RBSE Solutions for Class 7 Sanskrit
Rajasthan Board RBSE Class 7 Sanskrit Chapter 6 स्वास्थ्यम्
RBSE Class 7 Sanskrit स्वास्थ्यम् पाठ्य-पुस्तक के प्रश्नोत्तर
प्रश्न 1.
निम्नपदानाम् उच्चारणं कुरुत ह्यः, क्षुधाभावः, उदरपीडा, मार्गदर्शनम्, स्वीकुरु, सिद्धासनं, मनोनिग्रहार्थम्।
उत्तरम्:
[नोट – उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]
प्रश्न 2.
निम्नलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) सरलायाः कृते औषधयोजनां कः अकरोत् ?
उत्तरम्:
योगशिक्षिका।
(ख) शरीरं चित्तं च केन स्वस्थं भवति ?
उत्तरम्:
योगेन।
(ग) कः कालः योगाय उचितः भवति ?
उत्तरम्:
प्रात:कालः।
(घ) श्वासोच्छ्वसनं केन नियन्त्रितः भवति ?
उत्तरम्:
प्राणायामेन।
प्रश्न 3.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
प्राकृतिकः, योगस्य, मार्गदर्शनम्, पीडा
उत्तरम्:
(क) स्थगिते औषधे पुनः पीडा प्रादुर्भवति।
(ख) योगशिक्षिकायाः मार्गदर्शनं स्वीकुरु।
(ग) योगस्य अभ्यासेन अनेके लाभाः सम्भवन्ति।
(घ) योगः प्राकतिकः उपचारः।।
प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) योगाभ्यासेन कार्ये कौशलं जायते।
(ख) आसनानि सन्धिरोगान् उन्मूलयन्ति।
(ग) अहं श्वः योगशिक्षिकया सह मेलिष्यामि।
(घ) सर्वं गुरोः निर्देशने करणीयम्।
उत्तरम्:
प्रश्ननिर्माणम् –
(क) केन कार्ये कौशलं जायते?
(ख) आसनानि कान् उन्मूलयन्ति?
(ग) अहं श्वः कया सह मेलिष्यामि?
(घ) सर्वं कस्य निर्देशने करणीयम्?
प्रश्न 5.
विलोमपदानि योजयत –
(क) उपस्थिताः – सायंकालः
(ख) स्वस्थः
(ग) सुकरं – हानयः
(घ) लाभाः – अस्वस्थः
(ङ) प्रातःकालः – अनुपस्थिताः
उत्तरम्:
(क) उपस्थिताः – अनुपस्थिताः।
(ख) स्वस्थः – अस्वस्थः।
(ग) सुकरं – दुष्करम्।
(घ) लाभाः – हानयः।
(ङ) प्रात:कालः – सायंकालः।
प्रश्न 6.
निम्नपदानि आधारीकृत्य वाक्यनिर्माणं कुरुत।
वैद्यः, औषधिः, रोगान्, सुकरं, अपश्यत्, कक्षायाम्
उत्तरम्:
- वैद्यः मम चिकित्सा करोति।
- तस्य रोगस्य औषधिः नास्ति।
- योगः रोगान् उन्मूलयति।
- इदं कार्य सुकरम् अस्ति।
- सा चित्रम् अपश्यत्।
- रमा कक्षायां पाठं पठति।
प्रश्न 7.
रेखाङ्कितपदानि आधृत्य रूपाणि परिवर्तयत।
बालकः कन्दुकेन क्रीडति।
यथा – चमसः – चमतः
उत्तरम्:
(क) चषकः – चषकेन
(ख) दर्पणः – दर्पणेन
(ग) दीपः – दीपेन
(छ) लता – लतया
बालिका द्विचक्रिकया गच्छति
शाटिका – शाटिकया।
(ङ) माला – मालया।
(च) शाखा – शाखया
(घ) जलम् – जलेन
(ज) स्थालिका – स्थालिकया
नापितः कर्तर्या केशान् कर्तयति
लेखनी – लेखन्या
(झ) द्रोणी – द्रोण्या
(ब) नगरी – नगर्या
(ट) नर्तकी – नर्तक्या
(ठ) नारी – नार्या
प्रश्न 8.
कोष्ठके प्रदत्त शब्दस्य उचितरूपेण वाक्यं पूरयत।
(क) वृद्धः ………….. गच्छति।(दण्डः)
(ख) ……………. प्रकाशः भवति। (गोलदीपः)
(ग) भगिनी …………. शाकं कर्तयति। (छुरिका)
(घ) लेखिका …………… लिखति ।(लेखनी)
(ङ) अधिकारी ……………. कार्यालयं गच्छति। (कारयानम्)
उत्तरम्:
(क) वृद्धः दण्डेन गच्छति।
(ख) गोलदीपेन प्रकाशः भवति।
(ग) भगिनी छुरिकया शाकं कर्तयति।
(घ) लेखिका लेखन्या लिखति।।
(ङ) अधिकारी कारयानेन कार्यालयं गच्छति।
प्रश्न 9.
तृतीयाविभक्तेः द्विवचने बहुवचने च रूपाणि परिवर्तयत
उत्तरम्:
प्रश्न 10.
अधोलिखितानि रिक्तस्थानानि पूरयत –
उत्तरम्:
RBSE Class 7 Sanskrit स्वास्थ्यम्अ न्य महत्त्वपूर्ण प्रश्नोत्तर
RBSE Class 7 Sanskrit स्वास्थ्यम्व स्तुनिष्ठप्रश्नाः
प्रश्नाः 1.
‘स्वास्थ्यम्’ इति पाठस्य क्रमः अस्ति –
(क) षष्ठः
(ख) अष्टमः.
(ग) दशमः।
(घ) द्वादशः
उत्तरम्:
(क) षष्ठः
प्रश्नाः 2.
‘वैद्येन’ इति पदे विभक्तिः अस्ति –
(क) द्वितीया
(ख) पंचमी
(ग) तृतीया
(घ) सप्तमी
उत्तरम्:
(ग) तृतीया
प्रश्नाः 3.
‘योगोपचारः’ इति पदस्य सन्धिविच्छेदः भवति –
(क) योगो + उपचारः
(ख) योग + उपचारः
(ग) योग + अपचारः
(घ) योग + पचारः
उत्तरम्:
(ख) योग + उपचारः
प्रश्नाः 4.
‘गत्वा’ पदे प्रत्ययः अस्ति –
(क) ल्यप्
(ख) तव्यत्
(ग) शतृ
(घ) क्त्वा
उत्तराणि:
(घ) क्त्वा
कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –
- वर्षत्रयाद् …………… पीडा अस्ति। (एतत्, एषः, एषा)
- सा ……………. सह परामृष्टवती। (वैद्यं, वैद्येन, वैद्यः)
- ……………… अपि भागं स्वीकुरू। (त्वम्, युवां, युयम्)
- पुनरागमनाय ………….. भवती। (गच्छन्तु, गच्छतु, गच्छ)
उत्तराणि:
- एषा
- वैद्येन
- त्वम्
- गच्छतु।
RBSE Class 7 Sanskrit स्वास्थ्यम्अ तिलघूत्तरात्मक
एकपदेन उत्तरत
प्रश्न 1.
सरलायाः पीडा कति वर्षेभ्यः अस्ति ?
उत्तरम्:
त्रिवर्षेभ्यः।
प्रश्न 2.
सरला रविवासरे कुत्र गच्छति ?
उत्तरम्:
योगशिक्षिकासमीपम्।।
प्रश्न 3.
केन श्वासोच्छ्वसनं नियन्त्रितं भवति ?
उत्तरम्:
प्राणायामेन।
प्रश्न 4.
कः प्राकृतिकः उपचारः ?
उत्तरम्:
योगः।
RBSE Class 7 sanskrit स्वास्थ्यम्ल घूत्तरात्मक प्रश्ना:
पूर्णवाक्येन उत्तरत
प्रश्न 1.
रात्रौ कस्याः महती अर्धशिरोवेदना आसीत् ?
उत्तरम्:
रात्रौ सरलायाः महती अर्धशिरोवेदना आसीत् ।
प्रश्न 2.
यदा औषधसेवनं रोगान् न उन्मूलयति, तदा किं कर्तव्यम् ?
उत्तरम्:
यदा औषधसेवनं रोगान् न उन्मूलयति, तदा योगोपचारः कर्तव्यः।।
प्रश्न 3.
योगोपचारः कथं भवति ?
उत्तरम्:
विविधैः आसनैः प्राणायामेन च योगोपचारः भवति।
प्रश्न 4.
शिक्षिका सरलां कया सह मेलितुं प्रेरितवती ?
उत्तरम्:
शिक्षिका सरलां योगशिक्षिकया सह मेलितुं। प्रेरितवती।
पाठ-परिचय:
स्वस्थ शरीर में स्वस्थ मन का निवास होता है। इसलिए शरीर को नीरोग रखना अति आवश्यक है। हमारी भारतीय संस्कृति में दिन का प्रारम्भ स्वास्थ्य की रक्षा करने एवं सभी प्रकार से नीरोग रहने के लिए भ्रमण, योग आदि से करने की प्रेरणा दी गई है। प्रस्तुत पाठ में शरीर को नीरोग रखने के लिए योग के महत्त्व को बतलाया गया है।
पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्
(1) अध्यापिका – सरले! ह्यः त्वं कक्षायां किमर्थम् न। उपस्थितवती ?
सरला – महोदये! रात्री महती अर्धशिरोवेदना आसीत्।
अध्यापिका – प्रथमवारम् एव जाता वा ?
सरला – नहि महोदये! वर्षत्रयाद् एषा पीडा अस्ति पूर्वम् सह्या आसीत् किन्तु इदानीं तु असह्या।
अध्यापिका – अतीव चिन्तनीयमिदम्। वैद्येन सह परामृष्टवती किम् ?
सरला – आम्। परामृष्टवती किन्तु वैद्येन दत्तम् औषधम् खादामि तदा पीडा शाम्यति अनन्तरम् तु पुनः वर्धते।
हिन्दी-अनुवाद:
अध्यापिका – सरला! कल तुम कक्षा में किसलिए उपस्थित नहीं थी ?
सरला – महोदया! रात में अत्यधिक आधे शिर में दर्द था।
अध्यापिका – क्या प्रथम बार ही हुआ है ?
सरला – नहीं महोदया! तीन वर्षों से यह पीड़ा है, पहले सहन करने योग्य थी, किन्तु अब तो असहनीय है।
अध्यापिका – यह तो अन्यन्त चिन्ता करने (शोचनीय) योग्य है। क्या वैद्य के साथ परामर्श किया
सरला – हाँ। परामर्श किया है, किन्तु वैद्य के द्वारा दी गई दवा को खाती हूँ तब तो पीड़ा शान्त रहती है, उसके बाद तो फिर से बढ़ जाती है।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना – (क), एकपदेन उत्तरत –
(i) सरलायाः रात्रौ का वेदना आसीत् ?
(ii) सरलायाः पीडा पूर्वं कीदृशी आसीत् ?
(ख) पूर्णवाक्येन उत्तरत –
(i) सरला कति वर्षात् पीडिता आसीत् ?
(ii) सरला केन सह परामृष्टवती ?
(ग) ‘रात्रौ’ इतिपदे का विभक्तिः, किञ्च वचनम् ?
(घ) ‘सह्या’ इति पदस्य विलोमपदं चित्वा लिखत।
(ङ) ‘खादामि’ इति पदे कः लकारः, कः पुरुषः, किञ्च वचनम् ?
उत्तराणि:
(क) (i) अर्धशिरोवेदना।
(ii) सह्या।
(ख) (i) सरला त्रिवर्षात् पीडिता आसीत्।
(ii) सरला वैद्येन सह परामृष्टवती।
(ग) सप्तमी, एकवचनम्।
(घ) असह्या।
(ङ) लट्लकारः, उत्तमपुरुषः, एकवचनम्।
(2) अध्यापिका – यदा औषधसेवनं रोगान् न उन्मूलयति, तदा योगोपचारः कर्तव्यः। योगकक्षा गत्वा योगशिक्षिकायाः मार्गदर्शनं स्वीकुरु। सा चिकित्सां करिष्यति।
सरला – योगोपचारः कथं भवति।
अध्यापिका – विविधैः आसनैः प्राणायामेन च। यथा पद्मासनम्, भ्रामरी, अनुलोम-विलोमः, कपालभातिः, इत्यादीनि।
सरला – तर्हि श्वः रविवासरः अस्ति। अहं श्वः एव योगशिक्षिकया सह मेलिष्यामि।
हिन्दी-अनुवाद:
अध्यापिका – जब दवा का सेवन भी रोगों को नष्ट नहीं करता है, तब योग का उपचार करना चाहिए। योग की कक्षा में जाकर योगशिक्षिका से मार्गदर्शन स्वीकार करो/लो। वह उपचार करेगी। सरला – योग से उपचार कैसे होता है ?
अध्यापिका – विभिन्न आसनों और प्राणायाम से। जैस पद्मासन, भ्रामरी, अनुलोम-विलोम, कपालभाति आदि।
सरला – तो कल रविवार है। मैं कल ही योग शिक्षिका से मिलूँगी।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना – (क) एकपदेन उत्तरत –
(i) सरलायाः चिकित्सां का करिष्यति ?
(ii) श्वः कः वासरः अस्ति ?
(ख) पूर्णवाक्येन उत्तरत –
(i) कदा योगोपचारः कर्तव्यः ?
(ii) योगोपचारः कथं भवति ?
(ग) ‘आसनैः’ इति पदे का विभक्तिः, किञ्च वचनम् ?
(घ) ‘योगोपचारः’ इति पदस्य सन्धिविच्छेदं कुरुत।
(ङ) ‘गत्वा’ इति पदे कः प्रत्ययः ?
उत्तराणि:
(क) (i) योगशिक्षिका। (ii) रविवासरः।
(ख) (i) यदा औषधसेवनं रोगान् न उन्मूलयति, तदा योगोपचारः कर्तव्यः।
(ii) योगोपचारः विविधैः आसनैः प्राणायामेन च भवति।
(ग) तृतीया, बहुवचनम्।
(घ) योग + उपचारः।
(ङ) क्त्वा।
(3) (रवि वासरे सरला योगशिक्षिकासमीपम् गच्छति)
सरला – नमस्ते भगवति! अहं सरला! मम शिक्षिका देवी रमा भवत्या सह मेलितं मां प्रेरितवती।मम शिरसि अर्धभागे वेदना भवति।
योगशिक्षिका – आगच्छ इदानीं योगकक्षा प्रचलति, त्वम् अपि भागं स्वीकरू ?
सरला – आम् आगच्छामि। योगशिक्षिका -आदौ सिद्धासनं, पद्मासनं च कारयिष्यामि ? एतेषाम् अभ्यासेन एकस्थितौ उपवेशनं स्थिरं भवति। तदा अध्ययने, कायें, प्राणायामे च काठिन्यं न स्यात्। सरला – कः एषः प्राणायामः ? किम् एतद् अपि आसनम् ?
योगशिक्षिका – न प्राणायामेन श्वासोच्छ्वसनं नियन्त्रितं भवति। अनेन हृदयरोगे, नासिका रोगे, श्वासरोगे च लाभः भवति।
हिन्दी-अनुवाद:
(रविवार को सरला योगशिक्षिका के पास जाती है।)
सरला – आपको नमस्कार! मैं सरला हूँ। मेरी शिक्षिका देवी रमा ने आपसे मिलने के लिए मुझे प्रेरित किया है। मेरे शिर में आधे भाग में दर्द होता है।
योगशिक्षिका – आइए, इस समय योग-कक्षा चल रही है, तुम भी भाग लो।
सरला – हाँ, मैं आती हूँ।
योगशिक्षिका – पहले सिद्धासन और पद्मासन कराऊँगी। इनके अभ्यास से एक स्थिति में बैठने का अभ्यास स्थिर होता है। तब अध्ययन में, कार्य में और प्राणायाम में कठिनता नहीं होती है।
सरला – यह प्राणायाम क्या है ? क्या यह भी आसन है ?
योगशिक्षिका – नहीं, प्राणायाम से श्वास लेना-छोड़ना नियंत्रित होता है। इससे हृदय-रोग में, नाक के रोग में और श्वास के रोग में
लाभ होता है।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना – (क) एकपदेन उत्तरत –
(i) सरला कदा योगशिक्षिकासमीपं गच्छति ?
(ii) सरलायाः कुत्र अर्धभागे वेदना भवति ?
(ख) पूर्णवाक्येन उत्तरत –
(i) प्राणायामेन कस्मिन् रोगे लाभः भवति ?
(ii) केन श्वासोच्छ्वसनं नियंत्रितं भवति ?
(ग) भवत्या’ इति पदे का विभक्तिः, किञ्च वचनम् ?
(घ) ‘पद्मासनम्’ इति पदस्य सन्धिविच्छेदं कुरुत।
(ङ) ‘योगकक्षा’ इत्यस्य क्रियापदं किम् ?
उत्तराणि:
(क) (i) रविवासरे। (ii) शिरसि।
(ख) (i) प्राणायामेन हृदयरोगे, नासिकारोगे, श्वासरोगे च लाभः भवति।
(ii) प्राणायामेन श्वासोच्छ्वसनं नियन्त्रितं भवति।
(ग) तृतीया, एकवचनम्।
(घ) पद्म + आसनम्।
(ङ) प्रचलति।
(4) सरला – योगकक्षा किमर्थं प्रातरेव आयोज्यते ?
योगशिक्षिका – प्रातःकाले सूर्यः शान्तः, वायुः शीतलः, निर्मलः च भवति। प्रातःकाल: सुखकरः भवति। योगः प्राकृतिकः उपचारः। अतः प्रातःकालः योगाय उचितः।
सरला – तर्हि अहं योगाभ्यासाय प्रतिदिनम् आगमिष्यामि।
योगशिक्षिका – पुनरागमनाय गच्छतु भवती।
हिन्दी – अनुवाद:
सरला – योग-कक्षा किसलिए सुबह ही आयोजित की जाती है ?
योगशिक्षिका – प्रात:काल सूर्य शान्त होता है, वायु शीतल और निर्मल होती है। प्रातःकाल सुखकारी होता है। योग प्राकृतिक उपचार है। इसलिए प्रात:काल योग के लिए उचित है।
सरला – तब तो मैं योगाभ्यास के लिए प्रतिदिन आऊँगी।
योगशिक्षिका – फिर से आने के लिए आप जाइए।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना – (क) एकपदेन उत्तरत –
(i) योगः कीदृशः उपचारः ?
(ii) कः कालः योगाय उचितः ?
(ख) पूर्णवाक्येन उत्तरत:
(i) प्रात:काले सूर्यः वायुः च कीदृशः भवति ?
(ii) प्रात:कालः कीदृशः भवति ?
(ग) ‘प्रातरेव’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘आगमिष्यामि’ इति पदे कः लकारः।
(ङ) ‘गच्छतु’ इति क्रियायाः कर्तृपदं किम् ?
उत्तराणि:
(क) (i) प्राकृतिकः। (ii) प्रातःकालः।
(ख) (i) प्रातःकाले सूर्यः शान्तः, वायुः शीतलः, निर्मलः च भवति।
(ii) प्रात:कालः सुखकरः भवति।
(ग) प्रातः + एव।
(घ) लृट्लकारः।
(ङ) भवती।