Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना प्रार्थना-पत्रम् Questions and Answers, Notes Pdf.
The questions presented in the RBSE Solutions for Class 7 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 7 all subjects will help students to have a deeper understanding of the concepts. Read Class 7 Sanskrit Chapter 13 Hindi Translation written in simple language, covering all the points of the chapter.
प्रश्न 1.
गृहे आवश्यककार्यार्थ द्विनद्वयस्य अवकाशाय स्वकीयस्य प्रधानाध्यापकस्य कृते प्रार्थना-पत्रम् संस्कृतभाषायां लेखनीयम्। (घर पर आवश्यक कार्य के लिए दो दिन के अवकाश हेतु अपने प्रधानाध्यापक के लिए संस्कृत भाषा में एक प्रार्थना-पत्र लिखिए।)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय-माध्यमिक विद्यालयः,
उदयपुरम्।
महोदयः,
सविनयं निवेदनमस्ति यत् मम गृहे अत्यावश्यक कार्य वर्तते, अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांक 25-9-20XX ई. त: 26-9-20XX ई. पर्यन्तं दिनद्वयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः।
दिनांक : 24-9-20XX ई.
भवतां आज्ञापालक:
अभिषेकः
कक्षा-सप्तम् 'ब'
प्रश्न 2.
भ्रातुः विवाह कारणात् स्वकीयस्य प्रधानाध्यापकस्य कृते द्वि दिवसस्य अवकाशार्थम् प्रार्थनापत्रम् संस्कृतभाषायां लेखनीयम्। (भाई के विवाह के कारण अपने प्रधानाध्यापक को दो दिन के अवकाश के लिए प्रार्थना-पत्र संस्कृत भाषा में लिखिए।)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजश्री विद्यापीठम्,
अलवरम्।
विषय - द्वि दिवसस्य अवकाशार्थम्।
महोदयः,
सविनयं निवेदनम् अस्ति यत् मम भ्रातु: विवाह: 15-12-20XX दिनांके भविष्यति। अहमपि वरयात्रायां गमिष्यामि। अत: दिनांक: 15-12-20XX तः 16-1220XX पर्यन्तं द्वि दिवसस्य अवकाशं दत्वा कृपां कुरु।
सधन्यवादः।
दिनांक: 12-12-20XX ई.
भवतां आज्ञापालक: शिष्यः
रमानाथः।
कक्षा-सप्तम् 'ब'
प्रश्न 3.
शुल्कमुक्त्यर्थं स्वीकीयस्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत। (शुल्क-मुक्ति के लिए अपने प्रधानाध्यापकजी को संस्कृत-भाषा में एक प्रार्थनापत्र लिखिए।)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय-उच्च-प्राथमिक-विद्यालयः,
दौसा (राज.)।
विषय - शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्।
महोदय!
सविनयं निवेदनमस्ति यत् मम परिवारस्य आर्थिकदशा: दयनीया अस्ति। मम पिता निर्धनः श्रमिकः अस्ति। मम पठने रुचिः वर्तते, किन्तु विद्यालयस्य शिक्षणशुल्कं दातुं न शक्नोमि। अतः शिक्षण-शुल्कात् मुक्तिं प्रदाय माम् अनुगृहन्तु भवन्तः।
दिनाङ्कः 18-7-20xx ई.
भवताम् आज्ञापालक: शिष्यः
अभिनवः
कक्षा-सप्तम् 'अ'
प्रश्न 4.
भवतः पितुः स्थानान्तरणं जातम्।अतः विद्यालयत्यागस्य स्थानान्तरण-प्रमाणपत्राय (टी.सी.) स्वस्थ्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत। (आपके पिताजी का स्थानान्तरण हो गया है। इसलिए विद्यालय त्यागने का स्थानान्तरण प्रमाण-पत्र (टी.सी.) हेतु अपने प्रधानाध्यापकजी को संस्कृत भाषा में प्रार्थना-पत्र लिखिए।)
उत्तरम् :
सेवायाम,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय माध्यमिक-विद्यालयः
कोटकासिम (अलवरम्)।
विषय-स्थानान्तरणं प्रमाण-पत्र प्राप्त्यर्थम्।
महोदय!
सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं जयपुरनगरसमीपं जातम्। अहमपि तेन सह तत्रैव गत्वा पठिष्यामि। अत: मां विद्यालयत्यागस्य स्थानान्तरणं प्रमाणपत्रं दत्त्वा कृतार्थयन्तु भवन्तः।
दिनाङ्कः 20-8-20xx ई.
भवताम् आज्ञापालक: शिष्यः
गौरव शर्मा।
कक्षा-सप्तम् 'अ'
प्रश्न 5.
त्वम् रुग्णो असि, स्वकीय प्रधानाध्यापकस्य कृते दिवसत्रयस्यावकाशार्थम् प्रार्थनापत्रम् संस्कृत-भाषायां लेखनीयम्। (तुम बीमार हो, अपने प्रधानाध्यापक को तीन दिन के अवकाश हेतु प्रार्थना-पत्र संस्कृत भाषा में लिखो।)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक-विद्यालयः, सीकरम्।
विषय - त्रि दिवसस्य अवकाशार्थम्।
महोदयः,
सविनयं निवेदनम् अस्ति यत् अहं ज्वरपीड़या रुग्णोऽस्मि। अतः विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांक: 16-10-20XX त: 18-10-20XX पर्यन्तं दिवसत्रयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः।
सधन्यवादः।
दिनांक : 16-10-20XX ई.
भवताम् आज्ञापालक: शिष्यः
गोपालः
कक्षा-सप्तम् 'अ'