Rajasthan Board RBSE Solutions for Class 12 Sanskrit अपठितावबोधनम् Questions and Answers, Notes Pdf.
The questions presented in the RBSE Solutions for Class 12 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 12 all subjects will help students to have a deeper understanding of the concepts. Read संस्कृत में कारक written in simple language, covering all the points of the chapter.
अपठित-गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि -
1. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
कस्मिंश्चित् अरण्ये अनेके पशवः वसन्ति स्म। एकदा पशूनां राजा सिंहः रोगपीड़ितः अभवत्। एकं शृगालं विहाय सर्वे पशवः रोगपीड़ितं नृपं द्रष्टुमागताः। एकः उष्ट्रः नृपाय एतत् न्यवेदयत् यत् अहंकारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः । एतच्छ्रुत्वा सिंहः क्रोधितोऽभवत्। स्वमित्रैः एतत्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः । क्रोधितेन सिंहेन विलम्बेन आगमनकारणं पृष्टः शृगालोऽवदत् यदहं तु सर्वप्रथममागन्तुम् ऐच्छम् परं चिकित्सकात् औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा प्रसन्नः सिंहः औषधविषये पृष्टवान्। शृगाल: अवदत् यत्तेन औषधिस्तु न दत्ता परं चिकित्साक्रमम् उक्तवान् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति। तदा सिंहः उष्ट्रमाहूय भक्त्या आगतं तं मारयित्वा तस्य रक्तं पीतवान् एवं स्वपिशुनतायाः दुष्फलम् उष्ट्रेण स्वयमेव प्राप्तम्।
प्रश्ना :
(क) अनेके पशवः कुत्र वसन्ति स्म ?
(ख) शृगालः शीघ्रमेव कस्य समीपे प्राप्तः ?
(ग) उष्ट्रेण कस्याः दुष्फलं प्राप्तम् ?
(घ) रोगपीड़ितः कः अभवत् ?
(ङ) “पृष्टः' - अत्र कः प्रत्ययः प्रयुक्तः ?
उत्तराणि :
(क) अनेके पशवः अरण्ये वसन्ति स्म।
(ख) शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः।
(ग) उष्ट्रेव स्वपिशुनतायाः दुष्फलं प्राप्तम्।
(घ) सिंहः रोगपीड़ितः अभवत् ।
(ङ) “पृष्टः' अत्र क्त प्रत्ययः।
2. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
गङ्गा सर्वासां नदीनां श्रेष्ठा अस्ति। सा लोकत्रयस्य कल्याणकारिणी अस्ति।सा भौतिकसुखदृष्ट्या आध्यात्मिक सुखदृष्ट्या कल्याणप्रदा। यं गङ्गा पूर्णरूपेण समर्पितो-भवति, तस्य जीवनं धन्यं भवति। इह संसारे यः जनः राज्ञा भगीरथेन आनीतां भगवतीं गङ्गां सदा वन्दते स एव शोभन: चतुरः कथ्यते। यः जनः आदरपूर्वकं जह्नतनयां मनसा ध्यायति, स एव सम्यक् तपस्वी भवति। यः गङ्गायाः नामानि गुणान् च सदा स्मरति, स एव श्रेष्ठः पुरुषः कथ्यते। यस्य जनस्य देवनदी प्रति सेवाभावना अस्ति, यथार्थरूपेण स एव कर्मयोगी अस्ति, स एव सर्वेषां स्वामी भवति।
प्रश्नाः
(क) सर्वासां नदीनां श्रेष्ठा नदी का अस्ति ?
(ख) इह संसारे गङ्गां कः आनीतवान् ?
(ग) यः आदरपूर्वकं जनुतनयां ध्यायति सः किं भवति ?
(घ) यस्य देवनदी प्रति सेवाभावना अस्ति, स किम् अस्ति ?
(ङ) 'श्रेष्ठः' इत्यत्र कः प्रत्ययः ?
उत्तराणि :
(क) सर्वासां नदीनां श्रेष्ठा नदी गङ्गा अस्ति।
(ख) इह संसारे गङ्गां भगीरथः आनीतवान्।
(ग) यः आदरपूर्वकं जहनुतनयां ध्यायति सः सम्यक् तपस्वी भवति।
(घ) यस्य देवनदी प्रति सेवाभावना अस्ति, स कर्मयोगी अस्ति।
(ङ) 'श्रेष्ठः' इत्यत्र - 'इष्ठन्' प्रत्ययः।
3. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
सत्सङ्गति धियः जाड्यं हरति। वाचि सत्यं सिञ्चति। मानोन्नतिं करोति। पापम् अपाकरोति। मनः प्रसादयति। सर्वत्र यशः तनोति। कथय, मनुष्याणां कृते सत्सङ्गति किं न करोति, अर्थात् सर्वेषामेव उत्तमगुणानां विकासं करोति। ईदृशः अस्ति सत्सङ्गतेः महिमा। अयम् एकः स्वाभाविकः अभिप्रायोऽस्ति यत् मनुष्यस्य सङ्गतिः यादृक्प्रवृत्तिधारकेण सह भवति, सः तादृशः एव भवति। यदि तस्य उत्थानम् उपवेशनं दुष्टैः सह, तदा सोऽपि भविष्यति।परं सज्जनैः साकं संसर्गात् स एव जनः सुजनः भवितुं शक्नोति।प्रभावस्तु अवश्यमेव पतति अन्योऽन्ययोः, एतत् तु स्वीकरणीयमेव जायिष्यते। यदा वयं सङ्गतेः प्रभावं जडपदार्थेषु पश्यामः, तदा चेतनः प्राणी कथं नु प्रभवितुं क्षमते।
प्रश्नाः
(क) सत्सङ्गतिः धियः किं हरति ?
(ख) सत्सङ्गतिः केषां विकासं करोति ?
(ग) सज्जनैः सह सङ्गतिना जनः कीदृशः भवितुं शक्नोति ?
(घ) सङ्गतेः प्रभावः वयं केषु पदार्थेषु पश्याम: ?
(ङ) 'भवितुम्' अत्र कः प्रत्ययः ?
उत्तराणि :
(क) सत्सङ्गतिः धियः जाड्यं हरति।
(ख) सत्सङ्गतिः सर्वेषाम् उत्तमगुणानां विकासं करोति।
(ग) सज्जनैः सह सङ्गतिना जनः सुजनः भवितुं शक्नोति।
सङ्गतेः प्रभावः वयं जडपदार्थेषु पश्यामः।
(ङ) 'भवितुम्' अत्र - 'तुमुन्' प्रत्ययः।
4. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
'रघुवंशम्' कालिदासप्रणीतम् एकं महाकाव्यम्। एतस्य एकोनविंशतिसर्गेषु सूर्यवंशिनां नृपाणां कीर्तिगानम् अस्ति। अस्य महाकाव्यस्य कथानकं रामायणे पुराणेषु च आधारितम्। प्रथमे सर्गे सूर्यवंशिराज्ञां वर्णनानन्तरं दिलीपस्य चरित्रस्य, तस्य अपत्यहीनत्वेन वसिष्ठस्य आश्रमे गमनस्य च वर्णनं वर्तते। द्वितीये सर्गे दिलीपस्य नन्दिन्याः सेवया पुत्रप्राप्तिवरदानस्य च चित्रणम् अस्ति। तृतीये सर्गे रघुजन्मनः वर्णनम्। चतुर्थे सर्गे रघोः दिग्विजयनिरूपणम्। अतः परेषु सर्गेषु रघोः सर्वस्वदानम्, अजजन्म, अजस्य विजयः, राज्यशासनम्, अज विलापः, दशरथजन्म, रामकथा-आदिकानि घटनानि वर्णितानि सन्ति। सम्भाव्यते कवेः देहान्तरस्य हेतोः काव्यस्य अन्तः भवति यतो हि कथायाः विधिवत् समाप्तिर्न जाता अस्ति। एतत् कालिदासस्य द्वितीयं महाकाव्यम् अस्ति। संस्कृतकाव्यशास्त्र-परम्परया इदं श्रेष्ठं महाकाव्यं स्वीकृतम्।
प्रश्ना :
(क) केषां कीर्तिगानम् अस्ति ?
(ख) दिलीप: केन कारणेन वसिष्ठस्य आश्रमे अगच्छत् ?
'रघुवंशम्' केन प्रणीतं महाकाव्यम् ?
(घ) काव्यशास्त्रपरम्परया इदं कीदृशं महाकाव्यं स्वीकृतम् ?
(ङ) गमनम्' अत्र कः प्रत्ययः ?
उत्तराणि :
(क) सूर्यवंशिनां नृपाणां कीर्तिगानम् अस्ति।
(ख) दिलीपः अपत्यहीनत्वेन वसिष्ठस्य आश्रमे अगच्छत्।
(ग) 'रघुवंशम्' कालिदासेन प्रणीतं महाकाव्यम्।
(घ) काव्यशास्त्रपरम्परया इदं श्रेष्ठं महाकाव्यं स्वीकृतम्।
(ङ) 'गमनम्' अत्र - 'ल्युट्' प्रत्ययः।
5. अधोलिखितगद्यांशं पठित्वा निम्नांकितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखेयु: -
आसीत् धारानगर्यां भोजो नाम राजा। सिंहासनम् अधिष्ठितः सः सुप्रबन्धं स्वराज्यं समृद्धमकरोत्। तस्य राज्ये विद्यार्थिनः विद्याभ्यासं, विद्वांसः च अध्यापनं कुर्वन्ति स्म। धनिनः विपत्तौ निर्धनानां साहाय्यं कुर्वन्ति स्म। भोजः एतादृशः गुणग्राही आसीत् यत् यः कोऽपि विद्वान् राजसदसि स्वकीयां कवितां, नवीनम् आविष्कारं वा प्रस्तौति स्म तस्मै भूयांसं पुरस्कारम् अयच्छत्।
प्रश्ना :
(क) भोजो नाम राजा कुत्र आसीत् ?
(ख) धनिनः केषां सहायतां कुर्वन्ति स्म?
(ग).. भोजः किं समृद्धम् अकरोत् ?
(घ) भोजस्य राज्ये विद्याभ्यासं के कुर्वन्ति स्म?
(ङ) भोजः कस्मै भूयांसं पुरस्कारम् अयच्छत् ?
उत्तराणि :
(क) भोजो नाम राजा धारानगर्याम् आसीत्।
धनिनः निर्धनानां सहायतां कुर्वन्ति स्म ।
(ग) भोजः स्वराज्यं समृद्धम् अकरोत् ।
(घ) भोजस्य राज्ये विद्याभ्यासं विद्यार्थिनः कुर्वन्ति स्म।
(ङ) भोजः विद्वद्भ्यः भूयांसं पुरस्कारम् अयच्छत्।
6. अधोलिखितगद्यांशं पठित्वा निम्नांकितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखेयुः -
नदी पर्वतेभ्यः निर्गत्य क्षेत्रेषु आगच्छति। प्रपात: तस्याः प्रथमावस्था अस्ति। शनैः शनैः सा सागरं प्रति गच्छति। तस्याः बालुकायुक्ततटेषु हरिताः तरवः भवन्ति। तेषां वृक्षाणामुपरि काकाः, चटकाः, शुकाः कोकिला: च वसन्ति। पक्षिणां कलरवैः, बालकानां क्रीडाभिः, स्त्रीणां, वार्तालापैः तस्याः तटा: गुञ्जायमानाः भवन्ति परं केचन जनाः अत्रागत्य मनोरञ्जनं कुर्वन्ति, खादन्ति, भोजनस्य अवशिष्टं च तस्याः जले एव पातयन्ति। एवं तस्यां जलं दूषितं भवति। दूषितं जलं स्वास्थ्याय अहितकरम् अस्ति। अतः जलं दूषितं न कर्त्तव्यम् यतः जलम् एव प्राणिनां जीवनम् अस्ति।
प्रश्ना :
(क) नद्याः प्रथमावस्था का ?
(ख) नदी केभ्यः निर्गत्य क्षेत्रेषु आगच्छति ?
(ग) कीदृशं जलं स्वास्थ्याय अहितकरम् ?
(घ) नद्याः तटाः कथं गुञ्जायमानाः भवन्ति ?
(ङ) जलं केषां जीवनम् ?
उत्तराणि :
(क) नद्याः प्रथमावस्था प्रपातः ।
(ख) नदी पर्वतेभ्यः निर्गत्य क्षेत्रेषु आगच्छति।
(ग) दूषितं जलं स्वास्थ्याय अहितकरम् ।
(घ) नद्याः तटाः पक्षिणां कलरवैः, बालकानां क्रीडाभिः, स्त्रीणां, वार्तालापैः गुञ्जायमानाः भवन्ति ।
(ङ) जलं प्राणिनां जीवनम्।
7. अधोलिखितगद्यांशं पठित्वा निम्नांकितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखेयु: -
आसीत् पुरा कस्मिंश्चित् वने निसर्गरमणीयं शान्तं पवित्रं किमपि आश्रमपदम्। तत्र तपः परायणा: ऋषयः वसन्ति स्म। ऋषीणां तपः प्रभावात् परस्परं वैरभावम् अपहाय पशवः पक्षिणश्च निर्भयं तत्र विचरन्ति स्म। आसीत् तत्र वरतन्तुनामा कुलपतिः। तत्र अनेके मेधाविनः पटवश्च बटवः अपठन्। तेषु कश्चन आकृत्या मृदुलः प्रकृत्या सरलः कौत्सनामा बटुः आसीत् अयं बालः स्वल्पेनैव कालेन वेदानां वेत्ता, पुराणानां पठिता, दर्शनशास्त्राणां विज्ञाता चाभवत्।
प्रश्ना :
(क) आश्रमपदं कीदृशम् आसीत् ?
(ख) आश्रमपदे के वसन्ति स्म ?
(ग) आश्रमे वरतन्तुः कः आसीत् ?
(घ) केषां प्रभावात् पशवः पक्षिणश्च आश्रमपदे निर्भयं विचरन्ति स्म ?
(ङ) कौत्सनामा बटुः केषां वेत्ता अभवत् ?
उत्तराणि :
(क) आश्रमपदं निसर्गरमणीयं शान्तं पवित्रं च आसीत्।
(ख) आश्रमपदे तपः परायणाः ऋषयः वसन्ति स्म।
(ग) आश्रमे वरतन्तुः कुलपतिः आसीत्।
(घ) ऋषीणां तपः-प्रभावात् पशवः पक्षिणश्च आश्रमपदे निर्भयं विचरन्ति स्म।
(ङ) कौत्सनामा बटुः वेदानां वेत्ता अभवत्।
8. अधोलिखितगद्यांशं पठित्वा निम्नांकितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखेयु: -
गङ्गाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन्। तत्र एकस्मिन् ग्रामे एकः जीर्ण: कूपः आसीत्। तस्मिन् कूपे मण्डूकानाम् अधिपतिः गङ्गदत्तः परिजनैः सह निवसति स्म। सः विनैव परिश्रमं प्रभुत्वं प्राप्नोत्। अतः गर्वितः अभवत्। तस्य दुर्व्यवहारेण केचित् प्रमुखाः भेकाः रुष्टाः जाताः। ते गङ्गदत्तं कूपात् बहिः कर्तुम् उद्यता: अभवन्। तद् ज्ञात्वा गंगदत्तः विषादम् अनुभवति स्म।"शत्रूणां नाशः कथं भवेत्।" इति एकान्ते चाटुकारैः सह मन्त्रणाम् अकरोत्।
प्रश्ना :
(क) गङ्गामुभयतः के आसन् ?
(ख) मण्डूकानामधिपतिः कः आसीत्?
(ग) सः कथं गर्वितः अभवत् ?
(घ) के गङ्गदत्तं कूपात् बहिः कर्तुम् उद्यताः अभवन् ?
(ङ) गंगदत्तः कैः सह मन्त्रणामकरोत् ?
उत्तराणि
(क) गङ्गामुभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन् ।
(ख) मण्डूकानामधिपतिः गङ्गदत्तः आसीत् ।
(ग) 'सः विनैव परिश्रमं प्रभुत्वं प्राप्नोत्, अतः सः गर्वितः अभवत्।
(घ) प्रमुखाः भेका: गङ्गदत्तं कूपात् बहिः कर्तुम् उद्यताः अभवन् ।
(ङ) गंगदत्तः चाटुकारैः सह मन्त्रणामकरोत् ।
9. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
अद्यत्वे विज्ञानस्य प्रभावः सर्वत्र दृश्यते। वैज्ञानिकाः आविष्कारैः न केवलं विस्मापयन्ति, अपितु मनोविनोदम् अपि कुर्वन्ति। अद्य दूरदर्शनं विज्ञानस्य अद्भुतः चमत्कारः। अस्य आविष्कारः मूलतः 'मारकोनी' महोदयेन कृतः। अयं आकाशवाण्याः एव विकसित: प्रयासः अस्ति। वयम् आकाशवाणीयन्त्रैः अभीष्टस्थानस्य कार्यक्रम एव आकर्णयामः, परं दूरदर्शनेन वयं दर्शनमपि कुर्मः। साम्प्रतं दूरदर्शनं संचारव्यवस्थायाः प्रमुखं साधनमस्ति।
प्रश्ना :
(क) कस्य प्रभावः सर्वत्र दृश्यते ?
(ख) विज्ञानस्य अद्भुतः चमत्कारः किमस्ति ?
(ग) अस्य आविष्कारः केन कृतः ?
(घ) दूरदर्शनं संचारव्यवस्थायाः कीदृशं साधनमस्ति ?
उत्तराणि :
(क) विज्ञानस्य प्रभावः सर्वत्र दृश्यते ।
(ख) विज्ञानस्य अद्भुतः चमत्कार: दूरदर्शनम् अस्ति।
(घ) अस्य आविष्कारः 'मारकोनी' महोदयेन कृतः। दूरदर्शनं संचारव्यवस्थायाः प्रमुखं साधनमस्ति।
10. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
सज्जानानाम् आचारः सदाचारः कथ्यते। जीवने सदाचारस्य स्थानं महत्त्वपूर्णम् अस्ति। आचारवान् पुरुषः सर्वत्र पूज्यते। सदाचारात् एव मनुष्यः दीर्घमायुः वैभवं च प्राप्नोति। यतः यः नरः सर्वलक्षणहीनः अपि अस्ति, परं सदाचारवान् अस्ति, स शतं वर्षाणि जीवति। सद्व्यवहारस्य बलेनैव मनुष्याः सुन्दरान् गुणान् अर्जयितुं समर्थाः भवन्ति। जन: उन्नतिं करोति। आचारहीनाः जनाः अपवित्राः भवन्ति। वेदाः अपि तान् रक्षितुं तं समर्थाः भवन्ति। सर्वस्य तपसः मूलं सदाचारः एव अस्ति। अतएव सदाचरणं सर्वेषाम् कृते अत्यावश्यकम् अस्ति।
प्रश्ना :
(क) सदाचारः किम् कथ्यते ?
(ख) जीवने कस्य स्थानं महत्त्वपूर्णम् अस्ति ?
(ग) सदाचारः कस्य मूलम् अस्ति ?
(घ) कः सर्वत्र पूज्यते ?
उत्तराणि
(क) सज्जनानाम् आचारः सदाचारः कथ्यते।
(ख) जीवने सदाचारस्य स्थानं महत्त्वपूर्णम् अस्ति।
(ग) सदाचारः सर्वस्य तपसः मूलम् अस्ति।
(घ) आचारवान् पुरुषः सर्वत्र पूज्यते।