Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् Questions and Answers, Notes Pdf.
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्
अभ्यासार्थ प्रश्नोत्तर :
प्रश्न 1.
निम्नाङ्कितं चित्रं दृष्ट्वा प्रदत्तसंकेतपदानां साहाय्येन स्वविद्यालयस्य विषये षड्वाक्यानि लिखतु।

उत्तरम् :
वाक्यानि
- अयं विद्यालयः अतीवसुन्दरः अस्ति।
- अयं विद्यालयः ग्रामस्य मध्ये स्थितः अस्ति।
- अस्मिन् विद्यालये विंशतिः कक्षाः सन्ति।
- मम विद्यालये षोडश अध्यापकाः सन्ति।
- विद्यालयस्य समीपे एकम् उद्यानम् क्रीडाङ्गणं च स्तः।
- मध्यान्तरे छात्राः क्रीडाङ्गणे क्रीडन्ति।

प्रश्न 2.
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'अस्माकं जीवने वृक्षाणाम् उपयोगिता' इति विषये षड्वाक्यानि लिखतु।

उत्तरम् :
वाक्यानि
- अस्मिन् युगे सर्वत्र पर्यावरणं प्रदूषितं दृश्यते।
- पर्यावरणस्य शुद्धतायै वृक्षाणाम् उपयोगिता वर्तते।
- वृक्षेभ्यः वयं प्राणवायुं फलानि छाया काष्ठानि च प्राप्नुमः।
- खगाः वृक्षेषु आश्रयं प्राप्नुवन्ति।
- अस्माकं जीवने वृक्षाणां बहुमहत्त्वं वर्तते।
- वृक्षाः एव मानवजीवनस्य प्राणभूताः सन्ति।
प्रश्न 3.
निम्नाङ्कितं चित्रं दृष्ट्वा प्रदत्तसंकेतपदैः षड्वाक्यानि लिखत।

उत्तरम् :
वाक्यानि
- इदं राजमार्गस्य चित्रम् अस्ति।
- राजमार्गे विविधानि वाहनानि चलन्ति।
- जनाः शीघ्रं गृहं गन्तुं द्रुतगत्या वाहनानि चालयन्ति।
- असावधानतया वाहनचालनेन दुर्घटनायाः सम्भावनाः भवन्ति।
- राजमार्गे भारयुक्तवस्तूनि नीत्वा वाहनं न चालयेत्।
- राजमार्गे सड़कसुरक्षार्थं सावधानेन वाहनानि चालयामः।

प्रश्न 4.
चित्रं दृष्ट्वा निम्नलिखितशब्दानां सहायतया सङ्गणकस्य विषये षड्वाक्यानि लिखत।

उत्तरम् :
वाक्यानि
- अस्मिन् युगे सर्वत्र सङ्गणकस्य प्रयोगः दृश्यते।
- कार्यालयेषु विविधानि कार्याणि सङ्गणकमाध्यमेनैव भवन्ति।
- अद्य सम्पूर्णाः सूचनाः सङ्गणकमाध्यमेन शीघ्रमेव प्रेषयितुं शक्नुमः।
- अनेन कर्गदानां प्रयोगः अतीव न्यूनः सञ्जातः।
- सङ्गणकेन अल्पपरिश्रमेण कार्याणि शीघ्रं भवन्ति।
- वस्तुतः अद्य सर्वेषां कृते सङ्गणकज्ञानस्य महती आवश्यकता वर्तते।
प्रश्न 5.
अधः प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृतेन षड् वाक्यानि निर्माय लिखत -

उत्तरम् :
वाक्यानि-
- अस्मिन् चित्रे पर्यावरण-प्रदूषणस्य प्रभावं दृश्यते।
- जनाः स्वार्थाय वृक्षकर्तनं कुर्वन्ति।
- अवकरप्रक्षेपणेन जलम् अपेयं भवति।
- पर्यावरणस्य प्रदूषणेन विविधरोगाः भवन्ति।
- अस्माभिः स्वास्थ्यलाभाय वृक्षारोपणं करणीयम्।
- मानवकल्याणाय पर्यावरणरक्षणम् आवश्यकम्।

प्रश्न 6.
अधः प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृतेन षड् वाक्यानि निर्माय लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे संस्कृतशोभायात्रा दृश्यते।
- शोभायात्रायां छात्राः पंक्तिद्वये चलन्ति।
- तेषां हस्तेषु फलकानि सन्ति।
- छात्राः उद्घोषं कुर्वन्ति यत् ‘वदतु संस्कृतम्', 'जयतु संस्कृतम्' इति।
- संस्कृतदिनस्य उपलक्ष्ये संस्कृतशोभायात्रायाः आयोजनं भवति।
- सर्वे छात्राः आनन्देन संस्कृतभाषायाः प्रचारं कुर्वन्ति।
प्रश्न 7.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते षट् वाक्यानि निर्माय लिखत

उत्तरम् :
वाक्यानि-
- अस्मिन् चित्रे एकं बसयानं बालाश्च दृश्यन्ते।
- वर्षायां बालाः छत्रं धारयन्ति।
- बालाः विद्यालये गमनाय स्थिताः।
- बालान् नेतुं विद्यालयस्य बसयानम् आगच्छति।
- बालाः क्रमशः बसयाने आरोहन्ति।
- ततः बसयानं विद्यालयं प्रति गच्छति।

प्रश्न 8.
अधः चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया संस्कृते षड् वाक्यानि रचयतु

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे छात्राः वृक्षारोपणं कुर्वन्ति।
- वृक्षेभ्यः बालकाः जलं ददति।
- वयं वृक्षेभ्यः प्राणवायुं फलानि च प्राप्नुमः।
- यंदां वयं वृक्षारोपणं करिष्यामः तदा तेभ्यः सर्वमपि प्राप्स्यामः।
- सत्पुरुषाः कदापि वृक्षाणां कर्तनं नैव कुर्वन्ति।
- जनाः वृक्षेभ्यः फलानि प्राप्नुवन्ति, खादन्ति च।

प्रश्न 9.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया षड् वाक्यानि रचयत।

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे उद्याने बालाः कन्दुकेन क्रीडन्ति।
- अत्र सूर्यः दृश्यते।
- अस्मिन् चित्रे खगाः आकाशे उड्यन्ते।
- अत्र सरोवरे कमलानि विकसन्ति।
- वृक्षे पिकाः कूजन्ति।
- अत्र विविधानि पुष्पाणि विकसन्ति।

प्रश्न 10.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया "धेनु-महिमा" इति विषयोपरि संस्कृते षड्वाक्यानि लिखत -

उत्तरम् :
वाक्यानि
- अस्माकं कृषिप्रधाने देशे धेनूनाम् बहुमहत्त्वं वर्तते।
- दुग्धदातृषु पशुषु धेनूनां प्रमुखं स्थानं वर्तते।
- वसिष्ठ ऋषिः कामधेनोः पालनं करोति स्म।
- धेनोः द्वौ श्रृंगौ सर्वैः पूजनीयौ स्तः।
- धेनूनाम् अनेकवर्णाः भवन्ति।
- धेनवः स्वभावेन अतीव सरलाः भवन्ति।
प्रश्न 11.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'बुद्धेः चातुर्यम्' इति विषयोपरि संस्कृते षड्वाक्यानि लिखत

उत्तरम् :
वाक्यानि
- एकदा एकः काकः इतस्ततः अभ्रमत्।
- तदा सूर्यताप: अधिकः आसीत्। तेन अतीव तृषितः अभवत्।
- सः जलम् अन्वेष्टुम् उद्यानं प्रति गच्छति। तत्र एकं घटं पश्यति।
- तस्मिन् घटे अल्पम् जलम् आसीत्।
- सः घटे एकैकं प्रस्तरखण्डं निक्षिपति।
- तेन जलम् उपरि आगच्छति, जलं पीत्वा च काकः स्वस्य आवासं प्रति अगच्छत्।

प्रश्न 12.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'पर्यावरण-प्रदूषणम्' इति विषयोपरि संस्कृते षड्वाक्यानि लिखत

उत्तरम् :
वाक्यानि
- अद्य अस्माकं पर्यावरणम् अतीव दूषितं वर्तते।
- महानगरमध्ये बहूनि वाहनानि सततं धूमं मुञ्चन्ति।
- वाहनानां कोलाहलेनापि ध्वनि-प्रदूषणं भवति।
- तेषां धूमेन वायुमण्डलं भृशं प्रदूषितं भवति।
- पर्यावरण-प्रदूषणेन जीवनं कठिनं भवति।
- पर्यावरण-प्रदूषणेन प्राकृतिकम् असन्तुलनं भवति।

प्रश्न 13.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया स्वकक्षाविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत -

उत्तरम् :
वाक्यानि
- इदम् अस्माकं कक्षायाः चित्रं दृश्यते।
- अत्र एक: शिक्षकः पाठयति।
- छात्राः पुस्तकं पठन्ति।
- कक्षायाः वातावरणं रम्यं दृश्यते।
- कक्षायां छात्राः भित्तौ श्यामपट्ट प्रति पश्यन्ति।
- कक्षायां बालकाः बालिकाः च आसन्दिकासु तिष्ठन्ति।
प्रश्न 14.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया वर्षाकालविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे वर्षा, मम विद्यालयः च दृश्यते।
- वर्षाकाले मेघः उच्चैः गर्जति।
- वर्षाकाले नीडे पक्षिशावकः तिष्ठति।
- एकः बालकः एका बालिका च छत्रं धृत्वा विद्यालयं प्रति गच्छतः।
- वर्षाकाले सर्वं जलमयं दृश्यते।
- वर्षाकाले आकाशे मेघाः गर्जन्ति।

प्रश्न 15.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया जन्तुशालाविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- इदं जन्तुशालायाः चित्रम् अस्ति।
- जन्तुशालायां अनेके पशवः सन्ति।
- पञ्जरे एकः सिंहः अस्ति।
- जले द्वौ बको क्रीडतः।
- शिशवः भगिन्या सह तत्र गच्छन्ति।
- जन्तुशालायां विविधाः जनाः प्रतिदिनं आगच्छन्ति।
प्रश्न 16.
अधः चित्रं दृष्ट्वा मञ्जू पायां प्रदत्तशब्दानां सहायतया उपवनविषये षड् वाक्यानि संस्कृतभाषायाम् लिखत -

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे रम्यम् उपवनम् अस्ति।
- उपवने बालकः, बालिका, नारी च भ्रमन्ति।
- आकाशे सूर्यः खगाश्च सन्ति।
- अत्र पुष्पाणि अपि सन्ति।
- उपवने राजमार्गः अपि दृश्यते।
- उपवने बालिका: दोलाघिरोहणं कुर्वन्ति।

प्रश्न 17.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया गुरुकुलविषये षड् वाक्यानि संस्कृतभाषायाम् लिखत -

उत्तरम् :
वाक्यानि
- इदं चित्रं गुरुकुलस्य वर्तते।
- अत्र गुरुः पाठयति शिष्याः च पठन्ति।
- वृक्षे खगाः उत्पतन्ति।
- अत्र गुरोः कुटीरमपि दृश्यते।
- गुरुः वृक्षस्य अधः उपविशति।
- गुरुकुलस्य समीपं पर्वतः वर्तते।

प्रश्न 18.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'जलकूपस्य दृश्यम्' इति विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत -

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे तिस्रः महिलाः सन्ति।
- एका महिला कूपात् रज्ज्वा जलं निष्कासयति।
- द्वे महिले प्रतीक्षेते।
- एका महिला छात्रं जलं पाययति।
- वृक्षस्य समीपं गगने खगाः उड्डयन्ते।
- कूपस्य समीपं गृहाणि सन्ति।
प्रश्न 19.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया परीक्षाकक्ष-विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे परीक्षायाः दृश्यं दृश्यते।
- अत्र एक: छात्र: एका छात्रा च वार्ता कुरुतः।
- भित्तौ घटिकायन्त्रम् अस्ति।
- श्यामपटे 'परीक्षा' इति शब्दः लिखितः।
- गवाक्षे सूर्यः अपि दृश्यते।
- परीक्षाकक्षस्य भित्तौ भारतदेशस्य मानचित्रम् अस्ति।

प्रश्न 20.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'रुग्णः पुत्रः' इति विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे रुग्णः पुत्रः दृश्यते।
- तस्य समीपे फलानि, जलपात्रं दुग्धपात्रं च सन्ति।
- चिकित्सकः निरीक्षणं करोति औषधं च लिखति।
- सः तस्मै औषधं यच्छति।
- माता-पिता च तस्य समीपं तिष्ठतः।
- रुग्णपुत्रस्य कक्षं स्वच्छं वर्तते।
प्रश्न 21.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया जलौघस्य दृश्यविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत -

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे जलौघस्य दृश्यम् वर्तते।
- ग्रामस्य गृहाणि क्षेत्राणि च जलमग्नानि दृश्यन्ते।
- वें बालिके, द्वौ बालको, तेषां माता, अजशावकः च गृहस्य उपरिष्टात् तले स्थिताः।
- ते अतीव दुःखिताः अभवन्, तेषां दयनीया दशा वर्तते।
- ग्रामे सर्वत्र जलं वर्तते, अन्य किमपि न दृश्यते।
- आकाशे मेघाः गर्जन्ति वर्षन्ति च।

प्रश्न 22.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया वाटिकाया: शोभा-विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे वाटिका शोभते।
- चित्रे सायंकाले चन्द्रः दृश्यते।
- वृक्षे वानरः फलानि खादति।
- वाटिकायां मञ्चः बालकः बालिका, लघपादपाः च दश्यन्ते।
- गगने खगाः उत्पतन्ति, फलानि च वृक्षात् अधः पतन्ति।
- वाटिकायाम् एका आसन्दिका वर्तते, यत्र जनाः उपविशन्ति।
प्रश्न 23.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया स्वतंत्रतादिवसविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- इदं चित्रं स्वतन्त्रतादिवस समारोहस्य वर्तते।
- अस्मिन् चित्रे रक्तदुर्गे ध्वजोत्तोलनं क्रियते।
- जनाः स्वतन्त्रतादिवससमारोहः मनोयोगपूर्वकं पश्यन्ति।
- स्वतन्त्रतादिवसः प्रतिवर्ष अगस्तमासस्य पञ्चदशतारिकायां आयोज्यते।
- अस्मिन् दिवसे भारतदेशः स्वतन्त्रः अभवत्।
- स्वतन्त्रतादिवसस्य मुख्यसमारोहः देहल्यां भवति।

प्रश्न 24.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया श्रीकृष्णस्य जन्मदिवसविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- इदं चित्रं श्रीकृष्णजन्म-दिवसस्य वर्तते।
- श्रीकृष्णस्य मातुः नाम देवकी पितुश्च वासुदेवः आसीत्।
- श्रीकृष्णस्य जन्म कंसराजस्य कारागारे अभवत्।
- वसुदेवः श्रीकृष्णं यमुनामार्गेण नन्दग्रामम् अनयत्।
- शेषनागेन श्रीकृष्णस्योपरि छत्रस्य कार्यं कृतम्।
- यमुनायाः जलं वसुदेवस्य आकण्ठम् आसीत्।
प्रश्न 25.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया रक्षाबन्धनोत्सवविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत

उत्तरम् :
वाक्यानि
- इदं चित्रं रक्षा-बन्धनोत्सवस्य वर्तते।
- रक्षाबन्धनं प्रतिवर्ष श्रावणमासस्य पूर्णिमायां भवति।
- अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।
- भ्राता भगिन्यै उपहारं ददाति।
- रक्षाबन्धनं भ्रातृभगिन्योः प्रेम्णः दिवसः वर्तते।
- रक्षाबन्धनदिवसे संस्कृत-दिवसः अपि भवति।

प्रश्न 26.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'स्वच्छताभियानम्' इति विषये षड्वाक्यानि संस्कृतभाषायां लिखत

उत्तरम् :
वाक्यानि
- चित्रे बालिकाः अध्यापकाश्च स्वच्छताकार्यं कुर्वन्ति।
- अधुना भारतदेशे सर्वत्र स्वच्छताभियानं प्रचलति।
- विद्यालयेषु शिक्षका: छात्रान् प्रेरयन्ति।
- छात्राणां समूहः स्वस्य विद्यालये स्वच्छतां करोति।
- अत्र अनेकाः बालिकाः शिक्षकाः च सार्वजनिकस्थलस्य स्वच्छतां कुर्वन्ति।
- अस्माभिः स्वस्य परिवेशं स्वच्छं करणीयम्।
प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया स्वच्छता विषये षड्वाक्यानि संस्कृतभाषायां लिखत

उत्तरम् :
वाक्यानि-
- इदम् चित्रं स्वच्छताकार्यक्रमस्य वर्तते।
- चित्रे छात्राः अन्ये जनाश्च स्वच्छताकार्यं कुर्वन्ति।
- अद्य सर्वे जनाः अभियानरूपेण स्वच्छताकार्ये संलग्नाः सन्ति।
- ते सार्वजनिकस्थलानां स्वच्छतां कुर्वन्ति।
- सर्वत्र स्वच्छतायाः अस्माकं दायित्वम् अस्ति।
- अवकरपात्रेषु एव अवकरं स्थापनीयम्।

प्रश्न 28.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया सड़कसुरक्षाविषये षड्वाक्यानि संस्कृतभाषायां लिखत

उत्तरम् :
वाक्यानि
- इदं चित्रं सड़कदुर्घटनायाः वर्तते।
- तीव्रतया वाहनचालनेन दुर्घटना भवति।
- वाहनस्य समुचितनियन्त्रणाभावेन दुर्घटना भवति।
- चतुष्पथेषु सावधानतया गन्तव्यम्।
- सड़कसुरक्षार्थं यातायातस्य नियमानां पालनं कर्त्तव्यम्।
- वाहनस्य गतिः नियन्त्रिता भवेत्।
प्रश्न 29.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया सड़कसुरक्षाविषये षड्वाक्यानि संस्कृतभाषायां लिखत

उत्तरम् :
वाक्यानि
- इदं चित्रं राजमार्गस्य वर्तते।
- चित्रे द्वौ बालकौ स्वस्य मात्रा सह राजमार्गे गच्छतः।
- राजमार्गे कारयाने स्वनिर्धारितपंक्तौ स्तः।
- सड़कसुरक्षार्थं यातायातस्य नियमाः पालनीयाः।
- वाहनस्य गतिनियमानां पालनं करणीयम्।
- राजमार्गे निर्धारितमार्गेषु एव गन्तव्यम्।

प्रश्न 30.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया "पुत्रीं रक्षत पुत्रीं पाठयत" इतिविषये षड्वाक्यानि संस्कृतभाषायां लिखत

उत्तरम् :
वाक्यानि
- अस्मिन् चित्रे "पुत्रीं रक्षत पुत्रीं पाठयत" इति ध्येयवाक्यं लिखितम्।
- चित्रे एका छात्रा वर्तते।
- तस्याः हस्ते पुस्तकं वर्तते।
- अद्य सर्वत्र बालिकानां संरक्षणस्य तासां शिक्षायाः च प्रचार-प्रसारः प्रचलति।
- भ्रूणहत्या महत्पापं मन्यते।
- स्त्री एव सन्ततेः प्रथमा शिक्षिका भवति।