Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् संकेताधारितम् वार्तालाप लेखनम् Questions and Answers, Notes Pdf.
RBSE Class 10 Sanskrit रचनात्मक कार्यम् संकेताधारितम् वार्तालाप लेखनम्
संकेताधारित वार्तालाप-लेखन में किसी भी एक छोटे से विषय या बिन्दु को लेकर आपस में वार्तालाप किया जाता है। इसका उद्देश्य सम्भाषण कला के माध्यम से छात्रों में संस्कृत-भाषा की दक्षता एवं दैनिक व्यवहार में संस्कृत का प्रयोग करने की निपणता को उत्पन्न करना है। इसके लिए दी गई मञ्जूषा के शब्दों को ध्यानपूर्वक पढ़कर उनमें से उचित शब्द का चयन करके एवं उनसे रिक्त सम्पूर्ण वार्तालाप पुनः उत्तरपुस्तिका में लिखना चाहिए। साथ ही मञ्जूषा से शब्दों के चयन के समय कर्ता-क्रिया, संज्ञा-सर्वनाम तथा विशेषण-विशेष्यों के समुचित समन्वय का ध्यान अवश्य रखना चाहिए।
वार्तालाप मुख्यतः दो प्रकार के होते हैं-प्रश्नात्मक वार्तालाप और आदेशात्मक वार्तालाप। वार्तालाप में उत्तर सदैव ही प्रश्नानुसार होने चाहिए। जिस शैली और वाच्य में प्रश्न पूछा गया हो, उसी शैली और वाच्य में उत्तर दिया जाना चाहिए। यहाँ कुछ महत्त्वपूर्ण संकेताधारित वार्तालाप अभ्यासार्थ दिए जा रहे हैं, इनका ध्यानपूर्वक अध्ययन करके वार्तालाप लिखने का अभ्यास करना चाहिए।
संकेताधारित वार्तालापलेखन :
प्रश्न 1.
मञ्जूषातः उपयुक्तपदानि गृहीत्वा पुत्रस्य अध्ययनविषये पितापुत्रयोः वार्तालापं पूरयतु -
[अध्यापकः, विषये, गणिते, व्यवस्था, स्थानान्तरणम्, अध्ययनं, समीचीनं, काठिन्यम्]
- पिता - रमेश! तव ................ कथं प्रचलति?
- रमेशः - हे पितः! अध्ययनं तु ................. प्रचलति।
- पिता - कोऽपि विषयः एतादृशः अस्ति यस्मिन् त्वं ................. अनुभवसिं?
- रमेशः - आम्! ............... मम स्थितिः सम्यक् नास्ति। यतोहि अस्माकं विद्यालये इदानीं गणितस्य ............... नास्ति।
- पिता - त्वं पूर्वं तु माम अस्मिन् .............. न उक्तवान्!
- रमेशः - पूर्वं तु अध्यापक-महोदयः आसीत् परं एकमासात् पूर्वमेव तस्य ............. अन्यत्र अभवत्।
- पिता - अस्तु। अहं तव कृते गृहे एव गणिताध्यापकस्य ............... करिष्यामि।
- रमेशः - धन्यवादाः।
उत्तरम् :
- पिता - रमेश! तव अध्ययनं कथं प्रचलति?
- रमेशः - हे पितः! अध्ययनं तु समीचीनं प्रचलति।
- पिता - कोऽपि विषयः एतादृशः अस्ति यस्मिन् त्वं काठिन्यम् अनुभवसि?
- रमेशः - आम्! गणिते मम स्थितिः सम्यक् नास्ति। यतोहि अस्माकं विद्यालये इदानीं गणितस्य अध्यापकः नास्ति।
- पिता - त्वं पूर्वं तु माम् अस्मिन् विषये न उक्तवान् !
- रमेशः - पूर्वं तु अध्यापक-महोदयः आसीत् परं एकमासात् पूर्वमेव तस्य स्थानान्तरणम् अन्यत्र अभवत्।
- पिता - अस्तु। अहं तव कृते गृहे एव गणिताध्यापकस्य व्यवस्थां करिष्यामि।
- रमेशः - धन्यवादाः।
प्रश्न 2.
मञ्जूषायां प्रदत्तपदैः ‘जयपुरभ्रमणम्' इति विषये मित्रयोः परस्परं वार्तालापं पूरयतु
[मित्रैः, जयपुरं, कार्यक्रमः, दर्शनीयम्, भ्रमणार्थम्, यात्रानुभवविषये, द्रक्ष्यामः]
- विनोदः - अंकित ! श्वः भवान् कुत्र गमिष्यति?
- अंकितः - अहं ................ गमिष्यामि।
- विनोदः - तत्र किमपि कार्यं वर्तते? अथवा............... एव गच्छति?
- अंकितः - कार्यं नास्ति, अहं तु ................ सह भ्रमणार्थं गच्छामि।
- विनोदः - जयपुरे कुत्र-कुत्र भ्रमणस्य ................. अस्ति?
- अंकितः - वयं तत्र आमेर-दुर्गं, जयगढ़दुर्गं, गोविन्ददेव-मन्दिरं च ..........।
- विनोदः - तत्र नाहरगढ़-दुर्गमपि पश्यतु। तदपि ................... अस्ति।
- अंकितः - यदि समयः अवशिष्टः भविष्यति तर्हि निश्चयेन तत्र गमिष्यामः।
- विनोदः - बाढ़म्। मित्र! नमस्ते! इदानीम् अहं गच्छामि। सोमवासरे आवां पुनः मिलिष्यावः। तदा ............ वार्तालापं करिष्यावः।
उत्तरम् :
- विनोदः - अंकित! श्वः भवान् कुत्र गमिष्यति?
- अंकितः - अहं जयपुरं गमिष्यामि।
- विनोदः - तत्र किमपि कार्यं वर्तते? अथवा भ्रमणार्थम् एव गच्छति?
- अंकितः - कार्यं नास्ति, अहं तु मित्रैः सह भ्रमणार्थं गच्छामि।
- विनोदः - जयपुरे कुत्र-कुत्र भ्रमणस्य कार्यक्रमः अस्ति?
- अंकितः - वयं तत्र आमेर-दुर्ग, जयगढ़दुर्गं, गोविन्ददेव-मन्दिरं च द्रक्ष्यामः।
- विनोदः - तत्र नाहरगढ़-दुर्गमपि पश्यतु। तदपि दर्शनीयम् अस्ति।
- अंकितः – यदि समयः अवशिष्टः भविष्यति तर्हि निश्चयेन तत्र गमिष्यामः।
- विनोदः - बाढ़म्। मित्र! नमस्ते! इदानीम् अहं गच्छामि। सोमवासरे आवां पुनः मिलिष्यावः। तदा यात्रानुभवविषये वार्तालापं करिष्यावः।
प्रश्न 3.
मञ्जूषायाः उपयुक्तपदानि गृहीत्वा गुरुशिष्ययोः मध्ये क्रीडायाः विषये. वार्तालापं पूरयत
[अध्ययनम्, क्रीडने, बहुलाभम्, आवश्यकता, अधुना, करोषि, क्रीडाङ्गणे, क्रीडायै]
- अध्यापकः - प्रवीण! त्वम् अत्र किं ..................?
- प्रवीणः - हे गुरो! अहम् .................. किमपि न करोमि।
- अध्यापकः - तर्हि गच्छ। तव मित्राणि तत्र .................. क्रीडन्ति, तैः सह क्रीड।
- प्रवीणः - मम .................. रुचि: नास्ति। अतः अहं न क्रीडामि।
- अध्यापकः - स्वस्थशरीरस्य स्वस्थमनसः च कृते क्रीडायाः अस्माकं जीवने महती .................. भवति।
- प्रवीणः - यदि अहं क्रीडायां ध्यानं दास्यामि तर्हि मम .................. बाधितं भविष्यति।
- अध्यापकः - एतद् समीचीनं नास्ति। क्रीडायै स्वलपसमयम् एव प्रयच्छ। अल्पसमयः अपि शरीराय ............ प्रदास्यति।
- प्रवीणः - बाढ़म् श्रीमन् ! इतः आरभ्य अहं कञ्चित् समयं ............. अपि दास्यामि।
उत्तरम् :
- अध्यापकः - प्रवीण! त्वम् अत्र किं करोषि?।
- प्रवीणः - हे गुरो! अहम् अधुना किमपि न करोमि।
- अध्यापक: - तर्हि गच्छ। तव मित्राणि तत्र क्रीडाङ्गणे क्रीडन्ति, तैः सह क्रीड।
- प्रवीणः - मम क्रीडायै रुचिः नास्ति। अतः अहं न क्रीडामि।
- अध्यापकः - स्वस्थशरीरस्य स्वस्थमनसः च कृते क्रीडायाः अस्माकं जीवने महती आवश्यकता भवति।
- प्रवीणः - यदि अहं क्रीडायां ध्यानं दास्यामि तर्हि मम अध्ययनं बाधितं भविष्यति।
- अध्यापकः - एतद् समीचीनं नास्ति। क्रीडायै स्वल्पसमयम् एव प्रयच्छ। अल्पसमयः अपि शरीराय बहुलाभं प्रदास्यति।
- प्रवीणः - बाढ़म् श्रीमन् ! इतः आरभ्य अहं कञ्चित् समयं क्रीडने अपि दास्यामि।
प्रश्न 4.
मञ्जूषायां प्रदत्तशब्दानां सहायतया मातापुत्रयोः मध्ये वार्तालापं पूरयतु
[वस्तूनि, आपणं, सायंकाले, विद्यालयस्य, मातुलः, भोजनं, त्वं।]
- माता - राघव! .................. किं करोषि?
- राघवः - अहं मम .................. गृहकार्यं करोमि।
- माता - पुत्र! गृहकार्यानन्तरम् .................. गत्वा ततः दुग्धं शाकफलानि च आनय।
- राघवः - अहं ................. पुस्तकं क्रेतुम् आपणं गमिष्यामि तदा दुग्धं शाकफलानि च आनेष्यामि।
- माता - सायंकाले न, त्वं तु पूर्वमेव गत्वा आनय।
- राघवः - शीघ्रं किमर्थम्?
- माता - अद्य तव ............... आगमिष्यति, अतः .................. समयात् पूर्वमेव पक्ष्यामि।
- राघवः - मातुलः आगमिष्यति चेत् अहम् इदानीम् एव गत्वा ................. क्रीत्वा आगच्छामि।
उत्तरम् :
- माता - राघव! त्वं किं करोषि?
- राघवः - अहं मम विद्यालयस्य गृहकार्यं करोमि।
- माता - पत्र! गहकार्यानन्तरम आपणं गत्वा ततः दग्धं शाकफलानि च आनय।
- राघवः - अहं सायंकाले पुस्तकं क्रेतुम् आपणं गमिष्यामि तदा दुग्धं शाकफलानि च आनेष्यामि।
- माता - सायंकाले न, त्वं तु पूर्वमेव गत्वा आनय।
- राघवः - शीघ्रं किमर्थम्?
- माता - अद्य तव मातुल: आगमिष्यति, अतः भोजनं समयात् पूर्वमेव पक्ष्यामि।
- राघवः - मातुलः आगमिष्यति चेत् अहम् इदानीम् एव गत्वा वस्तूनि क्रीत्वा आगच्छामि।
प्रश्न 5.
मञ्जूषायाः उचितपदैः ‘ग्रीष्मावकाश' इति विषये वार्तालापं पूरयत
[गतमासे, मया, तत्र, अतिरमणीयः, त्वं, अपश्यः, अगच्छम्, कदा]
- विजयः - अजय! ग्रीष्मावकाशे ............ कुत्र अगच्छः?
- अजयः - विजय! अहं ग्रीष्मावकाशे अरुणाचलप्रदेशम् .........
- विजयः - अहो .................. सः प्रदेशः।
- अजयः - आम्, ................ याकपशुम् अपश्यम्।
- विजयः - किं त्वं गोम्पामन्दिरं न ............. ?
- अजयः - ........... सह मम जननी जनकः च आस्ताम्। वयं सर्वे गोम्पामन्दिरम् अगच्छाम?
- विजयः - यूयं ............ ततः आगच्छत?
- अजयः - वयं .............. एव आगच्छाम।
उत्तरम् :
- विजयः - अजय! ग्रीष्मावकाशे त्वं कत्र अगच्छः? .
- अजयः - विजय! अहं ग्रीष्मावकाशे अरुणाचलप्रदेशम् अगच्छम्।
- विजयः - अहो अतिरमणीयः सः प्रदेशः।
- अजयः - आम्, तत्र याकपशुम् अपश्यम्।
- विजयः - किं त्वं गोम्पामन्दिरं न अपश्यः?
- अजयः - मया सह मम जननी जनकः च आस्ताम्। वयं सर्वे गोम्पामन्दिरम अगच्छाम।
- विजयः - यूयं कदा ततः आगच्छत?
- अजयः - वयं गतमासे एव आगच्छाम।
प्रश्न 6.
मञ्जूषायाः उचितपदैः 'वसतिस्वच्छता' इतिविषये वार्तालापं पूरयत।
[नालीनां, सुन्दरं, स्वच्छता, कदा, श्वः, वामतः, आरभ्य, त्वं]
- महेशः - निरञ्जन! (i) .............. रविवासरः, तव का योजना वर्तते ?
- निरञ्जन: - अरे (ii) ............ न जानासि? रविवासरे सर्वे मिलित्वा वसतेः स्वच्छता करणीयास्ति।
- महेशः - अहो! उत्तमः विचारः। सर्वेः श्वः (iii) .......... गम्यते ?
- निरञ्जनः - प्रातः अष्टवादनाद् (iv) .......... कार्यमिदं भविष्यति।
- महेशः - पूर्वं कस्य भागस्य (v) ........... करिष्यते ?
- निरञ्जन: - (vi) ............. विद्यामानस्य अधस्य उधानस्य आदौ करिष्यामः।
- महेशः - तेन तद् रमणीयं (vii) ......... च भविष्यति।
- निरञ्जनः - (viii) ............ स्वच्छता योजनायां स्वीकृता एव।
उत्तरम् :
- महेशः - निरञ्जन! श्वः रविवासरः, तव का योजना वर्तते?
- निरञ्जन: - अरे त्वं न जानासि? रविवासरे सर्वे मिलित्वा वसतेः स्वच्छता करणीयास्ति।
- महेशः - अहो! उत्तमः विचारः। सर्वेः श्वः कदा गम्यते?
- निरञ्जनः - प्रातः अष्टवादनाद् आरभ्य कार्यमिदं भविष्यति।
- महेशः - पूर्वं कस्य भागस्य स्वच्छता करिष्यते?
- निरञ्जनः - वामतः विद्यामानस्य अद्यस्य उद्यानस्य आदौ करिष्यामः।
- महेशः - तेन तद् रमणीयं सुन्दरं च भविष्यति।
- निरञ्जन: - नालीनां स्वच्छता योजनायां स्वीकता एव।
प्रश्न 7.
मञ्जूषायाः उपयुक्तपदानि गृहीत्वा 'चिकित्सालय-दर्शनम्' इति विषये वार्तालापं पूरयत
[तत्, त्वम्, पीडितः, कुत्र, उपचारम्, के, अस्ति, चिकित्सालयभवनम्]
- पुनीतः - सुरेश! त्वं ................... गच्छसि?
- सुरेशः - पुनीत! ................... अपि आगच्छ ?
- पुनीत: - अरे! ................... किं भवनम् अस्ति?
- सुरेशः - तत् ................... अस्ति। आवाम् अपि मातुलं द्रष्टुं चलावः।
- पुनीतः - सः केन रोगेण ................... अस्ति? सुरेशः सः उच्चरक्तचापेन पीडितः ...................।
- पुनीत: - ते श्वेतप्रावारकधारकाः ................... सन्ति? ते किं कुर्वन्ति?
- सुरेशः - ते चिकित्सकाः सन्ति। ते ................... कुर्वन्ति।
उत्तरम् :
- पुनीतः - सुरेश! त्वं कुत्र गच्छसि?
- सुरेशः - पुनीत! त्वम् अपि आगच्छ।
- पुनीतः - अरे! तत् किं भवनम् अस्ति?
- सुरेशः - तत् चिकित्सालयभवनम् अस्ति। आवाम् अपि मातुलं द्रष्टुं चलावः।
- पुनीतः - सः केन रोगेण पीडितः अस्ति?
- सुरेशः - सः उक्तरक्तचापेन पीडितः अस्ति।
- पुनीतः - ते श्वेतप्रावारकधारकाः के सन्ति? ते किं कुर्वन्ति?
- सुरेशः - ते चिकित्सकाः सन्ति। ते उपचारं कुर्वन्ति।
प्रश्न 8.
मञ्जूषायाः उपयुक्तपदानि गृहीत्वा पितापुत्रयोः मध्ये योगदिवसविषये वार्तालापं पूरयतु -
[कुर्वन्ति, आगच्छ, जूनमासस्य, कार्यक्रमाः, शक्नोमि, अस्माकम्, योगदिवसे, अन्तराष्ट्रिययोगदिवसः]
- पुत्रः - भोः पितः! ................... 29 दिनांके कः दिवसः भवति?
- पिता - अरे! तस्मिन् दिने तु ................... भवति।
- पुत्र: - योगदिवसे के ................... भवन्ति?
- पिता - ................... विश्वेजनाः प्रणायाम व्यायामं च कुर्वन्ति।
- पुत्र: - योगेन ................... स्वास्थ्यं सम्यक् भवति वा?
- पिता - आम्। ये योगं ................... ते रुग्णाः न भवन्ति।
- पुत्रः - तर्हि अहम् अपि योगं कर्तुं ................... वा?
- पिता - किमर्थं न, ................... आवां योगं करवाव।
उत्तरम् :
- पुत्र: - भोः पितः! जूनमासस्य 29 दिनांके कः दिवसः भवति?
- पिता - अरे! तस्मिन् दिने तु अन्ताराष्ट्रिययोगदिवसः भवति।
- पुत्रः - योगदिवसे के कार्यक्रमाः भवन्ति?
- पिता - योगदिवसे विश्वेजनाः प्रणायामं व्यायामं च कर्वन्ति।
- पुत्र: - योगेन अस्माकं स्वास्थ्यं सम्यक् भवति वा?
- पिता - आम्। ये योगं कुर्वन्ति ते रुग्णाः न भवन्ति।
- पुत्रः - तर्हि अहम् अपि योगं कर्तुं शक्नोमि वा?
- पिता - किमर्थं न, आगच्छ आवां योगं करवाव।
प्रश्न 9.
मञ्जूषातः उचितानि पदानि चित्वा पिता-पुत्रयोः सम्भाषणं लिखत
[आपणम्, शीघ्रम्, पुस्तकम्, फलानि, करोषि, शतम्, स्यूतम्, आगच्छामि]
- पिता - पुत्र! किं...................त्वम् ?
- पुत्रः - ...................पठामि, पितः।
- पिता - पुत्र!...................गत्वा आगच्छसि किम् ?
- पुत्रः - पितः!..................लिखित्वा गच्छामि।
- पिता - आपणतः...................आनय।
- पुत्रः ...................रूप्यकाणि यच्छतु।
- पिता - ..................नीत्वा आपणं गच्छ।
- पुत्रः - अहं गत्वा शीघ्रम्..................।
उत्तरम् :
- पिता - पुत्र! किं करोषि त्वम् ?
- पुत्रः - पुस्तकं पठामि, पितः।
- पिता - पुत्र! आपणं गत्वा आगच्छसि किम्?
- पुत्रः - पितः! शीघ्नं लिखित्वा गच्छामि।
- पिता - आपणतः फलानि आनय।
- पुत्रः - शतम् रूप्यकाणि यच्छतु।
- पिता - स्यूतम् नीत्वा आपणं गच्छ।
- पुत्रः - अहं गत्वा शीघ्रम् आगच्छामि।
प्रश्न 10.
मञ्जूषातः उचितानि पदानि चित्वा द्वयोः सख्योः वार्तालापं पूरयत
[स्थानान्तरणवशात, कक्षायाम्, तव, विद्यालयात्, वससि, आगता, अहं, नवमकक्षा]
- मेघा - स्वागतं ते अंस्यां ...................।
- सुधा - धन्यवादाः।
- मेघा - प्रियसखि! किं..................नाम?
- सुधा - मम नाम सुधा अस्ति।
- मेघा - सुधे! कस्मात्...................आगता असि?
- सुधा - अहं जयपुर नगरस्य केन्द्रीय विद्यालयात् आगता अस्मि।
- मेघा - अहमपि...............पर्यन्तं तत्रैव अपठम्। पितुः .............अत्र आगता। सुधा अहमपि अनेनैव कारणेन अत्र..............।
- मेघा - अधुना त्वं कुत्र..................?
- सुधा - अधुना...............जवाहरनगरे वसामि।
उत्तरम् :
- मेघा - स्वागतं ते अस्यां कक्षायाम्।
- सुधा - धन्यवादाः।
- मेघा - प्रियसखि! किं तव नाम?
- सुधा - मम नाम सुधा अस्ति।
- मेघा - .सधे! कस्मात विद्यालयात आगता असि?
- सुधा - अहं जयपुर नगरस्य केन्द्रीय विद्यालयात् आगता अस्मि।
- मेघा - अहमपि नवमकक्षा पर्यन्तं तत्रैव अपठम्। पितुः स्थानान्तरणवशात् अत्र आगता।
- सुधा - अहमपि अनेनैव कारणेन अत्र आगता।
- मेंघा - अधुना त्वं कुत्र वससि?
- सुधाः - अधुना अहं जवाहरनगरे वसामि।
प्रश्न 11.
मञ्जूषातः उचितानि पदानि गृहीत्वा 'धूम्रपान-निवारणाय' इति विषये गुरुशिष्ययोः वार्तालापं पूरयत -
[गन्तुम्, अस्य, तुभ्यं, धूम्रपानं, स्वास्थ्य, प्रेरणीयाः, मया, दुर्व्यसनस्य]
- सोहनः - गुरुवर! अहं पश्यामि विद्यालये केचन छात्रा ................ कुर्वन्ति।
- गुरुः - वत्स! धूम्रपानं ................... विनाशकमस्ति।
- सोहनः - गुरुवर! कोऽस्य .................. निवारणोपायः?
- गुरुः - पुत्र! जन-जागर्तिरेव ................... दुर्व्यसनस्य निवारणोपायः।
- सोहनः - गुरुवर! ................... किं करणीयम् ?
- गुरुः - ......... यत् अस्माभिः धूम्रपानं न करणीयम्।
- सोहनः - गुरुवर! एवमेव करोमि। अधुना अहं .............. इच्छामि।
- गुरुः - वत्स! महत्त्वपूर्ण विषयोपरि वार्ता कर्तुं .............. धन्यवादं ददामि।
उत्तरम् :
- सोहनः - गुरुवर! अहं पश्यामि विद्यालये केचन छात्रा धूम्रपानं कुर्वन्ति।
- गुरुः - वत्स! धूम्रपानं स्वास्थ्य-विनाशकमस्ति।
- सोहनः - गुरुवर! कोऽस्य दुर्व्यसनस्य निवारणोपायः?
- गुरुः - पुत्र! जन-जागर्तिरेव अस्य दुर्व्यसनस्य निवारणोपायः।
- सोहनः - गुरुवर! मया किं करणीयम् ?
- गुरुः - त्वया छात्राः प्रेरणीयाः यत् अस्माभिः धूम्रपान न करणीयम्।
- सोहनः - गुरुवर! एवमेव करोमि। अधुना अहं गन्तुम् इच्छामि।
- गुरुः - वत्स! महत्त्वपूर्ण विषयोपरि वार्ता कर्तुं तुभ्यं धन्यवादं ददामि।
प्रश्न 12.
मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं 'शिक्षक-छात्राः तयोमध्ये वार्तालापं' पूरयत
[वयम्, वाद्ययन्त्राणि, शोभनम्, परन्तु, गातुम्, महोदये, इच्छन्ति, गायामः]
- शिक्षकः - छात्राः! किं भवन्तः किञ्चित् प्रष्टुम् (i) ..................?
- छात्राः - महोदये! (ii)................... तु गातुम् इच्छाम।
- शिक्षकः - गातुम् इच्छन्ति (iii) .................. अहं तु (iv) .................. न समर्था।
- छात्राः - (v)................... वयं गास्यामः।
- शिक्षकः - (vi) ................... अहम् अपि गास्यामि।
- छात्राः - (vii) .................. यदि सन्ति, शोभनम्।
- शिक्षकः - एवम् तदा (viii) .................. वयं।
उत्तरम् :
- शिक्षकः - छात्राः! किं भवन्तः किञ्चित् प्रष्टुम् इच्छन्ति?
- छात्राः - महोदये ! वयं तु गातुम् इच्छाम।
- शिक्षकः - गातुम् इच्छन्ति परन्तु अहं तु गातुं न समर्था।
- छात्राः - महोदये! वयं गास्यामः।
- शिक्षकः - शोभनम्, अहम् अपि गास्यामि।
- छात्राः - वाद्ययन्त्राणि यदि सन्ति, शोभनम्।
- शिक्षकः - एवम् तदा गायामः वयं।
प्रश्न 13.
मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं 'मातापुत्रयोः वार्तालापं' पूरयत
[धनं, शर्करां, पीत्वा, अम्ब, द्विदलंच, करोषि, दुग्धं, आनयामि]
- माता - कनकः! किं.............. त्वम?
- कनकः - पाठं पठामि .......... !
- माता - दुग्धं पीतवान् ?
- कनकः ..............नैव पीतम्।
- माता - तर्हि दुग्धं............आपणं गच्छसि किम्?
- कनकः - अम्ब! किम्........ततः?
- माता - वत्स! आपणं गत्वा लवणं,......... तण्डुलान्, गुड, आनय।
- कनकः - तर्हि शीघ्रं......... स्यूतं च ददातु अम्ब!
उत्तरम् :
- माता - कनकः! किं करोषि त्वम् ?
- कनकः - पाठं पठामि अम्ब!
- माता - दुग्धं पीतवान्?
- कनकः - दुग्धं नैव पीतम्।
- माता - तर्हि दुग्धं पीत्वा आपणं गच्छसि किम्?
- कनकः - अम्ब! किम् आनयामि ततः?
- माता - वत्स! आपणं गत्वा लवणं, शर्करां, तण्डुलान्, गुडं, द्विदलं च आनय।
- कंनकः - तर्हि शीघ्रं धनं स्यूतं च ददातु अम्ब!
प्रश्न 14.
मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं 'विद्यालयस्य वार्षिकोत्सवः' इति वार्तालापं पूरयत -
[सज्जी, स्थानीयः, सभागृहस्य, सिद्धता, आनेष्यति, मालार्पणम्, स्वयमेव, स्यात्।]
- आचार्यः - श्वः 'कौमुदीमहोत्सवः' इति नाम्ना वार्षिकोत्सवः भविष्यति खलु। तन्निमित्तं (i) .........।
- जाता किम्? भवान् वदतु सुरेश! कः कः किं किं करिष्यति इति?
- सुरेशः - अशोकः, कमलेशः, महेशः च (ii) ......... अलङ्कारं करिष्यन्ति। इन्द्रेशः आत्मारामः च उपवेशनव्यवस्थां द्रक्ष्यतः।
- आचार्यः - पूजनसामग्री के (iii) ............ करिष्यन्ति?
- रमेशः - कमलेशः इत्यादयः करिष्यन्ति।
- आचार्यः - मुख्यातिथिं कः (iv) ............. ?
- सुरेशः - मुख्यातिथिम् अहमेव आनेष्यामि।
- आचार्यः - अध्यक्षमहोदयः (v) .............. आगमिष्यति उत् कोऽपि तम् आनेष्यति?
- सुरेशः - अध्यक्षमहोदयः (vi) ............ अस्ति, अतः स्वयमेव आगमिष्यति।
- आचार्यः - मालार्पणम् कः करिष्यति?
- सुरेशः - (vii) ........ भवान् एव करिष्यति।
- आचार्यः - श्वः कार्यक्रमः व्यवस्थितं यथा (viii) .......... तथा त्वं परिशीलयिष्यसि ननु?
उत्तरम् :
आचार्यः - श्वः 'कौमुदीमहोत्सवः' इति नाम्ना वार्षिकोत्सवः भविष्यति खलु। तन्निमित्तं सिद्धता जाता किम्? भवान् वदतु सुरेश! कः कः किं किं करिष्यति इति?
- सुरेशः - अशोकः, कमलेशः, महेशः च सभागृहस्य अलङ्कारं करिष्यन्ति। इन्द्रेशः आत्मारामः च उपवेशनव्यवस्थां द्रक्ष्यतः।
- आचार्यः - पूजनसामग्री के सज्जी करिष्यन्ति?
- रमेशः - कमलेशः इत्यादयः करिष्यन्ति।
- आचार्यः - मुख्यातिथिं कः आनेष्यति?
- सुरेशः - मुख्यातिथिम् अहमेव आनेष्यामि।
- आचार्यः - अध्यक्षमहोदयः स्वयमेव आगमिष्यति उत् कोऽपि तम् आनेष्यति?
- सुरेशः - अध्यक्षमहोदयः स्थानीयः अस्ति, अतः स्वयमेव आगमिष्यति।
- आचार्यः - मालार्पणम् कः करिष्यति?
- सुरेशः - मालार्पणम् भवान् एव करिष्यति।
- आचार्यः - श्वः कार्यक्रमः व्यवस्थितं यथा स्यात् तथा त्वं परिशीलयिष्यसि ननु?
प्रश्न 15.
'माता-पुत्रयोः वार्तालाप:'
- 'माता' - पुत्रयोः वार्तालाप:'
- माता - अंकुर! किं करोषि त्वम?
- अंकुरः - पाठं (i) ......... अम्ब!
- माता - दुग्धं पीतवान्?
- अंकुरः - नैव अम्ब! तत्रैव अस्ति (ii) ....... । माता
- माता - तर्हि दुग्धं पीत्वा (iii) .......... गच्छसि किम्?
- अंकुरः अम्ब! शीघ्रं गच्छामि। किम् आनयामि ततः?
- माता - वत्स! आपणं गत्वा (iv) ......., शर्करां, तण्डुलान्, गुडं, द्विदलञ्च आनय।
- अंकुरः - रक्षितां (v) .......... अम्ब!
- माता - सा किं करोति? माता सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति। द्रोण्यां (vi) .......... पूरयति। एवं तस्याः (vii)
- अंकुरः - ........... कार्याणि सन्ति भोः।
- माता - ममापि पठनं बह (viii) ........ ।
- माता - दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छ।
[वदतु, लवणं, जलं, दुग्धम्, पठामि, आपणं, बहूनि, अस्ति]
उत्तरम् :
- माता - अंकुर! किं करोषि त्वम्?
- अंकुरः - पाठं पठामि अम्ब! ..
- मांता - दुग्धं पीतवान्?
- अंकुरः - नैव अम्ब! तत्रैव अस्ति दुग्धम्।
- माता - तर्हि दग्धं पीत्वा आपणं गच्छसि किम?
- अंकुरः - अम्ब! शीघ्रं गच्छामि। किम् आनयामि ततः?
- माता . - वत्स! आपणं गत्वा लवणं, शर्करां, तण्डुलान्, गुडं, द्विदलञ्च आनय।
- अंकुरः - रक्षितां वदतु अम्ब! सा किं करोति?
- माता - सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति। द्रोण्यां जलं पूरयति। एवं तस्याः बहूनि कार्याणि सन्ति भोः।
- अंकुरः - ममापि पठनं बहु अस्ति।
- माता - दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छ।
प्रश्न 16.
'मातापुत्र्योः वार्तालाप:'
- पुत्री - अम्ब ! मम (i) ............ आगताः, परिचयं कारयामि। आगच्छतु।
- माता - आगच्छामि। सर्वाभ्यः (ii) ......।
- पुत्री - एषा हर्षिता। अस्याः (iii) ......... वित्तकोषे कार्य करोति।
- माता - अत्र (iv) ........ का?
- पुत्री - सा रक्षिता। तस्याः (v) ............ अस्वास्थ्यम् अस्ति। एषा दिव्या, अस्माकं गृहसमीपे एव वसति।
- माता - एतस्याः अम्बाम् अहं जानामि। सा प्रतिदिनं (vi) .......... गच्छति।
- पुत्री - एषा अंकिता। सर्वान् सदा आनन्दयति। कक्षायाम् अपि सर्वत्र (vii) स्थानं प्राप्नोति।
- माता - तां किरणं जानामि। किरण! कथं मौनेन स्थितवती? किरण. मम किञ्चित् (viii) ....... अस्ति।
- पुत्री - एषा मङ्गला, एषा राधा, एषा रोहिणी, एषा कविता, सा ज्योतिः।
[शिरोवेदना, प्रथम, राममन्दिरं, अम्बायाः, पिता, सख्यः, स्नेहा, आशीषः]
उत्तरम् :
- पुत्री - अम्ब! मम सख्यः आगताः, परिचयं कारयामि। आगच्छतु।
- माता - आगच्छामि। सर्वाभ्यः आशीषः।
- पुत्री - एषा हर्षिता। अस्याः पिता वित्तकोषे कार्यं करोति।
- माता - अत्र स्नेहा का?
- पुत्री - सा रक्षिता। तस्याः अम्बायाः अस्वास्थ्यम् अस्ति। एषा दिव्या, अस्माकं गृहसमीपे एव वसति।
- माता - एतस्याः अम्बाम् अहं जानामि। सा प्रतिदिनं राममन्दिरं गच्छति।
- पुत्री - एषा अंकिता। सर्वान् सदा आनन्दयति। कक्षायाम् अपि सर्वत्र प्रथम स्थान प्राप्नोति।
- माता - तां किरणं जानामि। किरण! कथं मौनेन स्थितवती?
- किरण - मम किञ्चित् शिरोवेदना अस्ति।
- पुत्री - एषा मङ्गला, एषा राधा, एषा रोहिणी, एषा कविता, सा ज्योतिः।
प्रश्न 17.
'दीपावली:'
- महेशः - भो दिनेशः! कस्मिन् (i) ...... जनाः (ii) .......... ज्वालयन्ति?
- दिनेशः - दीपावलीपर्वणि (iii) .............. दीपा: प्रज्वाल्यन्ते।
- महेशः - (iv) ........... ते मिष्टान्नम् अपि खादन्ति?
- दिनेशः - आम्! तैः (v) .............अपि (vi) ............।
- महेशः - किं बालाः (vii) ......... चित्राणि न (viii) .........।
- दिनेशः - आम् बालैः नूनं गृहेषु चित्राणि आनीयन्ते।
- महेशः - अस्मिन् दिवसे सर्वे जनाः नूतनानि वस्त्राणि च धारयन्ति।
[जनैः, किं, मिष्टान्नम्, पर्वणि, गृहेषु, खाद्यन्ते, दीपान्, आनयन्ति]
उत्तरम् :
- महेशः - भो दिनेशः ! कस्मिन् पर्वणि जनाः दीपान् ज्वालयन्ति?
- दिनेशः - दीपावलीपर्वणि जनैः दीपाः प्रज्वाल्यन्ते।
- महेशः - किं ते मिष्टान्नम अपि खादन्ति?
- दिनेशः - आम्! तैः मिष्टान्नम् अपि खाद्यन्ते।
- महेशः - किं बालाः गृहेषु चित्राणि न आनयन्ति?
- दिनेशः - आम् बालैः नूनं गृहेषु चित्राणि आनीयन्ते।
- महेशः - अस्मिन् दिवसे सर्वे जनाः नूतनानि वस्त्राणि च धारयन्ति।
प्रश्न 18.
'कक्षायायां छात्राणां वार्तालाप:'
- प्रदीपः - अरुण! भवतः गणितपुस्तकं (i) ........... किम् ?
- अरुणः - भवान् किमर्थं विद्यालयं नागतवान्?
- प्रदीपः - मम अतीव शिरोवेदना आसीत्। अतः (ii) .......... कृतवान्।
- अरुणः - संस्कृतपुस्तकं भवान् इतोऽपि न दत्तवान्। इदानीं गणितपुस्तकमपि नयति। (iii) ............... प्रतिददाति?
- प्रदीपः - श्वः सायङ्काले (iv) ...... पुस्तकं दास्यामि।
- ज्योतिः - प्रदीप! भवान् असत्यं वदति किम् ? श्वः भवान् (v) .......... गमिष्यति। परश्वः आगमिष्यति। कदा (vi) ........... लेखिष्यति?
- प्रदीपः - अहं विस्मृतवान्। (vii) ............ निश्चयेन पुस्तकं दास्यामि।
- कृष्णः - ज्योति! अद्य मम गृहम् आगच्छतु। सम्यक् पठिष्यावः।
- अरुणः - भवान् पठिष्यति, लेखिष्यति इति (viii) ......... केवलम्।
- कृष्णः - शिक्षिका श्व: संस्कृतपाठं पाठयिष्यति।
[बन्धुगृहं, भवतः, ददाति, शयनं, वदति, गणितं, कदा, परश्वः]
उत्तरम् :
- प्रदीपः - अरुण! भवतः गणितपुस्तकं ददाति किम् ?
- अरुणः - भवान् किमर्थं विद्यालयं नागतवान् ?
- प्रदीपः - मम अतीव शिरोवेदना आसीत। अतः शयनं कतवान।
- अरुणः - संस्कृतपुस्तकं भवान् इतोऽपि न दत्तवान्। इदानीं गणितपुस्तकमपि नयति। कदा प्रतिददाति?
- प्रदीपः - श्वः सायङ्काले भवतः पुस्तकं दास्यामि।
- ज्योतिः - प्रदीप! भवान् असत्यं वदति किम्? श्वः भवान् बन्धुग्रहं गमिष्यति। परश्वः आगमिष्यति।
- कदा गणितं लेखिष्यति?
- प्रदीपः - अहं विस्मृतवान्। परश्वः निश्चयेन पुस्तकं दास्यामि।
- कृष्णः - ज्योति! अद्य मम गृहम् आगच्छतु। सम्यक् पठिष्यावः।
- अरुणः - भवान् पठिष्यति, लेखिष्यति इति वदति केवलम्।
- कृष्णः - शिक्षिका श्वः संस्कृतपाठं पाठयिष्यति।
प्रश्न 19.
'नाटक-दर्शनम्'
- अध्यापिका - सविते! किं जानासि (i) ........... कालम्?
- सविता - आम्, महाकविः कालिदासः (ii) .........अभवत्, परं तस्य (iii) .......... न जाने।
- अध्यापिका - कविते! त्वया तेन लिखितम् (iv) ................ नाटकं दृष्टम् ?
- कविता - आम्, (v) ............ अहं तत् नाटकं द्रष्टुं (vi) ............ रवीन्द्ररङ्गशालाम् अगच्छम्।
- अध्यापिका - सुविधे! त्वम् (vii) ............।
- सुविधा - अहं तु (viii) .............।
[ह्यः, कालिदासस्य, महोदये, एतत् द्रष्टुं श्व: गमिष्यामि, निश्चितकालं, अभिज्ञानशाकुन्तलम्, प्राचीनकाले, इदं नाटकं द्रष्टुं कदा गमिष्यसि]
उत्तरम् :
- अध्यापिका - सविते! किं जानासि कालिदासस्य कालम् ?
- सविता - आम्, महाकविः कालिदासः प्राचीनकाले अभवत्, परं तस्य निश्चितकालं न जाने।
- अध्यापिका - कविते! त्वया तेन लिखितम् अभिज्ञानशाकुन्तलम् नाटकं दृष्टम् ?
- कविता - आम्, महोदये अहं तत् नाटकं द्रष्टुं ह्यः रवीन्द्ररङ्गशालाम् अगच्छम्।
- अध्यापिका - सुविधे! त्वम् इदं नाटकं द्रष्टुं कदा गमिष्यसि?
- सुविधा - अहं तु एतत् द्रष्टुं श्वः गमिष्यामि।
प्रश्न 20.
'प्रीत्या व्यवहरताम्'
- आदित्यः - अनुराग! भवान् तत् पुस्तकम् (i) ............।
- अनुरागः - (ii) ......... न आनयामि। आवश्यकं चेत् नयतु।
- आदित्यः - भोः, भवान् कदा सन्तोषेण वदति? सदा (iii) ........... करोति।
- अनुरागः - त्वमपि कदापि प्रीत्या न वदसि। आदेशं (iv) ............।
- आदित्यः - सदा श्रद्धया कार्यं करोतु। विनयेन सम्भाषणं करोतु।
- अनुरागः - गच्छ त्वम्। सदा (v) ....... करोषि।
- माता - किमर्थं कोपेन कलहं कुरुतः? भवन्तौ (vi) .......... खलु? आदित्य! त्वं (vii) ............. मा तर्जय, सः दुःखेन रोदिति। सदा (viii) ............ व्यवहरताम्।
- आदित्यः - अम्ब! क्षम्यताम्। इतः परं सन्तोषेण एव भवावः।
- माता - अस्तु, भवन्तौ अपि एकाग्रचित्ततया पठताम्।
[कोपेन, प्रीत्या, उपदेशं, करोषि, सहोदरौ, कोपं, आनयतु, अहं]
उत्तरम् :
- आदित्यः - अनुराग! भवान् तत् पुस्तकम् आनयतु।
- अनुरागः - अहं न आनयामि। आवश्यकं चेत् नयतु।
- आदित्यः - भोः, भवान कदा सन्तोषेण वदति? सदा कोपं करोति।
- अनुरागः - त्वमपि कदापि प्रीत्या न वदसि। आदेशं करोषि।
- आदित्यः - सदा श्रद्धया कार्यं करोतु। विनयेन सम्भाषणं करोतु। अनुरागः गच्छ त्वम्। सदा उपदेशं करोषि।
- माता - किमर्थं कोपेन कलहं कुरुतः? भवन्तौ सहोदरौ खलु? आदित्य! त्वं कोपेन मा तर्जय, सः दुःखेन रोदिति। सदा प्रीत्या व्यवहरताम्।
- आदित्यः - अम्ब! क्षम्यताम्। इतः परं सन्तोषेण एव भवावः।
- माता - अस्तु, भवन्तौ अपि एकाग्रचित्ततया पठताम्।
प्रश्न 21.
'संस्कृतसम्भाषणम्' अलका - भोः! भवान् सङ्गणकज्ञानं कुतः प्राप्तवान् ?
- अंकुरः - अहम् बेङ्गलूरुनगरे सङ्गणकज्ञानं (i) ...........।
- अलका - भवान् किमर्थं वाराणसीम् आगतवान् ?
- भवतः (ii) ........... कुत्र स्तः?
- अंकुरः - मम जननीजनको बेङ्गलूरुनगरे स्तः। अहं (iii) ............ अध्ययनार्थं वाराणसीनगरम् आगतवान्।
- तत्रापि संस्कृतशास्त्राध्ययनाय प्रथमं संस्कृतसम्भाषणं ज्ञातुमिच्छामि। (iv) ....... किम् अधीतवती?
- अलका - अहं संस्कृतसाहित्यम् अधीतवती। (v) .......... स्नातकोत्तरपदवीमपि प्राप्तवती।
- अंकुरः - भवती अंत्र कति (vi) ....... कार्यं करोति?
- अलका - अहं त्रयोदशवर्षेभ्यः संस्कृतप्रचारकार्य (vii) ............।
- अंकुरः - अत्र संस्कृताध्ययनाय बहुभ्यः प्रदेशेभ्यः (viii) .......... आगच्छन्ति किम्?
- अलका - संस्कृताध्ययनाय विदेशेभ्यः अपि प्रतिवर्षम् छात्राः आगच्छन्ति, तिष्ठन्ति, पठन्ति च।
[संस्कृते, संस्कृतशास्त्राणाम्, प्राप्तवान्, जननीजनको, भवती, करोमि, वर्षेभ्यः, जनाः]
उत्तरम् :
- अलका - भोः ! भवान् सङ्गणकज्ञानं कुतः प्राप्तवान् ?
- अंकुरः - अहम् बेङ्गलूरुनगरे सङ्गणकज्ञानं प्राप्तवान्।
- अलका - भवान् किमर्थं वाराणसीम् आगतवान् ? भवतः जननीजनको कुत्र स्तः?
- अंकुरः - मम जननीजनको बेङ्गलरुनगरे स्तः। अहं संस्कतशास्त्राणाम अध्ययनार्थं वाराणसीनगरम
- आगतवान्। तत्रापि संस्कृतशास्त्राध्ययनाय प्रथमं संस्कृतसम्भाषणं ज्ञातुमिच्छामि। भवती किम् अधीतवती?
- अलका - अहं संस्कृतसाहित्यम् अधीतवती। संस्कृते स्नातकोत्तरपदवीमपि प्राप्तवती।
- अंकुरः - भवती अत्र कति वर्षेभ्यः कार्यं करोति?
- अलका - अहं त्रयोदशवर्षेभ्यः संस्कृतप्रचारकार्यं करोमि।
- अंकुरः - अत्र संस्कृताध्ययनाय बहुभ्यः प्रदेशेभ्यः जनाः आगच्छन्ति किम्?
- अलका - संस्कृताध्ययनाय विदेशेभ्यः अपि प्रतिवर्षम् छात्राः आगच्छन्ति, तिष्ठन्ति, पठन्ति च।
प्रश्न 22.
'माता-पुत्रयोः वार्तालाप:'
- पुत्रः - मातः, त्वं किमद्य पक्वान्नं मिष्टान्नं च (i) ...........?
- माता - पुत्र, किं त्वं न जानासि यदद्य (ii) ........... उत्सवः विद्यते?
- पुत्रः - (iii) .............। कथय, दीपमालिकायाः उत्सवः कीदृशः भवति?
- माता - अस्तु, त्वं (iv) ........... ज्ञास्यसि। अधुना (v)........... सञ्जातः नभः च (vi) ......... भवति।
- पुत्रः - ततः किम्?
- माता - गृहे (vii) ......... सन्ति, त्वं तान् (viii) .......... । अहं तान् प्रज्वालयानि।
- पुत्रः - यद् आज्ञापयति भवती।
[दीपमालिकायाः, दीपकाः, रचयसि, नैव तु, सन्ध्यासमयः, स्वयमेव, तिमिराच्छन्नं, अत्रानय]
उत्तरम् :
- पुत्रः - मातः, त्वं किमद्य पक्वान्नं मिष्टान्नं च रचयसि ?
- माता - पुत्र, किं त्वं न जानासि यदद्य दीपमालिकायाः उत्सवः विद्यते?
- पुत्रः - नैव तु। कथय, दीपमालिकायाः उत्सवः कीदृशः भवति?
- माता - अस्तु, त्वं स्वयमेव ज्ञास्यसि। अधुना सन्ध्यासमयः सञ्जातः नभः च तिमिराच्छन्नं भवति।
- पुत्रः - ततः किम्?
- माता - गृहे दीपकाः सन्ति, त्वं तान् अत्रानय। अहं तान् प्रज्वालयानि।
- पुत्रः - यद् आज्ञापयति भवती।
प्रश्न 23.
'वैद्य-रोगी-वार्तालाप:'
- रोगी - महाभाग! महती (i) ............. अस्ति। किमपि औषधं ददातु।
- वैद्यः - उद्वेगः मास्तु। कदा (ii) ............ उदरवेदना?
- रोगी - ह्यः आरभ्य उदरवेदना, मुखे रुचिः एव (iii) ..........।
- वैद्यः - ह्यः कुत्र (iv) ............ किं किं खादितवान् ?
- रोगी - परह्यः (v) ............ गृहं गतवान्। तत्र मातुलानी मधुरं कृतवती। अहं यथेष्टं खादितवान्।
- वैद्यः - (vi) .......... मास्तु, अहम् औषधं ददामि।
- रोगी - किञ्चित् शिरोवेदना.अपि अस्ति। (vii) .......... एव नास्ति। मुखे रुचिः अपि नास्ति।
- वैद्यः - भवतः अजीर्णं जातम्। श्वः परश्वः निमित्तम् औषधं (viii) ...........। प्रपरश्वः पुनः आगच्छतु।
- रोगी - आहारं किं स्वीकरोमि?
- वैद्यः - घनाहारम् अधिकं न, द्रवाहारं स्वीकरोतु।
[ददामि, बुभुक्षा, मातुलस्य, उदरवेदना, चिन्ता, आरभ्य, गतवान्, नास्ति]
उत्तरम् :
- रोगी - महाभाग! महती उदरवेदना अस्ति। किमपि औषधं ददातु।
- वैद्यः - उद्वेगः मास्तु। कदा आरभ्य उदरवेदना?
- रोगी - ह्यः आरभ्य उदरवेदना, मुखे रुचिः एव नास्ति।
- वैद्यः - ह्यः कुत्र गतवान् किं किं खादितवान् ?
- रोगी - परह्यः मातुलस्य गृहं गतवान्। तत्र मातुलानी मधुरं कृतवती। अहं यथेष्टं खादितवान्।
- वैद्यः - चिन्ता मास्तु, अहम् औषधं ददामि।
- रोगी - किञ्चित् शिरोंवेदना अपि अस्ति। बुभुक्षा एव नास्ति। मुखे रुचिः अपि नास्ति।
- वैद्यः - भवतः अजीर्णं जातम्। श्वः परश्वः निमित्तम् औषधं ददामि। प्रपरश्वः पुनः आगच्छतु।
- रोगी - आहारं किं स्वीकरोमि?
- वैद्यः - घनाहारम् अधिकं न, द्रवाहारं स्वीकरोतु।
प्रश्न 24.
'प्रवासानुमत्यर्थम् वार्तालाप:'
- गौरवः - अम्ब! मम कक्षायाः (i) .......... अस्ति। अहम् अपि गच्छामि वा?
- माता - अहं कथं वदामि? पितैव (ii) ............. दास्यति।
- गौरवः - भवती एव वदतु (iii) ................।
- माता - कुत्र प्रवासः?
- गौरवः - प्रथमं विद्यालयत: (iv) ........ गत्वा तत्र बिरलामन्दिरम्, गणेशमन्दिरम्, रामनिवास-उद्यानं, गोविन्ददेवमन्दिरं, वेधशालाम्, (v) .......... च (vi) .................।
- माता - कति छात्राः गच्छन्ति (vii) ...............
- गौरवः - मम कक्षायाः सर्वेऽपि गच्छन्ति। ते सर्वे (viii) ........ दत्तवन्तः।
[जयपुरं, धनमपि, द्रक्ष्यामः, अनुमति, प्रवासः, आमेरनगरं, भोः, तातम्]
उत्तरम् :
- गौरवः - अम्ब! मम कक्षायाः प्रवासः अस्ति। अहम् अपि गच्छामि वा?
- माता - अहं कथं वदामि? पितैव अनुमतिं दास्यति।
- गौरवः - भवती एव वदतु तातम्।
- माता - कुत्र प्रवासः?
- गौरवः - प्रथमं विद्यालयतः जयपुरम् गत्वा तत्र बिरलामन्दिरम्, गणेशमन्दिरम्, रामनिवास-उद्यानं, गोविन्ददेवमन्दिरं, वेधशालाम्, आमेरनगरं च द्रक्ष्यामः।
- माता - कति छात्राः गच्छन्ति भोः?
- गौरवः - मम कक्षायाः सर्वेऽपि गच्छन्ति। ते सर्वे धनमपि दत्तवन्तः।
प्रश्न 25.
'सख्योः वार्तालापः'
- क्षमा - स्वागतं ते अस्यां (i) ...........
- शुभ्रा - धन्यवादाः।
- क्षमा - प्रियसखि! किं (ii) ........... नाम?
- शुभ्रा - मम नाम शुभ्रा अस्ति।
- क्षमा - शुभ्रे! कस्मात् (iii) ............ आगता असि?
- शुभ्रा - अहं मुम्बईनगरस्य (iv) ............ आगता अस्मि।
- क्षमा - अहमपि पञ्चकक्षापर्यन्तं तत्रैव अपठम्। पितुः (v) .......... आगता।
- शुभ्रा - अहमपि अनेन एव कारणेन अत्र (vi) .............।
- क्षमा - अधुना त्वं कुत्र (vii) .............. ?
- शुभ्रा - अधुना (viii) ........ कमलानगरे वसामि।
- क्षमा - साधु! अतीव शोभनं जातम्। अहमपि तत्रैव वसामि। अद्य प्रभृति आवां मिलित्वा एवं विद्यालयम् आगमिष्यावः।
[तव, विद्यालयात्, केन्द्रीयविद्यालयात्, वससि, कक्षायाम्, स्थानान्तरणवशात्, अहं, आगता]
उत्तरम् :
- क्षमा - स्वागतं ते अस्यां कक्षायाम्।
- शुभ्रा - धन्यवादाः।
- क्षमा - प्रियसखि! किं तव नाम?
- शुभ्रा - मम नाम शुभ्रा अस्ति।
- क्षमा - शुभ्रे ! कस्मात् विद्यालयात् आगता असि?
- शुभ्रा - अहं मुम्बईनगरस्य केन्द्रीयविद्यालयात् आगता अस्मि।
- क्षमा - अहमपि पञ्चकक्षापर्यन्तं तत्रैव अपठम्। पितुः स्थानान्तरणवशात् अत्र आगता।
- शुभ्रा - अहमपि अनेन एव कारणेन अत्र आगता।
- क्षमा - अधुना त्वं कुत्र वससि?
- शुभ्रा - अधुना अहं कमलानगरे वसामि।
- क्षमा - साधु! अतीव शोभनं जातम्। अहमपि तत्रैव वसामि। अद्य प्रभृति आवां मिलित्वा एवं विद्यालयम् आगमिष्यावः।
प्रश्न 26.
'स्वादिष्टं भोजनम्'
- पुत्रः - अम्ब! महती (i) ...........अस्ति। शीघ्रं भोजनम् आनयतु।
- अम्बा - वत्स! भोजनार्थं सर्वान् (ii) .......।
- पुत्रः - सर्वे शीघ्रम् आगच्छन्तु।
- अम्बा - अद्य ओदनम्, सूपः, शाकं, रोटिका, पर्पटः, पायसम् च सन्ति।
- पुत्रः - अद्य कः विशेषः?
- अम्बा - अद्य (iii) .........भोः। अतः पायसं कृतवती।
- पुत्रः - अम्ब! अद्य शाके लवणमेव न योजितवती। (iv) ......... परिवेषयतु।
- अम्बा - अहो (v) ..............। स्वीकरोतु लवणम्।
- पुत्रः - अम्ब पायसम् (vi) .......... अस्ति ?
- अम्बा - आम्, अस्ति। वत्स! (vii) ............कथमस्ति?
- पुत्रः - पायसं बहु (viii) ............ अस्ति।
- अम्बा - अद्य शाकं कोऽपि न खादति। किम् भोजनं रुचिकरं नास्ति?
- पुत्रः - नहि अम्ब! भोजनम् अतीव स्वादिष्टम् अस्ति।
[स्वादिष्टम्, रामनवमी, आह्वयतु, पायसं, लवणं, अधिकम्, बुभुक्षा, विस्मृतवती]
उत्तरम् :
- पुत्रः - अम्ब! महती बुभुक्षा अस्ति। शीघ्रं भोजनम् आनयतु।
- अम्बा - वत्स! भोजनार्थं सर्वान् आह्वयतु।
- पुत्रः - सर्वे शीघ्रम् आगच्छन्तु।
- अम्बा - अद्य ओदनम्, सूपः, शाकं, रोटिका, पर्पटः, पायसम् च सन्ति।
- पुत्रः - अद्य कः विशेषः?
- अम्बा - अद्य रामनवमी भोः। अतः पायसं कृतवती।
- पुत्रः - अम्ब! अद्य शाके लवणमेव न योजितवती। लवणं परिवेषयतु।
- अम्बा - अहो विस्मृतवती। स्वीकरोतु लवणम्।
- पुत्रः - अम्ब पायसम् अधिकम् अस्ति?
- अम्बा - आम्, अस्ति। वत्स! पायसं कथमस्ति?
- पुत्रः - पायसं बहु स्वादिष्टम् अस्ति।
- अम्बा - अद्य शाकं कोऽपि न खादति। किम् भोजनं रुचिकरं नास्ति?
- पुत्रः - नहि अम्ब! भोजनम् अतीव स्वादिष्टम् अस्ति।
प्रश्न 27.
'क्रीडाविषये वार्तालाप:'
- आचार्यः - भोः छात्रा! अत्र आगच्छत। मण्डलाकारेण (i) ..............। (ii) ........... क्रीडामः।
- संजयः - आचार्य! अहं (iii) ............ उपविशामि?
- आचार्यः - त्वं किमर्थं विलम्बं करोषि? स्नेहायाः (iv) ......... उपविश।
- पूजा - आचार्य का क्रीडा? कः (v) .......... ?
- आचार्यः - शृण्वन्तु, अहम् एकं शब्दं वदामि। तस्य शब्दस्य (vi) .......... शब्दः वक्तव्यः। (vii) ........... शब्दं पुनः मा वदन्तु। ज्ञातं खलु?
- संजीवः - क्रीडायाः नाम वदतु आचार्य।
- आचार्यः - क्रीडायाः नाम 'प्रत्यक्षरपदकथनम्'। 'गिरिजावल्लभः' इति शब्दः। वदतु (viii) ........ ! 'गि' इति प्रथमाक्षरम्।
- प्रदीपः - गिरिः।
- राकेशः - रिपुः।
- पूजा - जानकी।
- सुरेशः - वस्त्रम्।
- संजयः - लाभः
- स्नेहा - भल्लूकः।
[पार्वे, प्रत्यक्षरं, उपविशत, नियमः, उक्तं, कुत्र, क्रीडां, प्रदीप]
उत्तरम् :
- आचार्यः - भोः छात्राः! अत्र आगच्छत। मण्डलाकारेण उपविशत। क्रीडां क्रीडामः।
- संजयः - आचार्य! अहं कत्र उपविशामि?
- आचार्यः - त्वं किमर्थं विलम्बं करोषि? स्नेहायाः पार्श्वे उपविश।
- पूजा - आचार्य का क्रीड़ा? कः नियमः?
- आचार्यः - शृण्वन्तु, अहम् एकं शब्दं वदामि। तस्य शब्दस्य प्रत्यक्षरं शब्दः वक्तव्यः। उक्तं शब्दं पुनः मा वदन्तु। ज्ञातं खलु?
- संजीवः - क्रीडायाः नाम वदतु आचार्य।
- आचार्यः. - क्रीडायाः नाम 'प्रत्यक्षरपदकथनम्'। 'गिरिजावल्लभः' इति शब्दः। वदतु प्रदीप! 'गि' इति प्रथमाक्षरम्।
- प्रदीपः - गिरिः।
- राकेशः - रिपुः।
- पूजा - जानकी।
- सुरेशः - वस्त्रम्।
- संजयः - लाभः।
- स्नेहा - भल्लूकः।
प्रश्न 28.
'ग्रीष्मावकाशे भ्रमणम्'
अथवा
'अवकाशदिवसस्य कार्यकलापः'
- महेशः - गोपाल ! अद्य अस्माकं वार्षिकपरीक्षा सम्पन्ना। (i) ............ भवान् कुत्र गमिष्यति? गोपाल: अहं तु (ii) ............ गृहं गमिष्यामि
- महेशः - तव मातुलः कुत्र निवसति? गोपालः मम मातुलः उदयपुरनगरे (iii) ............।
- महेशः - उदयपुरनगरं तु दर्शनीयस्थलं वर्तते। अहमपि विगतग्रीष्मावकाशे तत्र भ्रमणार्थं स्वपरिवारेण सह (iv) .............।
- गोपालः - भवान् तत्र किं किं दृष्टवान् ?
- महेशः - अहं तत्र पिछोलातडागम्, (v) ............ उद्यानम्, उम्मेदप्रासादः अन्यानि च रमणीयानि ............ स्थलानि दृष्टवान्।
- गोपालः - अहमपि स्वस्य मात्रा सह (vi) ............ गत्वा तानि (vii) ............. (viii) ...........।
- महेशः - भवतु। पुनर्मिलामः।
[द्रक्ष्यामि, सखीनाम्, ग्रीष्मावकाशे, निवसति, मातुलस्य, अगच्छम्, उदयपुरम्, स्थलानि]
उत्तरम् :
- महेशः - गोपाल! अद्य अस्माकं वार्षिकपरीक्षा सम्पन्ना। ग्रीष्मावकाशे भवान् कुत्र गमिष्यति?
- गोपालः - अहं तु मातुलस्य गृहं गमिष्यामि।
- महेशः - तव मातुलः कुत्र निवसति?
- गोपालः - मम मातुलः उदयपुरनगरे निवसति।
- महेशः - उदयपुरनगरं तु दर्शनीयस्थलं वर्तते। अहमपि विगतग्रीष्मावकाशे तत्र भ्रमणार्थं स्वपरिवारेण सह अगच्छम्।
- गोपालः - भवान् तत्र किं किं दृष्टवान् ?
- महेशः - अहं तत्र पिछोलातडागम्, सखीनाम् उद्यानम्, उम्मेदप्रासादः अन्यानि च रमणीयानि स्थलानि दृष्टवान्।
- गोपालः - अहमपि स्वस्य मात्रा सह उदयपुरं गत्वा तानि स्थलानि द्रक्ष्यामि।
- महेशः - भवंतु। पुनर्मिलामः।
प्रश्न 29.
'द्वयोः मित्रयोः वार्तालाप:'
- गोविन्दः - किं त्वं श्वः (i) ..........गमिष्यसि?
- गोपालः - मम विद्यालये श्वः (ii) ........... अस्ति। अत: (iii) .......... अहं विद्यालयं गमिष्यामि।
- गोविन्दः - किम् अन्येऽपि (iv) ...........आगमिष्यन्ति?
- गोपालः - न केवलं बालकाः अपितु तेषां (v) ........ अपि आगमिष्यन्ति।
- गोविन्दः - त्वम् उत्सवे किं किं (vi) ...........?
- गोपालः - अहं (vii) ........... पठिष्यामि।
- गोविन्दः - (viii) ............. तत्र क्रीडनानि अपि भविष्यन्ति?
- गोपालः - आम्। तत्र धावन प्रतियोगिता अपि भविष्यति।
- गोविन्दः - अहमपि त्वया सह गमिष्यामि।
[उत्सवः, अवश्यमेव, मङ्गलश्लोकम, करिष्यसि, किम्, विद्यालयम, पितृजनाः, बालकाः]
उत्तरम् :
- गोविन्दः - किं त्वं श्वः विद्यालयं गमिष्यसि?
- गोपालः - मम विद्यालये श्वः उत्सवः अस्ति। अत: अवश्यमेव अहं विद्यालयं गमिष्यामि।
- गोविन्दः - किम् अन्येऽपि बालकाः आगमिष्यन्ति?
- गोपालः - न केवलं बालकाः अपितु तेषां पितृजनाः अपि आगमिष्यन्ति।
- गोविन्दः - त्वम् उत्सवे किं किं करिष्यसि?
- गोपालः - अहं मङ्गलश्लोकं पठिष्यामि।
- गोविन्दः - किं तत्र क्रीडनानि अपि भविष्यन्ति?
- गोपालः - आम्। तत्र धावन प्रतियोगिता अपि भविष्यति।
- गोविन्दः - अहमपि त्वया सह गमिष्यामि।
प्रश्न 30.
'वैद्य-रुग्णयोः वार्तालापः'
- वैद्यः - कथय वत्स! किं कष्टम् अस्ति?
- रुग्णः - भोः वैद्यमहोदय! (i) .............।
- वैद्यः - कुत्र वर्तते वेदना?
- रुग्णः - (आमाशयं स्पृशन्) (ii) ................।
- वैद्यः - ह्यः किं किं भक्षितमासीत् ?
- रुग्णः - (iii) ............ (iv) ............. (v) ..........।
- वैद्यः - पश्यतु, क्षुधानुसारम् एव भक्षणीयम्, अतिभोजनं सर्वथा रोगजनकम् एव।
- रुग्णः - (vi) .............. (vii) ............।
- वैद्यः - एताः चतस्रः गोलिकाः स्वीकरोतु। उष्णजलेन एका एका गोलिका प्रातः सायं सेवनीया।
- रुग्णः - (viii) ...........।
- वैद्यः - न किमपि। केवलं दुग्धम्। उष्णजलमेव च पातव्यम्। महर्षिः चरकः कथयति-जीर्णे अश्नीयात्।
- रुग्णः - यथा आदिशसि तथा करिष्ये।
- इदानीं तु औषधं प्रयच्छतु। इतः परं कदापि अतिभोजनं न करिष्ये।
- भोजने किं स्वीकुर्याम्?
- अत्रैव मम उदरे। महती वेदना वर्तते।
- ह्यः एकस्मिन् विवाहभोजं गत्वा बहूनि मिष्टान्नानि खादितवान्
उत्तरम् :
- वैद्यः - कथय वत्स! किं कष्टम् अस्ति?
- रुग्णः - भोः वैद्यमहोदय! महती वेदना वर्तते।
- वैद्यः - कुत्र वर्तते वेदना?
- रुग्णः - (आमाशयं स्पृशन्) अत्रैव मम उदरे।
- वैद्यः - ह्यः किं किं भक्षितमासीत्?
- रुग्णः - ह्यः एकस्मिन् विवाहभोजं गत्वा बहूनि मिष्टान्नानि खादितवान्।
- वैद्यः - पश्यतु, क्षुधानुसारम् एव भक्षणीयम्, अतिभोजनं सर्वथा रोगजनकम् एव।
- रुग्णः - इदानीं तु औषधं प्रयच्छतु। इतः परं कदापि अतिभोजनं न करिष्ये।
- वैद्यः - एताः चतस्त्रः गोलिकाः स्वीकरोतु। उष्णजलेन एका एका गोलिका प्रात: सायं सेवनीया।
- रुग्णः - भोजने किं स्वीकुर्याम् ?
- वैद्यः - न किमपि। केवलं दुग्धम्। उष्णजलमेव च पातव्यम्। महर्षिः चरकः कथयति-जीर्णे अश्नीयात्।
- रुग्णः - यथा आदिशसि तथा करिष्ये।
प्रश्न 31.
'छात्राध्यापकयोः वार्तालाप:'
- छात्रः - महोदय ! अहं भवन्तं (i) ................. ।
- अध्यापकः - भोः छात्र! भवतः नाम किम्?
- छात्रः - महोदय ! मम नाम (ii) .......... अस्ति।
- अध्यापकः - (iii) ............ कुत्र निवसति?
- अभ्युत्कर्षः - अहम् अस्मिन्नैव नगरे (iv) ...........।
- अध्यापकः - तव पितुः नाम किम्? किञ्च करोति?
- अभ्युत्कर्षः - मम पितुः नाम श्री जितेन्द्रकुमारः अस्ति। सः च (v) .......... व्याख्यातापदे कार्यं करोति।
- अध्यापकः - कस्मिन् विषये तव पठने सर्वाधिका (vi) ............. अस्ति?
- अभ्युत्कर्षः - संस्कृतविषये.मम सर्वाधिका रुचिः अस्ति।
- अध्यापकः - (vii) .......... भवान् कस्यां श्रेण्याम् उत्तीर्णः अभवत् ?
- अभ्युत्कर्षः - गतकक्षायाम् अहं प्रथमश्रेण्याम् (viii) ............ अभवम्।
[संस्कृतस्य, उत्तीर्णः, निवसामि, प्रणमामि, रुचिः, भवान्, गतकक्षायां, अभ्युत्कर्षः]
उत्तरम् :
- छात्रः - महोदय ! अहं भवन्तं प्रणमामि।
- अध्यापकः - भोः छात्र! भवतः नाम किम् ?
- छात्रः - महोदय ! मम नाम अभ्युत्कर्षः अस्ति।
- अध्यापकः - भवान् कुत्र निवसति?
- अभ्युत्कर्षः - अहम् अस्मिन्नैव नगरे निवसामि।
- अध्यापकः - तव पितुः नाम किम् ? किञ्च करोति?
- अभ्युत्कर्षः - मम पितुः नाम श्री जितेन्द्रकुमारः अस्ति। सः च संस्कृतस्य व्याख्यातापदे कार्यं करोति।
- अध्यापकः - कस्मिन् विषये तव पठने सर्वाधिका रुचिः अस्ति?
- अभ्युत्कर्षः - संस्कृतविषये मम सर्वाधिका रुचिः अस्ति।
- अध्यापकः - गतकक्षायां भवान् कस्यां श्रेण्याम् उत्तीर्णः अभवत् ?
- अभ्युत्कर्षः - गतकक्षायाम् अहं प्रथमश्रेण्याम् उत्तीर्णः अभवम्।
प्रश्न 32.
क्रीडनमपि आवश्यकम'
- माता - पुत्र! भवान् एवं सदा क्रीडति चेत् (i) ............. न भविष्यति। ज्ञानमपि न प्राप्स्यति।
- भूपेन्द्रः - अम्ब! किमर्थं तथा वदति? अहम् अधुना (ii) ............. गच्छामि, आगत्य च पठिष्यामि।
- माता - गृहस्य सर्व सदस्याः वदन्ति यत् भवान् सर्वदा क्रीडति, (iii) ........... तव रुचिः नास्ति।
- भूपेन्द्रः - अम्ब! अहं क्रीडमि किन्तु पठामि अपि। (iv) ............... चिन्ता मा करोतु।
- माता - वत्स! एतत् अङ्कपत्रं भवतः एव वा?
- भूपेन्द्रः - सत्यम् अम्ब! कक्षायाम् अहमेव प्रथम स्थानं (v) ................।
- माता - अस्तु, भवान् क्रीडानाय गच्छतु। आगत्य च अवश्यमेव पठतु।
- भूपेन्द्रः - अम्ब! मम (vi) ............. वदति-जीवने अध्ययनेन सह क्रीडनमपि आवश्यकं भवति। (vii) ....... शक्तिवर्धनं भवति, सदा (viii) ............ उल्लसितं भवति।
- माता - भवतु पुत्र! भवान् उत्तमः भवतु इत्यमेव ममाशयः।
[मनः, प्राप्तवान, उत्तीर्णः, क्रीडनार्थं, पठने, भवत्या, शिक्षकः, क्रीडया]
उत्तरम् :
- माता - पुत्र! भवान् एवं सदा क्रीडति चेत् उत्तीर्णः न भविष्यति। ज्ञानमपि न प्राप्स्यति।।
- भूपेन्द्रः - अम्ब! किमर्थं तथा वदति? अहम् अधुना क्रीडनार्थं गच्छामि, आगत्य च पठिष्यामि।
- माता - गृहस्य सर्वे सदस्याः वदन्ति यत् भवान् सर्वदा क्रीडति, पठने तव रुचिः नास्ति।
- भूपेन्द्रः - अम्ब! अहं क्रीडामि किन्तु पठामि अपि। भवत्याः चिन्ता मा करोतु।
- माता - वत्स! एतत् अङ्कपत्रं भवतः एव वा?
- भूपेन्द्रः - सत्यम् अम्ब! कक्षायाम् अहमेव प्रथम स्थान प्राप्तवान्।
- माता - अस्तु, भवान् क्रीडानाय गच्छतु। आगत्य च अवश्यमेव पठतु।
- भूपेन्द्रः - अम्ब! मम शिक्षकः वदति-जीवने अध्ययनेन सह क्रीडनमपि आवश्यकं भवति। क्रीडया शक्तिवर्धनं भवति, सदा मनः उल्लसितं भवति।
- माता - भवतु पुत्र! भवान् उत्तमः भवतु इत्यमेव ममाशयः।
प्रश्न 33.
'पितापुत्रयोः वार्तालाप:'
- हरीशः - पितः! प्रणमामि।
- पिता - प्रसन्नः भव! (i) ............ विद्यालयात् ?
- हरीशः - आम्।
- पिता - तव अर्द्धवार्षिकीपरीक्षायाः कः (ii) .........?
- हरीशः - अहं (iii) .......... सर्वाधिकान् अङ्कान् प्राप्तवान्।
- पिता - साधु। साधु। विद्यालये तव कीदृशम् (iv)......... भवति?
- हरीशः - अहं विद्यालयं गत्वा सर्वप्रथमं शिक्षकान् नमामि। ध्यानेन शृणोमि। कठिन-विषयं च (v) .......... पृच्छामि। सहपाठिभिः सह प्रेम्णा व्यवहरामि।
- पिता - भवतः प्रधानाध्यापकः प्रतिदिनं किं (vi) .............?
- हरीशः - प्रधानाध्यापकमहोदयः प्रतिदिनं (vii) ................ महापुरुषस्य विषये भाषणं करोति। पिता शोभनम्। सः अद्य कस्य (viii) ........ विषये भाषणं कृतवान् ?
- हरीशः - अद्य स्वामिविवेकानन्दस्य जन्मदिवसः अस्ति। अतएव सः स्वामिविवेकानन्दमहोदयस्य विषये भाषणं कृतवान्।
[पाठयति, परिणामः, आगतः, महापुरुषस्य, एकस्य, कक्षायां, आचरणम्, शिक्षकं।]
उत्तरम् :
- हरीशः - पितः! प्रणमामि।
- पिता - प्रसन्नः भव! आगतः विद्यालयात्?
- हरीशः - आम्।
- पिता - तव अर्द्धवार्षिकीपरीक्षायाः कः परिणामः?
- हरीशः - अहं कक्षायां सर्वाधिकान् अङ्कान् प्राप्तवान्।
- पिता - साधु। साधु। विद्यालये तव कीदृशम् आचरणं भवति?
- हरीशः - अहं विद्यालयं गत्वा सर्वप्रथमं शिक्षकान् नमामि। ध्यानेन शृणोमि। कठिन-विषयं च शिक्षकं पृच्छामि। सहपाठिभिः सह प्रेम्णा व्यवहरामि।
- पिता - भवत: प्रधानाध्यापकः प्रतिदिनं किं पाठयति?
- हरीशः - प्रधानाध्यापकमहोदयः प्रतिदिनं एकस्य महापुरुषस्य विषये भाषणं करोति।
- पिता - शोभनम्। सः अद्य कस्य महापुरुषस्य विषये भाषणं कृतवान् ?
- हरीशः - अद्य स्वामिविवेकानन्दस्य जन्मदिवसः अस्ति। अतएव सः स्वामिविवेकानन्दमहोदयस्य विषये भाषणं कृतवान्।
प्रश्न 34.
'गुरुशिष्ययोः वार्तालाप:'
- गुरुः - (प्रविश्य) अद्य वयं शिक्षकदिवसम् (i) ........... । 'गुरु' इति शब्दस्य कः अर्थः?
- शिष्यः - ज्ञानवृद्धः, आदरणीयः, (ii) ........... ।
- गुरुः - आम्। ज्ञानवृद्धः यदि बालोऽपि स्यात् सोऽपि (iii) ..........।
- शिष्यः - 'शिक्षकदिवसः' कस्य महापुरुषस्य स्मृत्याम् आयोज्यते?
- गुरुः - डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य स्मृत्याम् आयोज्यते। सः अपि (iv) .......... आसीत्। सः अस्माकं देशस्य द्वितीयः (v) .............. आसीत्। अस्य जन्म सितम्बरमासस्य पञ्चमे दिनाङ्के 1867 तमे वर्षे अभवत्। तस्य महाभागस्य (vi) .......... शिक्षकदिवसरूपेण आयोज्यते।
- शिष्यः - महोदय ! अस्य (vii) ....... उद्देश्यं किम् अस्ति?
- गुरुः - अस्य समारोहस्य उद्देश्यम् (viii) .......... वर्तमानपरिप्रेक्ष्ये गुरुणां महत्त्वप्रतिपादनम्।
- शिष्यः - गुरुः अस्माकं कृते तु ईश्वररूपेण एव भवति।
- गुरुः - आम्! गुरुः स्वशिष्यान् सदाचारं शिक्षयति। अतएव सः वन्दनीयः।
[जन्मदिवसः, समारोहस्य, गरिष्ठः, आयोजयामः, अस्ति, अध्यापकः, पूजनीयः, राष्ट्रपतिः।]
उत्तरम् :
- गुरुः - (प्रविश्य) अद्य वयं शिक्षकदिवसम् आयोजयामः। 'गुरु' इति शब्दस्य कः अर्थः?
- शिष्यः - ज्ञानवृद्धः, आदरणीयः, गरिष्ठः।
- गुरुः - आम्। ज्ञानवृद्धः यदि बालोऽपि स्यात् सोऽपि पूजनीयः।
- शिष्यः - 'शिक्षकदिवसः' कस्य महापुरुषस्य स्मृत्याम् आयोज्यते?
- गुरुः - डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य स्मृत्याम् आयोज्यते। सः अपि अध्यापकः आसीत्। सः अस्माकं देशस्य द्वितीय: राष्ट्रपतिः आसीत्। अस्य जन्म सितम्बरमासस्य पञ्चमे दिनाङ्के 1867 तमे वर्षे अभवत्। तस्य महाभागस्य जन्मदिवसः शिक्षकदिवसरूपेण आयोज्यते।
- शिष्यः - महोदय ! अस्य समारोहस्य उद्देश्यं किम् अस्ति?
- गुरुः - अस्य समारोहस्य उद्देश्यम् अस्ति वर्तमानपरिप्रेक्ष्ये गुरुणां महत्त्वप्रतिपादनम्।
- शिष्यः - गुरुः अस्माकं कृते तु ईश्वररूपेण एव भवति।
- गुरुः - आम्! गुरुः स्वशिष्यान् सदाचारं शिक्षयति। अतएव सः वन्दनीयः।
प्रश्न 35.
कस्मै किम् रोचते'
- मनोरमा - शिक्षिकायाः आगमनपर्यन्तं किञ्चित् पाठविषये एव (i) ......... । वदन्तु कस्मै किं रोचते? इति।
- शकुन्तला - मह्यं (ii) ............. रोचते।
- रागिणी - मह्यं (iii) ......... रोचते।
- कार्तिकः - मह्यं नाटकवीक्षणं रोचते।
- प्रशान्तः - मालत्यै सर्वदा (iv) .......... रोचते। न वा मालति।
- मालती - आम्।
- चूडामणिः - मह्यं संस्कृतगीतं रोचते। (v) ......... किं रोचते मनोरमे ?
- मनोरमा - मह्यं भाषणं रोचते।
- चेतनः सर्वे मौनेन उपविशन्तु। (vi) ............ आगतवती।
- मदनः - तस्मै किं रोचते इति पृच्छाम। मान्ये! भवत्यै (vii) ...... रोचते ?
- शिक्षिका - मह्यं भवतां पाठनं (viii) ..........।
- सुरभिः - मह्यं तु गणितविषयं रोचते।
- छविः - मह्यं तु चित्रकला रोचते।
- शिक्षिका - अधुना तु सर्वाः पुस्तकानि पठन्तु।
[नृत्यं, चिन्तयामः, भवत्यै, शिक्षिका, निद्रा, रोचते, किम्, फलं।]
उत्तरम् :
- मनोरमा - शिक्षिकायाः आगमनपर्यन्तं किञ्चित् पाठविषये एव चिन्तयामः। वदन्तु कस्मै किं रोचते? इति।
- शकुन्तला - मह्यं फलं रोचते। रागिणी - मह्यं नृत्यं रोचते।
- कार्तिकः - मह्यं नाटकवीक्षणं रोचते।
- प्रशान्तः - मालत्यै सर्वदा निद्रा रोचते। न वा मालती।
- मालती - आम्।
- चूडामणिः - मह्यं संस्कृतगीतं रोचते। भवत्यै किं रोचते मनोरमे?
- मनोरमा - मह्यं भाषणं रोचते।
- चेतनः - सर्वे मौनेन उपविशन्तु। शिक्षिका आगतवती।
- मदनः - तस्मै किं रोचते इति पृच्छाम। मान्ये! भवत्यै किं रोचते?
- शिक्षिका - मह्यं भवतां पाठनं रोचते।
- सुरभिः - मह्यं तु गणितविषयं रोचते।
- छविः - मह्यं तु चित्रकला रोचते।
- शिक्षिका - अधुना तु सर्वाः पुस्तकानि पठन्तु।
प्रश्न 36.
'शयन-जागरणयोः समयविषये वार्तालापः'
- अध्यापकः - रमेश! अद्य (i) ....... कथं आगतोऽसि?
- रमेशः - अद्य मया प्रातः सप्तवादने (ii) ....... त्यक्तम्।
- अध्यापकः - अरे! भवान् (iii) ....... कदा शयनं करोति?
- रमेशः - अहं रात्रौ द्वादशवादने शयनं (iv) ............ ।
- अध्यापकः - भो छात्राः ! विलम्बात् न शयनीयम् न च (v) .............. ।
- छात्राः - महोदय! तर्हि (vi) .......... जागरणस्य च कः समयः (vii) ......?
- अध्यापकः - भो छात्राः! शयनस्य समयः रात्रो (viii) ............ जागरणस्य च समयः प्रातः पञ्चवादने अथवा सूर्योदयात् पूर्वमेव समयः समुचितः भवति। छात्राः - वयम् एवमेव करिष्यामः।
[रात्रौ, शयनस्य, विलम्बात्, दशवादने, जागरणीयम्, शयनं, समुचितः, करोमि]
उत्तरम् :
- अध्यापकः - रमेश! अद्य विलम्बात् कथं आगतोऽसि?
- रमेशः - अद्य मया प्रातः सप्तवादने शयनं त्यक्तम्।
- अध्यापकः - अरे! भवान् रात्री कदा शयनं करोति?
- रमेशः - अहं रात्रौ द्वादशवादने शयनं करोमि।
- अध्यापकः - भो छात्राः ! विलम्बात् न शयनीयम् न च जागरणीयम्।
- छात्राः - महोदय ! तर्हि शयनस्य जागरणस्य च कः समयः समुचितः?
- अध्यापकः - भो छात्राः ! शयनस्य समयः रात्रो दशवादने जागरणस्य च समयः प्रातः पञ्चवादने अथवा सूर्योदयात् पूर्वमेव समयः समुचितः भवति।
- छात्राः - वयम् एवमेव करिष्यामः।