RBSE Class 9 Sanskrit रचनात्मक कार्यम् पाठ्यपुस्तकात् द्वौ श्लोकलेखनम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् पाठ्यपुस्तकात् द्वौ श्लोकलेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit रचनात्मक कार्यम् पाठ्यपुस्तकात् द्वौ श्लोकलेखनम्

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। 
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥1॥ 

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्। 
आत्मनः प्रतिकूलानि परेषा न समाचरेत्॥2॥ 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। 
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता॥3॥ 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् पाठ्यपुस्तकात् द्वौ श्लोकलेखनम्

पिबन्ति नद्यः स्वयमेव नाम्भः 
स्वयं न खादन्ति फलानि वृक्षाः। 

नादन्ति सस्यं खलु वारिवाहाः 
परोपकाराय सतां विभूतयः॥4॥ 

गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा। 
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः॥5॥ 

आरम्भगुर्वी क्षयिणी क्रमेण 
लघ्वी पुरा वृद्धिमती च पश्चात्। 

दिनस्य पूर्वार्द्धपरार्द्धभिन्ना 
छायेव मैत्री खलसज्जनानाम्॥6॥ 

यत्रापि कुत्रापि गता भवेयु
हँसा महीमण्डलमण्डनाय। 

हानिस्तु तेषां हि सरोवराणां 
येषां मरालैः सह विप्रयोगः॥7॥ 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् पाठ्यपुस्तकात् द्वौ श्लोकलेखनम्

गुणा गुणज्ञेषु गुणा भवन्ति 
ते निर्गुणं प्राप्य भवन्ति दोषाः। 

आस्वाद्यतोयाः प्रवहन्ति नद्यः 
समुद्रमासाद्य भवन्त्यपेयाः॥8॥ 

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। 
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥9॥ 

ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः। 
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्॥10॥ 

निवर्तय मतिं नीचां परदाराभिमर्शनात्। 
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥11॥

Prasanna
Last Updated on June 2, 2022, 9:22 a.m.
Published June 1, 2022