् इति वक्तुं शक्यते। बृहत्कथातः नृपसुमनसः साधारणी कथाम् आदाय बाणभट्टेन काव्यकलानैपुण्येन तस्यां वैशिष्ट्यमुत्पाद्य कादम्बरी विरचिता। कादम्बर्याः कथा जन्मत्रयवृत्तान्तस्य अङ्गीकारेण जटिला जाता। एका कथा कथान्तरमुद्भावयति इति प्रथमा कथा सावशेषैव द्वितीयस्याः कथायाः अवसानप्रतीक्षमाणा तिष्ठति। एवम् अपरापि कथा इति कथासाङ्कर्यम् अत्र विद्योतते। 

प्रश्नाः 
(i) एकपदेन उत्तरं दातव्यम् -
(क) बाणभट्टस्य सर्वश्रेष्ठं गद्यकाव्यं किमस्ति? 
(ख) कादम्बर्यां निबद्धा कथा कुतः गृहीता? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् - 
(क) कादम्बर्याः कथा कथं जटिला जाता? 
(ख) कादम्बरीविषये स्वयं कविना किम् उद्घोषितम्? 
(iii) "इयं कथाग्रन्थरूपा अस्ति" इत्यत्र 'इयम्' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) 'बाणकाले सा उपलभ्या आसीत्।' उपर्युक्तवाक्ये कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'एका कथा' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'सरला' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) "बृहत्कथायाः साम्प्रतम् उपलब्धिः नास्ति।" उपर्युक्तवाक्ये कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि :
(i) (क) कादम्बरी। 
(ख) बृहत्कथायाः। 
(ii) (क) कादम्बर्याः कथा जन्मत्रयवृत्तान्तस्य अङ्गीकारेण जटिला जाता। 
(ख) स्वयमेव कविना-धिया निबद्धेयमतिद्वयी कथा इति कादम्बर्याः कथाग्रन्थत्वम् उद्घोषितम्। 
(ii) कादम्बरी। 
(iv) कर्तृपदं 'सा', क्रियापदञ्च 'आसीत्'। 
(v) (क) एका। 
(ख) जटिला। 
(vi) बाणभट्टस्य 'कादम्बरी'।
(vii) उपलब्धिः। 

14. राज्ञः चिन्तामणेः पुत्रस्य राजकुमारस्य कन्दर्पकेतोः स्वप्ने एका परमसुन्दरी कन्या आयाति। तस्याः अन्वेषणे कन्दर्पकेतुः स्वमित्रेण मकरन्देन सह सहसा निर्गच्छति। रात्रौ सः विन्ध्यवने तिष्ठति यत्र वृक्षस्थितसारिकया ज्ञायते यत् पाटलिपुत्रस्य राजकुमारी स्वप्ने कन्दर्पकेतुं अपश्यतु। तस्य कन्दर्पकेतोः अन्वेषणे सारिका तमालिका च संलग्ने स्तः। एवंविधया शुकदम्पत्तिद्वारा नायकनायिकयोः मिलनं भवति। उभयोः हृदये परस्परं प्रगाढानुरागः अस्ति, परं तु वासवदत्तायाः पिता श्रृंगारशेखरः तस्याः विवाह केनचित् विद्याधरेण सह कर्तुम् इच्छति। 

अस्मात् कारणात् वासवदत्ता कन्दर्पकेतुना सह विन्ध्याव्यां पलायनं करोति। तत्र कन्दर्पकेतुं विना एकाकीरूपेण वने भ्रमणार्थं गच्छति सा। तां प्राप्त्यर्थं किरातानां समूहद्वये सङ्घर्षः भवति। वासवदत्ता गुप्तरूपेण कस्यचित् ऋषेः आश्रमे प्रविशति, यत्र सा ऋषिशापवशात् शिलारूपेण परिवर्तिता भवति। अपरतः कन्दर्पकेतुः वासवदत्तावियोगे आत्महत्यां कर्तुम् उद्यतः भवति, परं तु आकाशवाण्या सः विरमति। अन्ततोगत्वा सः वने तस्याः अन्वेषणं करोति, यत्र कन्दर्पकेतोः स्पर्शद्वारा सा मानुषीरूपं धारयति। अतः परं मकरन्दः तत्र आगच्छति। सर्वे राजधान्यां निवर्त्य सुखपूर्वकं जीवनयापनं कुर्वन्ति इति। अस्याः वासवदत्तायाः कथा अतिस्वल्पा निर्जीवा चास्ति, परं तु कविना सुबन्धुना स्वप्रतिभया सुन्दरवर्णनेन हृदयावर्जिका कृता। 

प्रश्ना: 
(i) एकपदेन उत्तरं दातव्यम् -
(क) राज्ञः चिन्तामणे : पुत्रस्य किन्नाम आसीत्? 
(ख) वासवदत्तायाः पिता कः आसीत्? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) का स्वप्ने कन्दर्पकेतुम् अपश्यत्? 
(ख) कन्दर्पकेतुः किमर्थम् आत्महत्यां कर्तुम् उद्यतः भवति? 
(iii) "रात्रौ सः विन्ध्यवने तिष्ठति' इत्यत्र 'सः' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "कन्दर्पकेतुः स्वमित्रेण मकरन्देन सह सहसा निर्गच्छति।" 
उपर्युक्तवाक्ये कर्तृपदं किम्, किञ्च क्रियापदम्?
(v) (क) 'परमसुन्दरी कन्या' इत्यनयोः पदयोः विशेष्यपदम् किम्? 
(ख) उपर्युक्तगद्यांशे 'वियोगः' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) "परं तु आकाशवाण्या सः विरमति।" इत्यत्र क्रियापदं किम्? 
उत्तराणि :
(i) (क) कन्दर्पकेतुः। 
(ख) श्रृंगारशेखरः। 
(ii) (क) पाटलिपुत्रस्य राजकुमारी वासवदत्ता स्वप्ने कन्दर्पकेतुम् अपश्यत्। 
(ख) कन्दर्पकेतुः वासवदत्तावियोगे आत्महत्यां कर्तुम् उद्यतः भवति। 
(iii) कन्दर्पकेतुः।
(iv) कर्तृपदं 'कन्दर्पकेतुः', क्रियापदञ्च 'निर्गच्छति'।
(v) (क) कन्या। 
(ख) मिलनम्। 
(vi) वासवदत्ता-कन्दर्पकेतो: कथा। 
(vii) विरमति। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

15. पण्डितेन अम्बिकादत्तव्यासेन विरचितः शिवराजविजयः संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः अस्ति, यः व्यासमहाभागेन 1870 ईशवीये वर्षे लिखितः। अयं ग्रन्थः एकोनविंशत्याः शताब्याः सर्वश्रेष्ठः सुललितः गद्यग्रन्थः अस्ति। शिवराजविजये वर्णिता कथा यद्यपि ऐतिहासिकप्रधाना, तथापि अम्बिकादत्तव्यासेन स्वप्रतिभया कल्पनया च उच्चकोटिसाहित्यिकतया विभूषिता। अत्र कथावस्तु संघटना प्राच्यपाश्चात्योः शिल्पविधानेन समन्विता अस्ति। अत्र कथाद्वयं समानरूपेण चलति। एकस्याः कथायाः नायकः वीरशिवाजी अस्ति अपरस्य च नायकः रघुवीरसिंहः अस्ति। कथाद्वयम् परस्परं पूरकम् अन्योन्याश्रितं चास्ति। शिवराजविजयस्य सम्पूर्णा कथा त्रिषु निःश्वासेषु समाहिता अस्ति। 

अस्मिन् शिवराजविजये इतिहासकल्पनयोः यथार्थादर्शयोः कल्पनानुभवयोः च सुसमन्वयः विद्यते। सर्वाणि पात्राणि स्वचरित्रनिर्वहणे पूर्णरूपेण पारङ्गतानि। शिववीरः, गौरसिंहः, रघुवीरसिंहः, यशवन्तसिंहः, अफजलखान्, शाइस्ताखान्, ब्रह्मचारी इत्यादयः सर्वे स्वाभाविकतायाः यथार्थतायाः च निर्वहणे पूर्णतया सफलाः सन्ति। ब्रह्मचारिवर्णने कविः तस्य स्वाभाविकं चित्रम् उपस्थापयति। 

प्रश्नाः 
(i) एकपदेन उत्तरं दातव्यम् - 
(क) शिवराजविजयस्य सम्पूर्णा कथा कति निःश्वासेषु समाहिता अस्ति? 
(ख) शिवराजविजयस्य रचयिता कः?
(ii) पूर्णवाक्येन उत्तरं दातव्यम् - 
(क) संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः कः अस्तिः? 
(ख) शिवराजविजयस्य कथावस्तु संघटना केन समन्विता अस्ति? 
(iii) "यः व्यासमहाभागेन 1870 ईशवीये वर्षे लिखितः।" उपर्युक्तवाक्ये 'यः' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "ब्रह्मचारिवर्णने कविः तस्य स्वाभाविकं चित्रम् उपस्थापयति।" उपर्युक्त वाक्ये कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'सुललितः गद्यग्रन्थः' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'विफलाः' इत्यस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
(vii) "अत्र कथाद्वयं समानरूपेण चलति।" 
उपर्युक्तवाक्ये कर्तृपदं किम्? उत्तराणि 
(i) (क) त्रिषु। 
(ख) पण्डित अम्बिकादत्तव्यासः। 
(ii) (क) शिवराजविजयः संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः अस्ति। 
(ख) शिवराजविजयस्य कथावस्तु संघटना प्राच्यपाश्चात्योः शिल्पविधानेन समन्विता अस्ति। 
(iii) शिवराजविजयः। 
(iv) कर्तृपदम् ‘कविः', क्रियापदञ्च 'उपस्थापयति'। 
(v) (क) सुललितः। 
(ख) सफलाः। 
(vi) शिवराजविजयस्य परिचयः। 
(vii) कथाद्वयम्। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

16. भट्टनारायणस्य कीर्तिभूतम् इदं नाटकं 'वेणीसंहारम्' महाभारतस्य कथावस्तु आश्रित्य विरचितम् अस्ति। कविना नाट्यसंयोजनदृष्ट्या महाभारतस्य कथानके स्वप्रतिभया आवश्यकं परिवर्तनं परिवर्धनं च कृतम्। अस्मिन् नाटके षड् अङ्काः सन्ति। संस्कृतनाट्यशास्त्रानुसारेण 'वेणीसंहारम्' शास्त्रीयदृष्ट्या आदर्शभूतं नाटकम् अस्ति। नाट्यशास्त्रस्य अपेक्षया सर्वसन्धीनां पताकास्थानकानां च यथास्थाने सन्निवेशः अस्ति। 

नाटकस्य मुख्योद्देश्यं द्रौपद्याः अपमानस्य प्रतिकारत्वम् राज्यप्राप्तिस्तु अवान्तरं फलवत्वम्। कविना अस्य सम्यक् निर्वहणं कृतम्। अस्य कथोपकथनं नाट् यदृष्ट्या प्रभावोत्पादकम् अस्ति। तृतीयाः अङ्कः कवेः नाट्यकौशलम् कवित्वशक्तिपरिचायकम् अस्ति। पात्राणां व्यक्तित्वम् अस्य नाटकस्य विशेषता अस्ति। भीमस्य भीषणता, कर्णस्य अहङ्कारः, अश्वत्थाम्नः रोषस्य, दुर्योधनस्य स्थिरता विलासप्रियता च विशदरूपेण वर्णिता अस्ति। 

प्रश्ना : 
(i) एकपदेन उत्तरं दातव्यम् - 
(क) 'वेणीसंहारम' इति नाटकस्य रचनाकार: कः? 
(ख) वेणीसंहारनाटकस्य आधारभूतः ग्रन्थः कः? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) शास्त्रीयदृष्ट्या वेणीसंहारं कीदृशं नाटकमस्ति? 
(ख) वेणीसंहारनाटकस्य मुख्योद्देश्यं किमस्ति? 
(iii) 'अस्य कथोपकथनं प्रभावोत्पादकमस्ति।' उपर्युक्तवाक्ये 'अस्य' इति सर्वनामस्थाने संज्ञापदं किम? 
(iv) 'कविना अस्य सम्यक् निर्वहणं कृतम्।' उपर्युक्तवाक्ये कर्तृपदं क्रियापदञ्च किम्? 
(v) (क) 'आदर्शभूतं नाटकम्' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'क्रोधस्य' इति पदस्य पर्यायशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) 'अस्मिन् नाटके षडङ्का सन्तिः।' 
उपर्युक्तवाक्ये क्रियापदं किम्? 
उत्तराणि :
(i) (क) भट्टनारायणः। 
(ख) महाभारतम्। 
(ii) (क) शास्त्रीयदृष्ट्या वेणीसंहारं आदर्शभूतं नाटकमस्ति। 
(ख) वेणीसंहारनाटकस्य मुख्योद्देश्यं द्रौपद्याः अपमानस्य प्रतिकारत्वमस्ति। 
(iii) वेणीसंहारनाटकस्य। 
(iv) कर्तृपदम् ‘कविना', क्रियापदञ्च ‘कृतम्'। 
(v) (क) आदर्शभूतम्, 
(ख) रोषस्य। 
(vi) वेणीसंहारनाटकस्य नाट्यकौशलम्। 
(vii) सन्ति। 

17. 'अभिज्ञानशाकुन्तलम्' नामकं नाटकं संस्कृतसाहित्यस्यं सर्वश्रेष्ठं नाटकम् अस्ति। इदं नाटकं स्वरोचकतया रचनाकौशलधर्मेण सरसतायाः च कारणेन संस्कृतस्य समस्तेषु दृश्यकाव्येषु सर्वश्रेष्ठं मन्यते। महाभारतस्य आदिपर्वणः शकुन्तलाकथाम् अधिकृत्य स्वकाव्यप्रतिभया कालिदासेन एतत् विश्वविश्रुतं रचितम्। इदं नाटकं सप्तषु अङ्केषु विभक्तम् अस्ति। अस्मिन् नाटके कालिदासस्य नाट्यकलायाः पूर्णपरिपाकः प्राप्यते। शाकुन्तलस्य कथावस्तुना सह पात्राणां चरित्रचित्रमपि प्रशंसनीयम्। शाकुन्तलस्य प्रधानरसः श्रृंगारः अस्ति। अन्य रसादीनाम् अङ्गरूपेण वर्णनं वर्तते। 

अस्य नाटकस्य भाषा अतिप्राञ्जला परिमार्जिता परिष्कृता चास्ति। कालिदासेन सर्वत्र वैदर्भीरीतेः प्रयोगः कृतः। अस्य शैली अलंकारयुक्ता अपि अस्ति। कालिदासस्य उपमा विशेषरूपेण प्रशंसिता अस्ति। अस्मिन् नाटके प्रकृतिः पात्ररूपेण चित्रिता अस्ति। वस्तुतः कालिदासेन अभिज्ञानशाकुन्तले मानवप्रकृत्योः मध्ये रागात्मकः घनिष्ठः सम्बन्धः स्थापितः। अतएव 'अभिज्ञानशाकुन्तलम्' विश्वसाहि। अमूल्यरत्नरूपेण स्वीकृतम् अस्ति। 

प्रश्ना : 
(i) एकपदेन उत्तरं दातव्यम् -
(क) संस्कृतसाहित्यस्य सर्वश्रेष्ठं नाटकं किमस्ति? 
(ख) कालिदासेन अभिज्ञानशाकुन्तले कयो: मध्ये रागात्मकः घनिष्ठः सम्बन्धः स्थापितः? 
(i) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) अभिज्ञानशाकुन्तलं नाटकं कति अङ्केषु विभक्तमस्ति? 
(ख) कस्य उपमा विशेषरूपेण प्रशंसिता अस्ति? 
(iii) उपर्युक्तगद्यांशे 'एतत्' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) "कालिदासेन सर्वत्र वैदर्भीरीतेः प्रयोगः कृतः।" उपर्युक्तवाक्ये कर्तृपदं किम्, क्रियापदञ्च किम्?
(v) (क) 'समस्तेषु दृश्यकाव्येषु' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'निन्दनीयम्' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) "शाकुन्तलस्य प्रधानरसः शृङ्गारः अस्ति।" 
उपर्युक्तवाक्ये क्रियापदं किं प्रयुक्तम्? 
उत्तराणि :
(i) (क) अभिज्ञानशाकुन्तलम्। 
(ख) मानवप्रकृत्योः। 
(ii) (क) अभिज्ञानशाकुन्तलं नाटकं सप्तषु अङ्केषु विभक्तमस्ति। 
(ख) कालिदासस्य उपमा विशेषरूपेण प्रशंसिता अस्ति। 
(iii) अभिज्ञानशाकुन्तलम्।
(iv) कर्तृपदं 'कालिदासेन' इति, क्रियापदञ्च ‘कृतः' इति। 
(v) (क) दृश्यकाव्येषु। 
(ख) प्रशंसनीयम्। 
(vi) अभिज्ञानशाकुन्तलं नाटकम्। 
(vii) अस्ति। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

18. वैदिके वाङ्मये सामवेदस्य अपि स्थानम् अतिमहत्त्वपूर्णमस्ति। भगवता श्रीकृष्णेन, 'वेदानां सामवेदोऽस्मि' इति ब्रुवन् अस्य महिमानम् उद्घोषितम्। महर्षिणा शौनकेन अपि उक्तम्-'सामानि यो वेत्ति स वेदत्तत्त्वम्'। तात्पर्यमिदम् अस्ति यत् यः साम जानाति स एव वेदरहस्यं जानाति। ऋग्वेदे अथर्ववेदे चापि अस्य महत्त्वं प्रतिपादितम् वर्तते। ऋग्वेदः कथयति-'यो जागार तमु सामानि यन्ति', अर्थात् यः जागरणशीलः तस्मै सामस्य प्राप्तिः भवति। अथर्ववेदेऽपि उक्तम्-'सामानि यस्य लोमानि' इति। अस्य तात्पर्यमस्ति यत् सामानि परब्रह्मणः लोमानि सन्ति। एवम् सामगानस्य परम्परा अतिप्राचीना अस्ति। ऋग्वेदकालेऽपि यज्ञानुष्ठाने ऋत्विजः उच्चस्वरैः कुर्वन्ति स्म। इदमेव सामगानं संगीतशास्त्रस्य मूलम् अस्ति। सामवेदस्य गानप्रचुरता प्रसिद्धा। ऋचः एव गीयन्ते सामवेदे 1548 मन्त्राः सन्ति। वस्तुतः सामगानस्य प्राणाः स्वराः सन्ति। 'साम' इत्यस्य आरम्भः अवसानं च 'ओम्' इति शब्देन भवति। 

प्रश्नाः 
(i) एकपदेन उत्तरं दातव्यम् 
(क) 'सामानि यो वेत्ति स वेदतत्त्वम्' इति केन उक्तम्? 
(ख) सामगानं कस्य मूलमस्ति? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् - 
(क) सामानि कस्य लोमानि सन्ति? 
(ख) सामवेदे कति मन्त्राः सन्ति? 
(iii) "इति ब्रुवन् अस्य महिमानम् उद्घोषितम्।" उपर्युक्तवाक्ये 'अस्य' इति सर्वनामस्थाने संज्ञापदं किम्?
(iv) 'ऋत्विजः उच्चस्वरैः सामगानं कुर्वन्ति स्म।' उपर्युक्तवाक्ये कर्तृपदं किम्, किञ्च क्रियापदम्? 
(v) (क) 'भगवता श्रीकष्णेन' इत्यनयोः पदयोः विशेषणपदं किम? 
(ख) उपर्युक्तगद्यांशे 'अधिकता' इति पदस्य पर्यायशब्दः कः प्रयुक्त? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) 'ऋचः एव गीयन्ते' इत्यत्र क्रियापदं किम्? 
उत्तराणि :
(i) (क) महर्षिणा शौनकेन। 
(ख) संगीतशास्त्रस्य। 
(ii) (क) सामानि परब्रह्मणः लोमानि सन्ति। 
(ख) सामवेदे 1548 मन्त्राः सन्ति। 
(iii) सामवेदस्य। 
(iv) कर्तृपदम् ‘ऋत्विजः', क्रियापदञ्च 'कुर्वन्ति स्म' इति। 
(v) (क) भगवता। 
(ख) प्रचुरता। 
(vi) सामवेदस्य महत्त्वम्। 
(vii) गीयन्ते। 

19. अथर्ववेदस्य वर्ण्यविषयः त्रिषु भागेषु विभक्तः अस्ति-अध्यात्मम्, अधिभूतम् अधिदैवतञ्च। अध्यात्मविभागान्तर्गते ब्रह्मणः, परमात्मनः चतुर्णाम् आश्रमाणाम् च निर्देशः प्राप्यते। अधिभूतान्तर्गते राजा-राज्य-संग्रामादीनां विषयाणां वर्णनम् अस्ति। अधिदैवतविभागे देवता-यज्ञ-काल-सम्बन्धिविषयाणां विवेचनं प्राप्यते। 
अथर्ववेदे रोगनिवारकाः अनेके मन्त्राः सङ्कलिताः ये 'भैषज्यानि' कथ्यन्ते। अत्र रुजः (रोगाः) दानवरूपेण कल्पिताः यैः रोगोत्पत्तिः भवति। अत्रैव रुजठः (रोगान्) दूरीकर्तुम्, तेषां प्रवर्तकानां असुराणां विनाशं कर्तुम् च विविधोपायः वर्णितः अस्ति। 
अत्र 'आयुष्यसूक्ते' स्वास्थ्य-दीर्घायुष्ययोः प्राप्तये अनेके प्रार्थना-मन्त्राः सङ्कलिताः सन्ति। अत्रैव दीर्घायुष्याय 'जीवेम शरदः शतम्' इति प्रार्थना अस्ति। अथर्ववेदे कतिपयेषु सूक्तेषु अनिष्टनिवारणाय, पशुरक्षणाय, हल-प्रवहणाय, बीजवपनाय, अन्नवृद्ध्यै विविधविषयसम्बन्धिताः प्रार्थना-मन्त्राः सन्ति ये 'पौष्टिकानि' कथ्यन्ते। 
प्रायश्चितम् इत्यस्य अन्तर्गते विभिन्नेषु यज्ञयागादिषु अनुष्ठानेषु विहितानाम् दोषाणां परिमार्जनाय पापमोचनार्थम् प्रायश्चित्तविधानं कृतमस्ति। 

प्रश्नाः 
(i) एकपदेन उत्तरं दातव्यम् - 
(क) अथर्ववेदस्य वर्ण्यविषयः कतिभागेषु विभक्तः अस्ति? 
(ख) अथर्ववेदस्य कीदृशाः मन्त्राः 'भैषज्यानि' कथ्यन्ते? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) अथर्ववेदस्य अधिभूतान्तर्गते केषां विषयाणां वर्णनमस्ति? 
(ख) अथर्ववेदस्य आयुष्यसूक्ते कीदृशाः मन्त्राः संकलिताः सन्ति? 
(iii) उपर्युक्तगद्यांशस्य द्वितीयानुच्छेदे 'ये' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) अथर्ववेदे विविधाः प्रार्थना-मन्त्राः सन्ति ये 'पौष्टिकानि' कथ्यन्ते। उपर्युक्तवाक्ये 'प्रार्थना-मन्त्राः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्?
(v) (क) 'कतिपयेषु सूक्तेषु' इत्यनयोः पदयोः विशेष्यपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'रुजः' इत्यस्य पर्यायशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) "अत्रैव 'जीवेम शरदः शतम्' इति प्रार्थना अस्ति।" 
उपर्युक्तवाक्ये कर्तृपदं किम्? 
उत्तराणि :
(i) (क) त्रिषु। 
(ख) रोगनिवारकाः।
(ii) (क) अधिभूतान्तर्गते राजा-राज्य-संग्रामादीनां विषयाणां वर्णनमस्ति। 
(ख) आयुष्य सूक्ते स्वास्थ्य-दीर्घायुष्ययोः प्राप्तये अनेके प्रार्थना-मन्त्राः संकलिताः। 
(iii) रोगनिवारकाः मन्त्राः। 
(iv) सन्ति। 
(v) (क) सूक्तेषु। 
(ख) रोगाः। 
(vi) अथर्ववेदस्य वर्ण्यविषयः। 
(vii) प्रार्थना। 

RBSE Class 11 Sanskrit अपठितावबोधनम्

20. वेदानाम् अन्तिमो भागः वेदान्तः। वेदान्त एव उपनिषद् कथ्यते। उपनिषच्छब्दः उप-नि-उपसर्गद्वयपूर्वस्य क्विप्प्रत्ययान्तस्य 'षद्लु' धातोः योगात् निष्पन्नः भवति। 'षद्ल' धातोः अर्थद्वयम् अस्ति - विशरणं = नाशम्, गतिः = प्राप्तिः, अवसादनं = शिथिलनम् च। अस्य अर्थः भवति यत् या विद्या परम्परया गुरोः समीपे उपविश्य प्राप्यते, यथा च यया समस्तानर्थोत्यादिकानां सांसारिकक्रियाणां नाशः भवति, संसारस्य कारणभूताया अविद्यायाः बन्धनं शिथिलं भवति, ब्रह्मसाक्षात्कारः च भवति, सा विद्या उपनिषद् कथ्यते। अत्र ब्रह्म-जीव-जगत्सम्बन्धिविषयाणां विशदं विवेचनं प्राप्यते। उपनिषत्सु ब्रह्म-जीव-संसार सम्बन्धिरहस्यमपि प्रतिपादितमस्ति। 
मुक्तोपनिषदि उपनिषदां संख्या 108 उल्लिखिता। तासु दश उपनिषदः प्रसिद्धाः-ईश-केन-कठ प्रश्न-मुण्डक-माण्डूक्य-तैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः। श्वेताश्वतरोपनिषदेकादश्यपि प्रसिद्धा अस्ति। 
उपनिषदः भारतीयाध्यात्मविद्यायाः ज्वलन्ति रत्नानि। महर्षयः यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वानि अत्र वर्णितानि सन्ति।

प्रश्ना: 
(i) एकपदेन उत्तरं दातव्यम् - 
(क) वेदानाम् अन्तिमो भागः कः कथ्यते? 
(ख) मुक्तोपनिषदि उपनिषदां संख्या कति उल्लिखिता? 
(ii) पूर्णवाक्येन उत्तरं दातव्यम् 
(क) उपनिषत्सु किम् प्रतिपादितमस्ति? 
(ख) भारतीयाध्यात्मविद्यायाः ज्वलन्तरत्नानि कानि सन्ति? 
(iii) उपर्युक्त गद्यांशे 'तानि' इति सर्वनामस्थाने संज्ञापदं किम्? 
(iv) 'सा विद्या उपनिषद् कथ्यते।' उपर्युक्तवाक्ये कर्तृपदं किम्, किञ्च क्रियापदम्? 
(v) (क) 'सर्वाणि तत्त्वानि' इत्यनयोः पदयोः विशेषणपदं किम्? 
(ख) उपर्युक्तगद्यांशे 'विद्यायाः' इति पदस्य विलोमशब्दः कः प्रयुक्तः? 
(vi) उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत। 
(vii) 'सांसारिक क्रियाणां नाशः भवति।' उपर्युक्तवाक्ये कर्तृपदं किम्? 
उत्तराणि :
(i) (क) वेदान्तः/उपनिषद्। 
(ख) 108। 
(ii) (क) उपनिषत्सु ब्रह्म-जीव-संसार-सम्बन्धिरहस्यमपि प्रतिपादितमस्ति। 
(ख) उपनिषदः भारतीयाध्यात्मविद्यायाः ज्वलन्तरत्नानि सन्ति। 
(iii) आध्यात्मिकतत्त्वानि। 
(iv) कर्तृपदं 'सा विद्या', क्रियापदञ्च 'कथ्यते'। 
(v) (क) सर्वाणि। 
(ख) अविद्यायाः। 
(vi) उपनिषद्-ग्रन्थाः। 
(vii) नाशः। 

Prasanna
Last Updated on Aug. 20, 2022, 12:36 p.m.
Published Aug. 20, 2022