RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

Rajasthan Board RBSE Solutions for Class 12 Sanskrit रचना निबंध-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 12 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 12 all subjects will help students to have a deeper understanding of the concepts. Read संस्कृत में कारक written in simple language, covering all the points of the chapter.

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

1. अनुशासनम्

नियमपालनम् आज्ञापालनं वा अनुशासनं भवति। अनुशासनं जीवने परमम् आवश्यकमस्ति। परिवारे, समाजे, राष्ट्रे, अस्य आवश्यकता वर्तते। अस्य पालनेन उन्नतिर्भवति। यत्र अनुशासनं न भवति, तत्र कार्येषु अवनतिः भवति। नियम-पालनस्य अभावे जीवनं दष्करं भवेत। यथा राजमार्गेषु यातायात-नियन्त्रणाय वामतः चलनमावश्यकं नियमं वर्तते। यदि अस्य पालनं न भवेत्, तदा अनेकाः दुर्घटनाः भविष्यन्ति। यदि सर्वे जनाः स्वच्छन्दाः स्युः तदा समाजस्य स्थितिः अस्तव्यस्ता स्यात्।। 

परिवारे एकः मुख्यः भवति। स एव परिवारे अनुशासनं रक्षति। केन किं कार्यं करणीयं इति परिवारे मुख्यः जनः एव निर्दिशति। यदि सर्वे सदस्याः अनुशासनं पालयन्ति तदा सर्वाणि कार्याणि सुचारुरूपेण सम्पन्नाः भवन्ति। अस्य अभावे अव्यवस्था भवति। सत्यं कथ्यते - 

सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः। सर्वे महत्त्वमिच्छन्ति तत् कुलमवसीदति। 
अद्य छात्रेषु अनुशासनस्य अभावः अस्ति। ते न गुरोराज्ञां पालयन्ति, न च पित्रोः आदेशं स्वीकुर्वन्ति। अनुशासनाभावे च प्रतिदिनं हट्टतालं कुर्वन्ति। अद्य सर्वत्रैव अनुशासनस्य अभावः एव दृश्यते। भारतीय-राजनीतौ, धार्मिक-सामाजिक- संस्थासु च न कोऽपि अनुशासनम् इच्छति। एवमेव वीथीनां नगरस्य च नियमाः भवन्ति, यथा-सार्वजनिकं स्थानं विकृतं न कुर्यात् अपशब्दं न वदेत, इति नियमानां पालनेन सुविधा भवति, नियमानां भग्नेनं च कलहाः जायन्ते। 
अतः अनुशासनस्य सर्वस्मिन् क्षेत्रे विशेषतः छात्र-जीवने महती आवश्यकता वर्तते। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

2. प्रातः काले भ्रमणम् 

प्रात:काले सूर्योदयात् पूर्वं जागरणं प्राचीनकालतः एव स्वास्थ्यप्रदं मन्यते। प्रात:काले वातावरणं शान्तं शुद्ध स्वच्छं प्राणप्रदं शीतलम् ऊर्जाकरं च भवति। प्रात:कालस्य स्वच्छवायौ भ्रमणेन शरीरं रोगमुक्तं भवति। अथवा यैः रोगैः वयं ग्रसिता स्मः, तेभ्यः काचित् अपि रोगमुक्तता अवश्यम् अनुभूयते। बालः स्यात् वृद्धः वा, महिला स्यात् पुरुषः वा, प्रातः भ्रमणं सर्वेभ्यः संजीवनी इव जीवनकरं भवति। उत्तमस्वास्थ्याय दीर्घजीवनाय च प्रातःभ्रमणं सर्वथा सरल: सुविधाजनक: च उपायः अस्ति। अस्मिन् उपाये किमपि धनम् अपि च न व्ययीक्रियते। 

प्रात:कालः सर्वोत्तमः कालः भवति, यतः अस्मिन् काले वायुः शुद्धः, प्रदूषणरहितः, प्राकृतिकसौन्दर्येण परिपूरितः सूर्योदयस्य रक्ताभया मनोहारी शान्तिमयः च भवति। अस्मिन् काले भ्रमणात् बहवः लाभाः भवन्ति प्रात:काले नियमित-भ्रमणेन शरीरं हष्टं पुष्टं बलिष्ठं च भवति। शरीरस्य स्थूलता क्षीयते। रोगाक्रमणशक्तिः वर्धते येन प्रायशः प्रथमं तु आक्रमन्ति एव न, यदि कदाचित् आक्रमन्ति अपि तर्हि तथा अनिष्टकराः न भवन्ति यथा तेभ्यः जनेभ्यः भवन्ति ये प्रातः भ्रमणं न कुर्वन्ति। श्वसनप्रक्रिया रक्तसञ्चार प्रक्रिया च सन्तुलिता सशक्ता च भवतः। येन हृदयरोगः, रक्तचापः, स्नायुरोगः, मधुमेहः-इत्यादयः रोगाः प्रायशः न आक्रमन्ते। चिकित्सकाः अपि एतैः पीडितैः रुग्णान् प्रातः, भ्रमणाय उपदिशन्ति। प्रातः भ्रमणेन शरीरम् एव स्वस्थं न भवति मनः अपि स्वस्थं तिष्ठति। प्रातः भ्रमणेन मनुष्यस्य मानसिकक्षमता वर्धते अतएव सः अनावश्यकमानसिकद्वन्द्वेन मुक्तः तिष्ठति। 
किमधिकं प्रातः भ्रमणं सर्वेभ्यः सर्वथा स्वास्थाकरं दीर्घायुष्यप्रदं च वर्तते। अतः प्रातः भ्रमणं सर्वैः नियमितरूपेण कर्तव्यम्। 

3. समयस्य सदुपयोगः 

मनुष्यजीवने समयस्य महत्त्वपूर्ण स्थानं वर्तते। गतः समयः पुन: न आगच्छति, अतः मनुष्यस्य एतत् कर्तव्यं भवति यत् प्राप्तस्य समयस्य सदुपयोगं कुर्यात्। यः जनः समयस्य सदुपयोग न करोति तस्य जीवनं नश्यति। मानवस्य उन्नतौ समयस्य सदुपयोगितायाः महत्त्वपूर्ण योगदानं भवति। यतः समय: तु साक्षात् अवसरः एव भवति, यः अवसरं न गणयति, अवसरः अपि तं प्रमादिनं जनं दूरतः एव त्यजति। परिणामतः सः पश्चात्तापात् अन्यत् किमपि हस्तगतं न करोति। अत: समयस्य सदुपयोगः परमावश्यकः। 

समयः तु स्वगतिना गच्छति, न सः कस्मै अपि तिष्ठति अतः समयानुसारम् आवश्यकानि उचितानि कार्याणि अवश्यमेव सम्पादनीयानि। एष एव समयस्य सदुपयोगः कथ्यते। छात्रजीवने एव यः मनुष्यः समयस्य महत्त्वं जानन् तदनुरूपं स्वकार्ययोजनां विधाय परिश्रमं करोति स एव सुखदम् उज्ज्वलं च भविष्यं निर्मातुं शक्नोति। छात्रजीवने यः जनः समयस्य सदुपयोगं न शिक्षते तस्य भाविजीवनम् अनेकविधं संकटमयम् अस्तव्यतं प्रायः च निष्फलम् एव जायते। अतः विपरीतं यः जनः समयस्य सदुपयोगं करोति तस्मै सर्वे उन्नतिमार्गाः निर्बाधाः भवन्ति, पदे पदे च विजयः सफलता वा तस्य चरणचुम्बनं करोति। वस्तुत: जीवने सफलतायाः कुञ्चिका समयस्य सदुपयोगिता एव अस्ति। समयस्य सदुपयोगेन कार्यक्षमता वर्धते, मानसिकद्वन्द्वं न जायते, जीवनं च स्वयमेव अनुशासनबद्धं भवति। अनेन प्रकारेण एव च मनुष्य यशस्वी सफलः च भवितुं शक्नोति। अतः छात्रजीवनतः एव समयस्य सदुपयोगस्य अभ्यास: करणीयः। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

4. अस्माकं/मम विद्यालयः 

अस्मिन् देशे बहवः विद्यालयाः सन्ति। यत्र शिक्षकाः छात्रान् विद्यां पाठयन्ति स एव विद्यालयोऽस्ति। 'विद्यायाः आलयः = विद्यालयः' भवति। अस्माकं विद्यालयस्य नाम 'राजकीय उच्चतर: माध्यमिक: विद्यालयः' कुरुक्षेत्रम् अस्ति। एतस्य भवनं विशालं सन्दरं च अस्ति। एतस्मिन च कशलाः अध्यापकाः सन्ति। अस्माकं मख्याध्यापक प्रबन्धकः अस्ति। अध्यापकाः छात्राः च तं सम्मानयन्ति। 

अस्माकं विद्यालये पुस्तकालयः अपि अस्ति। अर्धावकाशे वयं तत्र समाचारपत्राणि पठामः। अस्माकं विद्यालये एकः लघुः औषधालयः अस्ति। चिकित्सकः तत्र प्रतिदिनम् आगच्छति। अस्माकं विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति। तत्र सर्वतः रम्याः वृक्षाः सन्ति। सायंकाले वयं तत्र खेलामः। क्रीडाक्षेत्रे छात्राः विविधाः रोचकाः क्रीडाश्च कुर्वन्ति। अस्माकं विद्यालयस्य परीक्षाफलं सदैव श्लाघनीयं भवति। अयं विद्यालयः शतवर्षात् अधिकं देशवासिनो सेवां करोति। एनं विद्यालयं प्राप्य वयं धन्याः स्मः। 

5. संस्कृतभाषायाः महत्त्वम् 

संसारे अनेकाः भाषाः सन्ति। तासु भाषासु संस्कृतभाषा सर्वप्राचीना सर्वोत्तमा चास्ति। इयं भाषा 'देववाणी' अपि कथ्यते। इयमेव प्रायेण सर्वासां भाषाणां जननी अस्ति। भारतस्य सर्वाः एव भाषाः संस्कृतस्य कन्याः सन्ति। विशालम् अस्य साहित्यम्। वेदाः, गीता, रामायणं, महाभारतम् इत्यादयः ग्रन्थाः संस्कृतस्य गौरवं वर्धयन्ति। कालिदास-भास-भवभूति महाकविभिः रचितानि संस्कृतकाव्यानि समस्ते विश्वे सम्मानितानि सन्ति।। भारतीया संस्कृतिः संस्कृतभाषायामेव सुरक्षिता अस्ति। संस्कृतं तु अस्माकं संस्कृते: आत्मा अस्ति। 

अस्माकं धर्मः, अस्माकम् इतिहासः, अस्माकं भूतं-भविष्यञ्च सर्वमपि संस्कृतेन सम्बद्धं वर्तते। अस्माकं सर्वाणि आदर्शवाक्यानि 'सत्यमेव जयते' अहिंसा परमो धर्मः, सर्वाणि संस्कृतभाषायामेव सन्ति। अस्यामेव भाषायां अस्माकं सर्वे संस्काराः सम्पन्नाः भवन्ति। - संस्कृतम् इति प्राचीना भाषा वर्तते। इयं च हिन्दी भाषायाः प्रमातामही अस्ति। संस्कृतम् इति शब्दस्य अर्थः परिष्कृतं 

शुद्धम्, सम्यक् प्रकारेण कृतम् इति भवति। देववाणी, गीर्वाणवाणी, देवभाषा एते संस्कृतस्य पर्यायवाचिनः शब्दाः सन्ति। अस्माकं प्राचीनाः ऋषयः मुनयश्च अस्यामेव निजग्रन्थान् अलिखन्। वेदाः, उपनिषदः, स्मृतयः रामायणं, महाभारतं संस्कृतभाषायाम् एव सन्ति। गुप्त-साम्राज्य-काले संस्कृतं राज्यभाषा आसीत्। विदेशेषु अद्यापि संस्कृतस्य गौरवं वर्तते। संस्कृतस्य प्रचारेण एव हिन्दी-साहित्यस्य उत्तरोत्तरं वृद्धिः भवति। 

इयं भाषा अतिमधुरा सरसा च अस्ति। प्राचीनकाले संस्कृतभाषा लोकव्यवहारस्य भाषा, आसीत्। जनाः संस्कृतभाषायामेव वार्तालापं कुर्वन्ति स्म। राजकार्याणि अपि संस्कृतभाषायामेव भवन्ति स्म। सम्प्रति अस्या भाषायाः उपेक्षा भवति। केचन जनाः इमां मृतभाषां कथयन्ति, तेषां विचारः अनुचितः। संस्कृतभाषा तु जीवन्तभाषा अस्ति। भारतीय भाषाणां समृद्धिः संस्कृतभाषां विना न भवितुं शक्नोति। इयं वैज्ञानिकी समृद्धा च भाषा अस्ति। विशालः अस्य शब्दकोषः। एवं संस्कृतस्य धार्मिक-सामाजिक-सांस्कृतिक दृष्ट्या परमं महत्त्वमस्ति। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

6. दायजस्य कुप्रथा 

"दहेज' इति हिन्दी-शब्दस्य दायजः इति संस्कृतरूपो वर्तते। भारते अस्य दायजस्य प्रथा प्राचीना अस्ति। एतस्य दायजस्य विशेष: सम्बन्धः कन्यादानात् वर्तते। प्राचीनकाले जनाः कन्यादानेन सह वराय रूप्यकाणि, आभूषणानि, अन्यानि च बहूनि वस्तूनि दक्षिणारूपेण यच्छन्ति स्म। तस्मिन् समये दायजस्य किमपि बन्धनं लोभो वा नासीत्। जना: हर्षेण स्व आर्थिक स्थित्यनुसारं कन्यायै यच्छन्ति स्म। अस्य दायजस्य एतदपि लक्ष्यमासीत्, यत् कन्या स्व-श्वसुरालये किमपि कष्टं नानुभवेत्। 

परमद्य तु विवाहसमये एव वरपक्षकाः जनाः रूप्यकाणि वस्तूनि च याचन्ते। अद्य इयं प्रथा तिरस्करणीया संजाता। अद्यत्वे भारतीयसमाजे इयं कुप्रथा प्रतिदिनं वर्धते। इयं प्रथा अद्य हिन्दूनाम् समाजे कलंकरूपा वर्तते। अस्मिन् युगे तु सर्वासु जातिषु इयं कुप्रथा प्रचलिता अस्ति। अद्य कन्यानाम् जनका: अनया कुप्रथया भयभीताः त्रस्ता: च सन्ति। अस्याः कुप्रथायाः कारणात् नवोढाः करुणचीत्कारं कुर्वन्ति। अतः साम्प्रतम् इयं कुप्रथा भारतीयसमाजाय अभिशाप: वर्तते। 

अद्यत्वे यदि काचित् कन्या विवाह-समये दायजस्य पुष्कलां सामग्री न आनयति। तदा वरपक्षीयाः ताम् कन्याम् घृणा दृष्ट्या तिरस्काररूपेण च पश्यन्ति। सा कन्या च विविधैः दण्डैः दण्ड्यते, दण्डम् असहमानाः कन्याः आत्महत्याम् कुर्वन्ति। अहो! धिक्इमाम् कुप्रथाम्। या समाजम् अवनते: गर्ने प्रक्षिपति। 

अद्य समाजस्य, युवकानां युवतीनाम् च सहयोगस्य आवश्यकता अस्ति। यदि अद्य युवकाः युवत्यश्च मिलित्वा प्रतिज्ञाम् कुर्युः यत् दायजं न याचितव्यम् न च गृहे नेतव्यम्; तदा एव एषा कुप्रथा विनष्टा भवेत्। यावत्कालं समाजे जागृति: नैव आगच्छति, तावत् अस्याः कुप्रथायाः समूल: विनाश: असंभवः वर्तते। अद्य इमाम् प्रथाम् समाजात् अपनेतुम् सहयोगस्य परमावश्यकता अस्ति। 

7. पुस्तकालयः 

पुस्तकानाम् आलयः इति पुस्तकालयः। सर्वेषां पठनाय यत्र पुस्तकानां संग्रहः क्रियते पुस्तकालयः कथ्यते। पुस्तकालयेन शिक्षायाः अत्यधिकम् प्रचारः भवति। सम्प्रति स्थान-स्थाने जनतायाः राज्यस्य च पुस्तकालयाः स्थापिताः सन्ति। पुस्तकालये विभिन्नविषयाणां बहूनि पुस्तकानि भवन्ति। सर्वेषां पठने समानः अधिकारः भवति। स्वल्पेन व्ययेन छात्रा: साधारणाः जनाः वा तत्र विविधविषयाणां ज्ञानं प्राप्तुं शक्नुवन्ति। पुस्तकालये दैनिक-पत्राणि, पाक्षिक-पत्राणि, मासिक-पत्राणि अपि च भवन्ति। 

ये जनाः तानि क्रेतुं न शक्नुवन्ति ते तत्र पठितुं शक्नुवन्ति। अद्य तु जनेषु शिक्षाप्रसाराय ग्रामेषु आवश्यकता वर्तते। अस्माकं महाविद्यालयस्य पुस्तकालयः सुमहान् वर्तते। अत्र अनेकानि अनुपलब्धानि पुस्तकानि अपि विद्यन्ते। अस्माकं पुस्तकालये महती सुव्यवस्था अस्ति। तत्र शान्तेः वातावरणं पूर्णम् अनुशासनं च भवति। प्रातः निर्धारिते समये पुस्तकालयः उद्घाटितो भवति, निश्चिते सायं समये च तस्य पिधानम् भवति। एवं पुस्तकालयानां महती उपयोगिता वर्तते। वस्तुतः साम्प्रतिके युगे प्रत्येकं गृहे एक: लघुः पुस्तकालयः उपयोगी वर्तते। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

8. स्वतन्त्रतादिवसः 

अद्य अगस्तमासस्य पञ्चदशतारिका अस्ति। अस्मिन् दिवसे एव भारतदेश: आंगलशासनात् स्वतन्त्रः अभवत्। अत एव एषः दिवसः भारतदेशे 'स्वतन्त्रतादिवसः' इति रूपेण सोल्लासं मान्यते। अस्मिन् दिवसे भारतीया: राजनैतिकरूपेण स्वतन्त्रतां प्राप्नुवन्तः। एषा स्वतन्त्रता सरलतया न अलभत, अपितु असंख्याः देशभक्ताः आंगलशासकानां भीषणान् अत्याचारान सहमानाः स्वबलिदानं कृत्वा. एतां स्वतन्त्राताम् अलभन्त। असंख्यैः देशभक्तैः स्वतन्त्रतायै आंगल-कारागारेषु स्वयुवावस्थां जीर्णीकृतवन्तः। असंख्यैः देशभक्तैः स्वरक्तेन स्वतन्त्रतायज्ञं कृतवन्तः। ते आत्मानम् आहुतवन्तः। तदा वयं स्वतन्त्रताफलं प्राप्नुवन्तः। 

अद्य वयं स्वतन्त्राः स्मः, परन्तु तां बिभीषिकां न जानीमः या अस्माकं पूर्वजैः अनुभूता। नैव च तां सद्वृत्तिं ध्यायामः, यया प्रेरिताः ते निःस्वार्थभावेन स्वप्राणदानं कृतवन्तः। अद्य नासौ महात्मा गांधी, नासौ सुभाषः, चन्द्रेशखरः, बिस्मिलः, वा दृश्यते येभ्यः भारतदेशः एव सर्वोपरि आसीत्। अद्य तु वयं सर्वथा स्वार्थलिप्ताः अभवाम, न कथमपि राष्ट्रहितं पश्यामः। अस्मभ्यं तु आत्महितम् एव सर्वोपरि अभवत्। देश: गच्छतु भ्राष्ट्र, कोऽपि राजनेता तस्य कृते चिन्तातुरः न दृश्यते। राजनेतृभ्यः राजनीतिः अपि व्यापारः अभवत्। लोकहितं तेषां वचनेषु एव दृष्टिगोचरं भवति, न वास्तविकव्यवहारे। भ्रष्टाचारः सर्वेषु विभागेषु व्याप्तः। 

तेषां कृते स्वतन्त्रतायाः अर्थः भ्रष्टाचारं कर्तुं स्वतन्त्रता एव प्रतीयते। परन्तु ते एतत् तथ्यं विस्मरन्ति यदि देश: एव स्वतन्त्रः न भविष्यति, देशः एव प्रतिवेशिराष्ट्रेभ्यः भौगोलिकरूपेण, आर्थिकरूपेण, राजनैतिकरूपेण च सुरक्षितः आत्मनिर्भरः च न भविष्यति तदा भ्रष्टाचाराय अपि अवकाशः न भविष्यति। अतः अस्माभिः स्वतन्त्रतादिवसे काँश्चन लोकाकर्षकान् समारोहान् एव न सम्पाद्य वस्तुतः प्रत्येकं भारतीये देशनिष्ठायाः देशभक्तेः देशपरायणतायाः भावः यथा उद्दीप्तः स्यात् तथा आचरणीयम्; येन अस्माकं देशस्य स्वतन्त्रता शाश्वती भवेत्। जयतु भारतम्, जयतु भारतदेशः। 

9. महात्मा गांधी (प्रियः राष्ट्रनेता) 

'महात्मा', 'बापू' इति लोके प्रसिद्धस्य मोहनदासगान्धि महोदयस्य नाम कस्य न विदितम् ? स जगद्वन्दनीयेषु महापुरुषेषु सर्वश्रेष्ठः नेता आसीत्। चिरकालाद् दासत्वं गतस्य भारतस्य पुनरपि स्वतन्त्रतायाः नायक: अयमेवासीत्। अनेन सत्यस्य अहिंसायाश्च बलेन पराधीना भारतभूमिः स्वतन्त्रीकृतम। 

अयं महापुरुषः 1869 तमे ख्रीष्टाब्दे गुजरातप्रान्तस्य पोरबन्दर-नामके नगरे वणिक्-वंशे अजायत। अस्य पिता कर्मचन्दगान्धी माता च पुतलीबाई आसीत्। जन्मजात-संस्कारैः प्रभावितः अयं बाल: बाल्यादेव सत्यवादी, ईश्वरभक्तश्चासीत्। अस्य विवाहः त्रयोदशवर्षे कस्तूरबा कन्यया सह संजातः। विवाहानन्तरं दशमकक्षा उत्तीर्य अयं बैरिस्ट्री शिक्षाग्रहणार्थं इंगलैंडदेशं गतः। तत्र सः स्वाध्यायं कुर्वन् ‘बाईबल' धर्मपुस्तकं श्रीमद्भगवद्गीतां च अपि अधीतवान्। स्वदेशम् आगत्य अयं वाक्कीलकार्य (वकालत) प्रारभत। गान्धी एकदा अफ्रीकादेशं गतः। तत्र भारतीयानां दुर्दशा आसीत्। भा ईदृशम् अपमानम् अवलोक्य तेन तत्प्रतिकारया नेटालप्रदेशे 'इण्डियन कांग्रेस' (भारतीय महासभा) नाम्नी संस्था संस्थापिता। अयं गान्धिनः राजनीतौ प्रथमः प्रवेशः आसीत्। 

अफ्रीकात: निवृत्य भारतीय-कांग्रेस-सभायां-सम्मिलितो भूत्वा गान्धी 'असहयोग-आन्दोलनम्' अचालयत्। एतस्मिन् विषये गान्धिनः ‘डांडी' यात्रा इतिहासे सुप्रसिद्धा विद्यते। 1942 तमे संवत्सरे 'भारत छोड़ो' इति आन्दोलनं तेन चालितं, यत् कारणात् गान्धी आंग्लैः कारागारे पातितः। गांधिनः सत्याग्रहेण पराधीनं भारतं 1947 तमे संवत्सरे स्वतन्त्रम् अभवत्। 

गान्धिनः सत्याग्रह-अहिंसाबलेन या स्वतन्त्रता अस्माभिः प्राप्ता, सा मानवेतिहासस्य अद्वितीया घटना वर्तते। राजनीतिक कार्येभ्यः अतिरिक्तम्, अस्पृश्यता निवारणाय, हरिजनोद्धाराय, शिक्षाप्रसाराय, खादीग्रामोद्योगप्रवर्तनाय, वैदेशिकवस्तु परित्यागाय, सामाजिक कुरीतीनां निवारणाय या क्रान्तिः गान्धिना विहिता, सा विश्वेतिहासस्य पृष्ठेषु स्वर्णाक्षरेषु लिखितास्ति। स्वल्प-कायोऽपि दिव्यशक्तिसम्पन्नः नूतनयुप्रवर्तकश्च गान्धी आसीत्। अस्मिन् भयावहे परमाणु-युगे अपि तस्य शिक्षाः सत्याहिंसा-सिद्धान्ताश्च मानवमात्रस्य कल्याणं विधातुं समर्थाः सन्ति। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

10. स्वामी विवेकानन्दः 

भारतभूमिः ऋषिमहर्षीणां सन्तमहात्मनां देशभक्तानां वीराणां कलाविदां विदुषां च जन्मस्थली अस्ति। अस्याम् एव पुण्यभूमौ स्वामी विवेकानन्दः जन्म अलभत। एषः महापुरुषः रामकृष्णपरमहंसस्य सुयोग्यः शिष्यः आसीत्। विवेकानन्दस्य गृहनाम नरेन्द्रनाथदत्तः आसीत्। अस्य जन्म 12 जनवरी 1863 ख्रीष्टाब्दे कलकत्तानगरे अभवत्। अस्य पिता श्रीविश्वनाथदत्त: पाश्चात्य-सभ्यतायाः पोषकः आसीत्। सः च स्वपुत्रं नरेन्द्रम् अपि तादृशः एव भवितुम् इच्छति स्म। नरेन्द्रः जन्मना एव परममेधावी प्रतिभासम्पन्नः तार्किकः च आसीत्। बाल्यकाले एव अस्य पिता परलोकं गतवान्। पितुः मृत्योः पश्चात् नरेन्द्रः रामकृष्णपरमहंस्य शिष्यतां प्राप्तवान्। सद्यः एव गुरुमुखात् वेदान्तशिक्षा प्राप्य सः संन्यासदीक्षां गृहीतवान्। संन्यासी भूत्वा च सः 'स्वामी विवेकानन्दः' इति नाम्ना प्रसिद्धः अभवत्। 

स्वामी विवेकानन्दः भारतीयसंस्कृतेः वेदान्तस्य च समर्थकः आसीत्। सः सम्पूर्णभारतदेशस्य पदयात्रां कृत्वा जनजागरणं कृतवान्। सः 1893 ख्रीष्टाब्दे अमेरिकादेशस्य शिकागो-नगरे विश्वधर्मपरिषद्-सम्मेलने भारतस्य प्रतिनिधित्वम् अकरोत्। तत्र सः ओजस्वि-भाषणम् अकरोत् स्ववक्तृतामाध्यमेन च सर्वान् मन्त्रामुग्धान् अकरोत्। स्वामी विवेकानन्दः वर्षत्रयं यावत् अमेरिकादेशे अवसत्, तत्र वेदान्तप्रचारं च अकरोत्। विवेकानन्दस्य दृढ़ विश्वासः आसीत्-"अध्यात्मविद्यां भारतीयदर्शनं च विना संसार: अनाथः इत्र अस्ति"। सः अमेरिकादेशात् भारतम् आगत्य रामकृष्णमिशनसंस्थायाः स्थापनाम् अकरोत्। 4 जुलाई 1902 ख्रीष्टाब्दे एषः सांस्कृतिक-गुरुः महासमाधौ लीनः अभवत्। 

11. मम प्रियः कविः (कालिदासः) 

संस्कृतसाहित्यस्य रचयितारः बहवः कवयः सन्ति। परं तेषु सर्वेषु कविषु कालिदासः मम प्रियः कविः अस्ति। एषः कविः न केवलं भारते एव प्रसिद्धः अस्ति, अपितु सर्वस्मिन् विश्व प्रसिद्धः अस्ति। आंग्लदेशवासिनः तु एनं भारतस्य शेक्सपीयर् इति कथयन्ति। जर्मनवासिनश्च कालिदासम् विश्वकविम् स्वीकुर्वन्ति। 

एषः कविः कदा कुत्र च अजायत एतत् सम्यक् न ज्ञायते। परम् एतत् श्रूयते, यदयं महाराजस्य विक्रमादित्यस्य नवरत्नेषु सवश्रेष्ठः आसीत्। अस्य महाकवेः विषये एका जनश्रुतिः श्रूयते। यदयं प्रारम्भे महामूर्खः आसीत्। तस्य विवाहः छलेन विदुष्या राजकन्यया सह अभवत्। पश्चात् अयं कालिंदेवीं ध्यात्वा अपठत् पण्डितश्च अभवत्। - कालिदासः संस्कृत-भाषायाः भारतस्य कवीनां च गौरवमस्ति। अस्य वैशिष्ट्यम्, व्यक्तित्वं कवित्वं च नाटकेषु गीतिकाव्येषु, महाकाव्येषु च प्रस्फुटितम्। मम प्रियकवेः कालिदासस्य चत्वारि काव्यानि, त्रीणि नाटकानि च उपलभन्ते। नाटकेषु अभिज्ञानशाकुन्तलं अस्य कवेः सर्वोत्तमं नाटकम् अस्ति। जर्मनकविः गेटेमहोदय:- अभिज्ञानशाकुन्तलं मुक्तकण्ठेन प्राशंसत। अस्य काव्येषु अलंकाराणाम् प्रयोगः बाहुल्येन दृश्यते। उपमालंकारः अस्य कवेः प्रियः अलंकारः वर्तते। अस्य विषये कथितमस्ति - 
"उपमा कालिदासस्य" 
कालिदासेन रचितानि काव्यानि, नाटकानि च पाठकानाम् चेतांसि हरन्ति, आनन्दयन्ति च। अत: संस्कृतसाहित्यस्य प्रसिद्धः अयं कविः मम प्रियः कविरस्ति। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

12. मम प्रियं पुस्तकम् (रामायणम्) 

संस्कृत - साहित्ये बहूनि पुस्तकानि सन्ति। परं तेषु सर्वेषु पुस्तकेषु 'रामायणम्' मम प्रियम् पुस्तकमस्ति। एकदा आदिकवि: वाल्मीकिः तमसा-नद्याम् स्नात्वा स्व-आश्रमम् आगच्छत्। सः मार्गे केनचित् व्याधेन क्रौञ्चयुगलात् एकम् पक्षिणम् बाणेन विद्धम् अपश्यत्। तदा तस्य आदिकवे: वाल्मीके: मुखात् अयं श्लोक: निस्सृतः 

मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्च-मिथुनाद् एकमवधी: काममोहितम्॥ 
अस्य श्लोकस्य निर्माणम् दृष्ट्वा कविः स्वयं चकितोऽभवत्। तदनन्तरं सः रामायणम् (रामचरितम्) लिखितवान्। तत् एव रामायणम् महाकाव्यम् मम प्रियं पुस्तकं वर्तते। 
इदं पुस्तकं संस्कृत-साहित्यस्य आदिकाव्यम् अस्ति। अस्य रचनाकालं पुरातत्व-गवेषकाः बौद्ध-कालादपि प्राचीनं मन्यन्ते। अस्य पुस्तकस्य कथानक: रामचरित्रम् अस्ति। 
अस्मिन् महाकाव्ये रघुवंशीयस्य रामस्य जन्मनः आरभ्य निर्वाण-पर्यन्तं सम्पूर्णकथा विद्यते। 
रामायणे अतीव सरलसंस्कृतस्य प्रयोगः अस्ति। यः श्रोतृणाम् मनांसि हरति। अलंकार-शैली अपि अतीव रमणीया अस्ति। 
भगवतः श्री रामस्य कथा अस्मान् सर्वान् शिक्षयति 
1. यत् जीवने रामादिवत् वर्तितम्बम्, रावणादिवत्। 
2. जीवने अन्यायस्य विरोध: कर्त्तव्यः। 
3. संसारे जनाः रामवत् पितृभक्ताः, लक्ष्मणवत् भ्रातृभक्ताः, हनुमतः तुल्यं च स्वामी-भक्ताः भवेयः। 
4. सर्वाः नार्यः सीत्सवत् पतिव्रताः धर्मपरायणाः भवन्तु। 
5. यथा रामेण स्वधर्म-रक्षणार्थं रावण-कुम्भकर्ण-मेघनादादीनां वधः कृतः पत्नीरक्षाव्रतं च पालितम्, तथैव अस्माभिः स्वधर्मरक्षायै, स्व-भार्या-रक्षायै च शत्रवः हन्तव्याः धर्मस्य च स्थापना कर्तव्या। 

वस्तुतः रामायणं न केवलं धार्मिकम् एव पुस्तकम्, अपितु भारतीय-सभ्यतयाः संस्कृतेश्च प्रतीकमपि अस्ति। अत एव रामायणस्य विषये संस्कृतस्य केनचित् कविना एतत् सत्यमेव लिखितमस्ति -

मर्यादां सभ्यतां लोके शिक्षयत् संस्कृति तथा। 
रामायणं महाकाव्यं शिवं सत्यं च सुन्दरम्॥ 

अथ च- 

यावत् स्थास्यन्ति गिरयः नधश्च महीलले। 
तावद् रामायणकथा लोकेषु प्रचलिष्यति। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

13. स्वच्छतायाः महत्त्वम् 

स्वच्छतायाः स्वास्थ्येन सह घनिष्ठः सम्बन्धः अस्ति-आरोग्यस्य मूलं स्वच्छता एव अस्ति। यत्र मलिनता राजते तत्र रोगाः अपि स्वयमेव आगच्छन्ति। स्वच्छतायाः क्षेत्रम् अतिविस्तृतम् अस्ति। सर्वप्रथमं शारीरिक-स्वच्छता अपेक्षिता भवति। प्रतिदिनं नियमपूर्वकं दन्तधावनम्, स्नानम्, स्वच्छवस्त्र-धारणम्, भोजनात, पूर्वं हस्तप्रक्षालनम् - इत्यादीनी शारीरिक-स्वच्छतायाः अङ्गानि सन्ति। स्वच्छतया मनुष्यः सुरूपः भवति, सर्वे तेन सह स्थातुम् आलपितुं व्यवहां च इच्छन्ति। दुर्गन्धियुक्तं मलिनमनुष्यं रोगकारणं मत्वा सर्वे तस्मात् दूरे एव तिष्ठन्ति। स्वच्छतया मानवतायाः विकासः भवति। यतः स्वच्छे सति कोऽपि जन: कमपि घृणां न करोति। माता अपि मलिनं शिशुं कष्टेन स्पृशति, अतएव तं सर्वथा स्वच्छं कर्तुं यत्नशीला दृश्यते। - स्वस्थ-शरीरे एव स्वस्थं मनः तिष्ठति। मलिनमनसि मलिनविचाराः एव उद्भवन्ति, मलिनविचारैः च मनुष्यः मलिनानि कर्माणि करोति। मलिनकर्माणं जनं च कोऽपि आदरेण न पश्यति। अतः सर्वेषाम् आदरपात्रं मानसिकरूपेण च स्वस्थः भवितुम् अपि शारीरिक-स्वच्छता आवश्यकी अस्ति।
 
शारीरिक-स्वच्छतायाः अनन्तरं स्थानिक स्वच्छता अपि ध्यातव्या। स्थानिक-स्वच्छतायां प्रतिदिनं गृहस्य स्वच्छता तु आवश्यकी अस्ति एव, गृहस्य निकटस्थ-मार्गाः अपि च स्वच्छाः भवितव्याः। मल-मूत्रादिकं शौचालयेषु एव कर्तव्यम्। यदि इतस्ततः अवकरा: विकरिताः भवन्ति तर्हि वसतिषु मशक-मक्षिकादयः कीटा: जायन्ते सम्पूर्ण वातावरणं च दुर्गन्धेन परिपूर्णं भवति। तेन च हैजा-मलेरिया-प्लेग-चेचक-प्रभृतयः संक्रामक रोगाः जायन्ते। केवलम् औषध-सेचनेन अथवा औषध-सेवनेन एव रोगाः विनष्टाः न भवन्ति अपितु रोगाणां मूलकारणस्य अस्वच्छतायाः निवारणम् अपि परमावश्यकम् अस्ति। 

अतः यदि वयम् इच्छामः यत् सर्वेषां प्रेमपात्राणि भवेम, आदरपात्राणि भवेम, शारीरिकरूपेण मानसिकरूपेण रोगरहिताः स्वस्था: च भवेम, कोऽपि अस्मान् घृणया न व्यवहरेत् तर्हि अद्य एव स्वच्छतायाः महत्त्वं जानन्तः सर्वविध-स्वच्छाः भवितुं प्रयत्नं कुर्वेम। 

14. महाविद्यालयस्य वार्षिकोत्सवः 

मम महाविद्यलये अनेके उत्सवाः भवन्ति, परं तेषु वार्षिकोत्सवः सर्वाधिक महत्त्वपूर्णः भवति। अयं पुरस्कारवितरणोत्सव: भवति। सम्पर्णवर्षस्य गतिविधिः अस्मिन उत्सवे प्रस्तयते। पठने, क्रीडने, भाषणे, सांस्कृतिक-कार्यकलापे ये विशिष्टाः छात्राः भवन्ति, ते अस्मिन्नेव दिने पुरस्कारं प्राप्नुवन्ति। 

वार्षिक उत्सवः परमानन्दायकः भवति। छात्राः महाविद्यालस्य वार्षिकोत्सवस्य उत्सुकतया प्रतीक्षां कुर्वन्ति। अस्मिन् शुभदिने छात्राः उज्वलानि वस्त्राणि धारयन्ति, प्रसन्नाश्च दृश्यन्ते। 

अस्मांक महाविद्यालस्य वार्षिकत्सवः प्रतिवर्षं मार्चमासे भवति। एक: विशिष्ट: महानुभावः अस्मिन् दिने आमन्त्र्यते। नगरस्य सुप्रतिष्ठिताः नागरिकाः अपि सम्मिलिताः भवन्ति। सम्पूर्णः मण्डपः सुसज्जितः भवति। विद्यार्थिषु अध्यापकेषु नवोत्साहः स्फूर्तिश्च भवति। अभ्यागतानां सम्मुखे विद्यालयस्य छात्रा: मनोञ्जकं कार्यक्रम प्रस्तुवन्ति। आचार्यः महाविद्यालयस्य वार्षिक प्रतिवेदनं (रिपोर्ट) पठति। मुख्यः अतिथि: सर्वमपि कार्यक्रमं दत्तावधानः पश्यति। मुख्यातिथि: विशिष्टेभ्यः छात्रेभ्यः अध्यापकेभ्यश्च पुरस्कारान् ददाति। 

अस्मिन् वर्षे अस्माकं महाविद्यालयस्य वार्षिकोत्सवे भारतस्य शिक्षामन्त्री आगच्छत्। तस्य अभिनन्दनम् अस्माकं छात्रा: स्वागत-गीतेन अकुर्वन्। जनैः तस्य सम्मान करतल-ध्वनिना कृतम्। सः स्व-अध्यक्षीयभाषणे महाविद्यालयस्य अनुशासनस्य महतीं प्रशंसाम् अकरोत्। शिक्षा-महत्त्व-विषये च सारगर्भितं भाषणम् अयच्छत्। सः प्रसन्नो भूत्वा महाविद्यालयस्य विकासाय राजकोषत: पंचाशत्सहस्राणि रुप्यकाणि अपि अददात्। अन्ते च आचार्यः सर्वेषां धन्यवादम् अकरोत्। 'जनगणमन' इति राष्ट्रीयगीतेन सह कार्यक्रमः समाप्तः अभवत्। सर्वे अभ्यागताः मुख्यातिथिना सह जलपानम् अकुर्वन्। एवं विद्यालयस्य वार्षिकोत्सवः निर्विघ्नं सम्पन्नः अभवत्। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

15. गणतन्त्र-दिवसः 

गणतन्त्र दिवस: भारतदेशस्य राष्ट्रीय पर्व अस्ति। एतत् पर्व प्रतिवर्ष जनवरीमासस्य 26 तारिकायां सोत्साहं मान्यते। 26 जनवरी 1950 ख्रीष्टाब्द: भारतीय इतिहासे सर्वाधिक महत्त्वपूर्ण दिनम् अस्ति। अस्मिन् दिवसे स्वतन्त्र-भारतस्य प्रथम संविधानं प्रभावितम् अभवत्। अस्मिन् दिने एव भारतम् संप्रभुता-सम्पन्न-रज्यरूपेण प्रतिष्ठितम् अभवत्। ततः आरभ्य अस्मिन् एव उपलक्ष्ये प्रतिवर्षं सम्पूर्ण-भारतदेशे राष्ट्रियः अवकाशः भवति गणतन्त्रदिवसः च मान्यते। विद्यालयेषु महाविद्यालयेषु च प्रतियोगिताः समायोज्यन्ते। आधिकारिकरूपेण प्रतिनगरम् ध्वजारोहणं गणतन्त्रदिवस-समारोहा: च समायोजिताः भवन्ति। समारोहेषु भारतस्य स्वतन्त्रतायै सुरक्षायै च बलिदानिनां वीराणां श्रद्धापूर्वकं स्मरणं क्रियते। 

अस्मिन् दिवसे भारत-देशस्य राजधान्यां रक्तदुर्गे गणतन्त्रदिवस-समारोहः भव्यरूपेरण समायोज्यते। राष्ट्रपतिः रक्तदुर्गात् राष्ट्राय सन्देशं ददाति। विभिन्नराज्यानां सांस्कृतिकं प्रदर्शन भवति। थलसेना-नौसेना-वायुसेनानां च भव्यगणवेषे शौर्य प्रदर्शनं भवति। युद्धेषु असाधारणसाहसाय वीरतायै च सैनिकेभ्यः पदकानि पुरस्काराणि च प्रदीयन्ते। विविधक्षेत्रेषु विशिष्ट योगदानाय कलाकारेभ्य: नागरिकेभ्यः अपि पदकानि पुरस्काराणि च प्रदीयन्ते। अद्भुत-साहस-प्रदर्शनाय प्रत्येकं राज्यस्य बालक-बालिकाः पुरस्कृताः भवन्ति। सम्पूर्णदृश्यस्य प्रदर्शनस्य च प्रसारणं आकाशवाण्या दूरदर्शनेन च भवति। लक्षाधिकाः जनाः सम्पूर्णदृश्यस्य प्रदर्शनस्य च साक्षात् अवलोकनाय रक्तदुर्गं गच्छन्ति। अस्मिन् दिवसे सम्पूर्णदशस्य वातावरणम् अतीव उत्साहपूर्णं भवति। 

RBSE Class 12 Sanskrit रचना निबंध-लेखनम्

16. यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवताः 

अद्यत्वे नारीणां दशा शोभना न वर्तते। तासाम् उपरि अनवरतं क्रियमाणैः अत्याचारैः समाचारपत्रपृष्ठानि प्रतिदिनं रञ्जितानि वर्तन्ते। तासाम् आदरः न क्रियते, अवहेलना क्रियते। कारणमस्ति यत् सर्वत्र राक्षसाः एव वसन्ति, न देवाः। देवाः तु नारीः पूजयन्ति आनन्देन वसन्ति च। कुत्र वसतिः आर्याणां कुत्र च अनार्याणां वसतिः अस्ति इत्यस्य निकषः तत्रत्यानां नारीणां दशा एव अस्ति। यत्र ताः पत्युः परिवारस्य च आदरं लभमाना आनन्दम् अनुभवन्ति तत्र वास: देवतानाम्, यत्र च वैपरीत्यं तत्र दैत्यानां वासः इति स्पष्टम्। 

नारी शरीरेण कोमला, स्वभावेन उदारा चरित्रेण च पुरुषापेक्षया अत्युदात्ता भवति। तस्याः सर्वं दिनं परिवारचिन्तया सेवया, शुश्रूषया च व्यत्येति। सा स्वयं क्षुधां पिपासां च सोवा सर्वेषां क्षुधां पिपासां च शमयितुं यतते। परन्तु सा एतस्य प्रतिकारे सर्वस्य उपेक्षायाः एव पात्रं भवति। सभ्यसमाजे नारीणां दशा एतादृशी न भवति। सा तत्र साम्राज्ञी इव तिष्ठति। 'न गृहं, गृहमित्याहुः गृहिणी गृहमित्युच्यते' इत्यस्य भावः नार्याः गृहे उच्चस्थितिः स्यादिति। 

विद्वांसो हि देवाः। पुरुषाः विद्वांसः तदैव भवितुम् अर्हन्ति यदा तेषां माता, गृहिणी विदुषी च स्याताम्। विद्वांसः एव जानन्ति यत्कुले नार्याः प्रतिष्ठा अत्यपेक्षिता अस्ति। अतः मनुना सत्यमेव उक्तम् -
"यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः"। 

Prasanna
Last Updated on Dec. 27, 2023, 9:57 a.m.
Published Dec. 26, 2023