RBSE Solutions for Class 7 Sanskrit
Rajasthan Board RBSE Class 7 Sanskrit Chapter 5 नित्यं कर्तव्यम्
RBSE Class 7 Sanskrit नित्यं कर्तव्यम् पाठ्य-पुस्तक के प्रश्नोत्तर
प्रश्न 1.
निम्नलिखितशब्दानाम् उच्चारणं कुरुत –
प्रात:काले, स्मृत्वा, कृत्वोद्यानम्, व्यायामम्, झञ्झावातः, गृहमागत्य, भूत्वैवाहम्, देवदर्शनम्, भव्यम्, सायङ्काले।
उत्तरम्:
[नोट – उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]
प्रश्न 2.
निम्नलिखितप्रश्नान् एकपदेन उत्तरत –
(क) बालः कुत्र गत्वा विचरति ?
उत्तरम्:
उद्यानम्।
(ख) सः प्रातःकाले कं स्मरति ?
उत्तरम्:
ईशम्।
(ग) सः गृहम् आगत्य किं पिबति ?
उत्तरम्:
दुग्धम्।
(घ) आदर्शबालः केषां सम्मानं करोति ?
उत्तरम्:
गुरुवाणाम्।।
(ङ) बालाः कुत्र क्रीडन्ति ?
उत्तरम्क्री:
डाक्षेत्रे।
प्रश्न 3.
कोष्ठकात् उचितपदानि चित्वां रिक्तस्थानानि पूरयत –
(क) अहम् ………. पूर्वं व्यायाम करोमि। (भोजनात् / स्नानात् / अध्ययनात्)
(ख) अहं गृहम् आगत्य दुग्धं पीत्वा ……. पठामि। (पत्रिकाम् / दैनन्दिनम् / स्वपाठम्)
(ग) छात्रः विद्यालये ……. अर्जयति। (धनम् / बुद्धिम् / ज्ञानम्)
(घ) नित्यं ……… कर्तव्यम्। (गृहचिन्तन / राष्ट्रचिन्तनम् / स्वचिन्तनम्)
उत्तरम्:
(क) अहम् स्नानात् पूर्वं व्यायामं करोमि।
(ख) अहं गृहम् आगत्य दुग्धं पीत्वा स्वपाठं पठामि।
(ग) छात्रः विद्यालये ज्ञानम् अर्जयति।
(घ) नित्यं राष्ट्रचिन्तनं कर्तव्यम्।
प्रश्न 4.
निम्नांकित पदानां संयोजनं कुरुत
उत्तरम्:
(क) पितरौ – प्रणमामि।
(ख) वृष्टिः – भवतु।
(ग) निजपाठम् – पठामि।
(घ) हिमम् – पतेत्।
(ङ) सम्मानम् – करोमि।
(च) ज्ञानम् – अर्जयामि।
प्रश्न 5.
निम्नलिखितपदेषु सन्धिं कृत्वा लिखत।
उत्तरम्:
(क) कृत्वा + उद्यानम् = कृत्वोद्यानम्।
(ख) वृष्टिः + भवतु = वृष्टिर्भवतु।
(ग) भूत्वा + एव + अहम् = भूत्वैवाहम्।
(घ) गृहम् + आगत्य = गृहमागत्य।
प्रश्न 6.
निम्नलिखित पदानां विभक्तिं वचनं च लिखत
उत्तरम्:
प्रश्न 7.
वाक्यानि संयोज्य लिखत –
उत्तरम्:
यथा –
रमा उद्यानं गच्छति। पाठं पठति। – रमा उद्यानं गत्वा पाठं पठति।
(क) भगिनी पाठं पठति। गृहकार्यं करोति। – भगिनी पाठं पठित्वा गृहकार्यं करोति।
(ख) माता पूजां करोति। कार्यालयं गच्छति। – माता पूजां कृत्वा कार्यालयं गच्छति।
(ग) पर्यटकः हवामहलं पश्यति। आनन्दितः भ। – पर्यटकः हवामहलं दृष्ट्वा आनन्दितः भवति।
(घ) अहं संस्कृतवार्तां शृणोमि। ज्ञानं वर्धयामि। – अहं संस्कृतवार्ता श्रुत्वा ज्ञानं वर्धयामि।
(ङ) मृगः नदीं गच्छति। जलं पिबति। – मृगः नदीं गत्वा जलं पिबति।
उत्तरम्:
(क) बालकः उत्तिष्ठति धावति। – बालकः उत्थाय धावति।
(ख) वयं देवं नमस्कुर्मः कार्यारम्भं कुर्मः। – वयं देवं नमस्कृत्य कार्यारम्भं कुर्मः।
(ग) वयं सम्मिलामः वार्तालापं कुर्मः। – वयं संमिल्य वार्तालापं कुर्मः।
(घ) गीता पाठं लिखति पठति। – गीता पाठं विलिख्य पठति।
योग्यता-विस्तारः
1. इन्हें भी जानिए-जब धातु से पहले उपसर्ग अथवा शब्द होता है तो क्त्वा’ के स्थान पर ‘ल्यप् प्रत्यय आता है। जैसे –
(यहाँ ‘प्र’, ‘उत्’, ‘उप’ उपसर्ग हैं।)
नमस्करोति नमस्कृत्य नमः + कृ + ल्यप्
अलङ्करोति अलङ्कृत्य अलम् + कृ + ल्यप्
(यहाँ नमः, अलम् दोनों ही शब्द हैं।)
2. क्त्वा ल्यप् प्रत्ययोः रूपाणाम् अभ्यासं कुरुत –
यथा –
बालिकाः विद्यालयं गच्छति।
बालिका पाठं पठति।
बालिका विद्यालयं गत्वा पाठं पठति।
वर्तमानकालिकरूपम् क्त्वा प्रकृतिः+
[नोट – प्रस्तुत पाठ में दिये गये गीत के समान ही एक अन्य संस्कृत-गीत छात्रों की सुविधा हेतु दिया जा रहा है।]
अहं प्रभाते उत्तिष्ठामि
माता पितरौ प्रणमामि।
देवान् भक्तवरेण्यान् नत्वा
पठने मतिं विधास्यामि ॥१॥
विना विलम्बं शाला गच्छन्
पाठ्यांशान् अवगच्छामि।
सर्वान् विषयान् सम्यगधीत्य
बुद्धि विशदतां प्राप्नोमि ॥ २॥
शिष्टाचारान् साधुविचारान्
बुद्धिकरान् आकलयामि।
विद्याभ्यासाचारविचारैः
सर्वश्रेष्ठतां विन्दामि ॥३॥
‘श्री जनार्दन हेगडे’
RBSE Class 7 sanskrit नित्यं कर्तव्यम् अन्य महत्त्वपूर्ण प्रश्नोत्तर
RBSE Class 7 sanskrit नित्यं कर्तव्यम् वस्तुनिष्ठप्रश्ना
प्रश्ना 1.
‘नित्यं कर्तव्यम्’ पाठस्य क्रमः अस्ति –
(क) द्वितीयः
(ख) पंचमः
(ग) सप्तमः
(घ) नवमः।
उत्तरम्:
(ख) पंचमः
प्रश्ना 2.
‘स्मृत्वा’ पदे प्रत्ययः अस्ति –
(क) ल्यप्
(ख) तव्यत्
(ग) तमप्
(घ) क्त्वा।
उत्तरम्:
(घ) क्त्वा।
प्रश्ना 3.
‘आगत्य’ पदे प्रत्ययः अस्ति –
(क) ल्यप्
(ख) क्त्वा
(ग) यत्
(घ) तव्य।
उत्तरम्:
(क) ल्यप्
प्रश्ना 4.
‘भूत्वैव’ इति पदस्य सन्धिविच्छेदः भवति –
(क) भूत + क्त्वा
(ख) भूते + एव।
(ग) भूत्वा + एव
(घ) भूत्वा + इव।
उत्तरम्:
(ग) भूत्वा + एव
कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –
- अहं पितरौ ……. (प्रणमति, प्रणमामि, प्रणमामः)
- बालकः दुग्धं …….. (पिबति, पिबामि, पिबसि)
- अहं ………….. क्रीडामि। (प्रात:काले, मध्याह्ने, सांयकाले)
- प्रात:काले अहम् …………… स्मरामि। (ईशम्, मित्रम्, चलचित्रम्)
उत्तरम्:
- प्रणमामि
- पिबति
- सायंकाले
- ईशम्।
RBSE Class 7 sanskrit नित्यं कर्तव्यम् अतिलघूत्तरात्मक प्रश्ना
एकपदेन उत्तरत
प्रश्न 1.
बालः नित्यं कर्मं कृत्वा कुत्र गच्छति ?
उत्तरम्:
उद्यानम्।
प्रश्न 2.
बालकः कस्मात् पूर्वं प्राणायामं करोति ?
उत्तरम्:
स्नानात्।
प्रश्न 3.
कस्याः दिव्यमन्दिरं भवतु ?
उत्तरम्:
भारतमातुः।
RBSE Class 7 sanskrit नित्यं कर्तव्यम् लघूत्तरात्मकप्रश्नाः
पूर्णवाक्येन उत्तरत
प्रश्न 1.
बालकः कीदृशं भोजनं करोति ?
उत्तरम्:
बालकः षड्रससंयुक्तं भोजनं करोति।
प्रश्न 2.
बालः ज्ञानं कथम् अर्जयति ?
उत्तरम्:
बालः श्रद्धायुक्तो भूत्वा ज्ञानम् अर्जयति।
प्रश्न 3.
बालकः विद्यालये किं करोति ?
उत्तरम्:
बालकः विद्यालये गुरुवर्याणां सम्मानं करोति।
प्रश्न 4.
शयनात् पूर्वं नित्यं किं कर्तव्यम् ?
उत्तरम्:
शयनात् पूर्वं नित्यं राष्ट्रचिन्तनं कर्तव्यम्।
पाठ परिचय:
श्री परमानन्द शर्मा ‘प्रमोद’ द्वारा रचित प्रस्तुत पाठ में एक बाल-गीत के माध्यम से आदर्श बालक की नित्य क्रियाओं का प्रेरणास्पद वर्णन किया गया है । बालकों को प्रात:काल उठने से लेकर शयन काल तक प्रतिदिन किन-किन कार्यों को करना चाहिए, यह सब इस पाठ में दर्शाया गया है। साथ ही इसमें क्त्वा एवं ल्यप् प्रत्ययों के प्रयोग का भी ज्ञान कराया गया है।
पाठ के कठिन-शब्दार्थ
पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम् –
(1) प्रातःकाले ईशं स्मृत्वा, पितरौ प्रणमामि।
नित्यं कर्म च कृत्वोद्यानं, गत्वा विचरामि ॥1॥
स्नानात् पूर्वं प्राणायाम, तदनु व्यायामम्।
वृष्टिर्भवतु वा झञ्झावातो, हिमं पतेत् कामम् ॥2॥
गृहमागत्य दुग्धं पीत्वा, पठामि निजपाठम्।
ततो भोजनं करोमि नित्यं, षड्रससंयुक्तम् ॥3॥
हिन्दी-अनुवाद:
प्रात:काल ईश्वर का स्मरण करके माता-पिता को प्रणाम करता हूँ। और नित्य कर्म करके बगीचे में जाकर विचरण (भ्रमण) करता हूँ। स्नान करने से पहले प्राणायाम और इसके बाद व्यायाम करता हूँ, चाहे वर्षा होवे, तूफान आवे अथवा बर्फ गिरे। .. घर आकर के दूध पीकर अपना पाठ पढ़ता हूँ। उसके बाद षड्रसों से युक्त नित्य भोजन करता हूँ।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं गीतं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना – (क) एकपदेन उत्तरत –
(i) बालकः प्रातःकाले कौ प्रणमति ?
(ii) बालकः कीदृशं भोजनं नित्यं करोति ?
(ख) पूर्णवाक्येन उत्तरत –
(i) बालकः किं कृत्वा कुत्र च गत्वा विचरति ?
(ii) बालकः गृहमागत्य किं पीत्वा किञ्च पठति ?
(ग) ‘गत्वा’-इत्यत्र कः प्रत्ययः ?
(घ) ‘आगत्य’-इत्यत्र का धातुः, कः प्रत्ययः च?
(ङ) ‘करोमि’-इत्यत्र कः लकारः, कः पुरुषः, किञ्च वचनम् ? उत्तराणि
(क) (i) पितरौ। (ii) षड्रससंयुतम्।
(ख) (i) बालकः नित्यं कर्म कृत्वा उद्यानं च गत्वा विचरति।
(ii) बालकः गृहमागत्य दुग्धं पीत्वा स्वस्य पाठं पठति। .
(ग) क्त्वा।
(घ) आ + गम् + ल्यप्।
(ङ) लट्लकारः, उत्तमपुरुषः, एकवचनम्।
(2) विद्यालये च गुरुवर्याणां, करोमि सम्मानम्।
श्रद्धायुक्तो भूत्वैवाहम्, अर्जयामि ज्ञानम्।। 4॥
सायङ्काले क्रीडाक्षेत्रे, गत्वा क्रीडामि।
देवदर्शनं ततो भोजनं, पाठं स्मरामि ।। 5॥
शयनात् पूर्व राष्ट्रचिंतनं, नित्यं कर्तव्यम्।
भारतमातः दिव्यमन्दिरं, भवतु पुनः भव्यम्॥6॥
हिन्दी-अनुवाद:
विद्यालय में मैं गुरुजनों का सम्मान करता हूँ और श्रद्धायुक्त होकर ही मैं ज्ञान को अर्जित करता सायंकाल में खेल के मैदान में जाकर खेलता हूँ, उसके बाद देव-दर्शन (मन्दिर में भगवान् का दर्शन) तथा उसके बाद भोजन और पाठ का स्मरण (याद) करता हूँ। सोने से पहले हमेशा राष्ट्र का चिन्तन करना चाहिए। फिर से भारत-माता का भव्य एवं दिव्य मन्दिर होना चाहिए।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं गीतं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना – (क) एकपदेन उत्तरत
(i) बालकः विद्यालये केषां सम्मानं करोति ?
(ii) कस्य दिव्यमन्दिरं भवतु ?
(ख) पूर्णवाक्येन उत्तरत –
(i) बालकः कथं ज्ञानम् अर्जयति ?
(ii) शयनात् पूर्वं नित्यं किं कर्त्तव्यम ?
(ग) ‘भूत्वा’-इत्यत्र कः प्रत्ययः ?
(घ) ‘एवाहम्’ इत्यस्य सन्धिविच्छेदं कुरुत।
(ङ) शयनात्’ इति पदे का विभक्तिः, किञ्च वचनम ? उत्तराणि
(क) (i) गुरुवर्याणाम्।
(ii) भारतमातुः।
(ख) (i) बालकः श्रद्धायुक्तो भूत्वा ज्ञानम् अर्जयति।
(ii) शयनात् पूर्वं नित्यं राष्ट्रचिन्तनं कर्तव्यम्।
(ग) क्त्वा ।
(घ) एव + अहम्।
(ङ) पंचमी, एकवचनम्।