RBSE Class 7 Sanskrit रचना कथालेखनम्

Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना कथालेखनम् Questions and Answers, Notes Pdf.

RBSE Class 7 Sanskrit Rachana कथालेखनम्

निर्देश: - मञ्जूषायां प्रदत्तशब्दानां सहायतया कथां पूरयित्वा लिखत - 
(मञ्जूषा से उचित पदों को चुनकर रिक्त स्थान पूर्ण करते हुए कथा को पूरा कीजिए।)
1. बुद्धिमान् शिष्यः 
(पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव, सर्वव्यापी, नास्ति, समाधानम्) काशीनगरे एकः ........... अस्ति। पण्डितसमीपम् एकः ........... आगच्छति। शिष्यः वदति-"आचार्य ! अहं ........... आगतवान्! पण्डितः शिष्यबुद्धिं ........... पृच्छति-"वत्स! देवः कुत्र अस्ति?' शिष्यः वदति-गुरो! देवः कुत्र .........। कृपया भवान् एवं वदतु। सन्तुष्ट : गुरु वदति-देवः सर्वत्र अस्ति। देवः ..........। त्वम् बुद्धिमान्, अतः विद्याभ्यासार्थम् ............ वस। 
उत्तरम् : 
काशीनगरे एकः पण्डितः अस्ति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदति-"आचार्य! अहं विद्याभ्यासार्थम् आगतवान् ! पण्डितः शिष्यबुद्धिं परीक्षार्थम् पृच्छति-"वत्स! देवः कुत्र अस्ति?' शिष्यः वदति-गुरो ! देवः कुत्र नास्ति। कृपया भवान् एवं वदतु। सन्तुष्टः गुरु वदति-देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वम् बुद्धिमान्, अतः विद्याभ्यासार्थम् अत्रैव वस।

RBSE Class 7 Sanskrit रचना कथालेखनम्

2. चतुरः काकः 
(काकः, उपायं, उपरि, प्रस्तरखण्डान्, जलार्थ, पिबामि, बहुदूरं, जलं, घट, सन्तोषः, स्वल्पम् पिबति, तृषितः) 
एक: .......... अस्ति। सः बहु .......। सः ......... भ्रमति। तदा ग्रीष्मकालः कुत्रापि .......... नास्ति। काकः .......... गच्छति। तत्र सः एकं ......... पश्यति। काकस्य अतीव ......... भवति। किन्तु घटे .......... एव जलम्। अस्ति। जलं कथं .........? इति काकः चिन्तयति। सः एकम् .......... करोति। ............ आनयति। घटे पूरयति। जलम् ............ आगच्छति। काकः सन्तोषेण जलं .........। ततः गच्छति। उत्तरम् : 
एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः कुत्रापि जलं नास्ति। काक: बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति। काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वल्पम् एव जलम्। अस्ति। जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। प्रस्तरखण्डान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति। ततः गच्छति।

Prasanna
Last Updated on June 30, 2022, 9:14 a.m.
Published June 28, 2022