RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

RBSE Solutions for Class 7 Sanskrit

Rajasthan Board RBSE Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य पाठ्य-पुस्तक के प्रश्नोत्तर

प्रश्न 1.
निम्नलिखितशब्दानाम् उच्चारणं कुरुत
कश्चन, शृगालः, सन्तुष्टः, अन्तःपुरस्त्रियः, सुवर्णहारः, अरण्याभिमुखम्, प्रस्थितवान्, दृष्टवन्तः, यच्छक्यम्, पराक्रमैः।
उत्तरम्:
[नोट – उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
निम्नलिखितप्रश्नान् एकपदेन उत्तरत –
(क) वृक्षस्य कोटरे कः वसति स्म ?
उत्तरम्:
कृष्णसर्पः।

(ख) शृगालः कस्य मित्रम् आसीत् ?
उत्तरम्:
काकस्य।

(ग) काकः सुवर्णहारं ग्रहीत्वा कुत्र प्रस्थितवान् ?
उत्तरम्:
अरण्याभिमुखम्।।

(घ) के दण्डप्रहारेण कृष्णसर्प मारितवन्तः ?
उत्तरम्:
राजभटाः।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 3.
निम्नलिखितप्रश्नान् एकवाक्येन
उत्तरत:
(क) काकः सुवर्णहारं ग्रहीत्वा कुत्र पातितवान् ?
उत्तरम्:
काकः सुवर्णहारं ग्रहीत्वा महावृक्षस्य कोटरे पातितवान्।

(ख) काकः शृगालस्य समीपं गत्वा किम् उक्तवान् ?
उत्तरम्:
काकः शृगालस्य समीपं गत्वा उक्तवान्-‘भो मित्र! सः कृष्णसर्पः कथं मारणीयः। उपायं सूचयतु’ इति।

(ग) अन्तः पुरस्त्रियः कुत्र मग्नाः आसन् ?
उत्तरम्:
अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन्।

(घ) काकस्य शावकान् कः खादति स्म ?
उत्तरम्:
काकस्य शावकान् कृष्णसर्पः खादति स्म।

प्रश्न 4.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयतशृगालः, कृष्णसर्पः, अन्तःपुरस्त्रियः, पत्न्या, कोटरे|
उत्तरम्:
(क) महावृक्षे एकः काकः पल्या सह वसति स्म।
(ख) सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन्।
(ग) कृष्णसर्पः कोपेन बहिः आगतवान्।
(घ) काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान्।
(ङ) शृगालः एकम् उपायं सूचितवान्।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 5.
उपयुक्तशब्देन वाक्यं पूरयत –
(क) राजभटाः दण्डप्रहारेण ………… मारितवन्तः। (काकं / शृगालं / कृष्णसर्प)
(ख) ……….. काकम् उपायं सूचितवान्। (राजपुरुष: / शृगालः कृष्णसर्पः)
(ग) काकः महावृक्षस्य कोटरे ………… पातितवान्। (हारं / फलं / वस्त्रम्)
(घ) …………. तस्य शावकान् खादति स्म। (काक: / शृगालः कृष्णसर्पः)
उत्तरम्:
(क) राजभटाः दण्डप्रहारेण कृष्णसर्प मारितवन्तः।
(ख) शृगालः काकम् उपायं सूचितवान्।
(ग) काकः महावृक्षस्य कोटरे हारं पातितवान्।
(घ) कृष्णसर्पः तस्य शावकान् खादति स्म।

प्रश्न 6.
रेखाङ्कितानिपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) शृगालः एकम् उपायं सूचितवान्।
(ख) एकः काकः महावृक्षे पत्न्या सह वसति स्म।
(ग) काकः शृगालस्य मित्रम् आसीत्।।
(घ) कृष्णसर्पः काकस्य शावकान् खादति स्म।
उत्तरम्:
प्रश्ननिर्माणम् –
(क) कः एकम् उपायं सूचितवान् ?
(ख) एकः काकः कुत्र पत्या सह वसति स्म?
(ग) काकः कस्य मित्रम् आसीत्?
(घ) कृष्णसर्पः कस्य शावकान् खादति स्म?

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 7.
निम्नलिखितपदानां विभक्तिं वचनं च लिखत
उत्तरम्:
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 1

प्रश्न 8.
प्रदत्तक्रियापदानां भूतकालिकानि क्तवतु प्रत्ययान्तानि रूपाणि लिखत –
उत्तरम्:

प्रश्न 9.
वर्तमानकालस्य वाक्यानि क्तवतुप्रत्यय। प्रयोगेण भूतकाले परिवर्तयत यथा
उत्तरम्:
(क) छात्रः पठति। छात्रः पठितवान्।
(ख) अतिथिः आगच्छति। अतिथिः आगतवान्।
(ग) पिता धनं ददाति। पिता धनं दत्तवान्।
(घ) महिला नियम पालयति। महिला नियम पालयितवती।
(ङ) मित्रं धावति। मित्रं धावितवत्।
(च) जलं पतति। जलं पतितवत्

प्रश्न 10.
निम्नांकितवाक्येषु वचनपरिवर्तनं कृत्वा रिक्तस्थानानि पूरयत
उत्तरम्:
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 8

लेखिकाः
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 9

योग्यता – विस्तारः
1. परिचय:
हितोपदेशस्य के रचयिता नारायण पण्डित हैं। हितोपदेश में भारतीय जनमानस के परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यन्त सरल, सरस एवं अच्छी प्रकार से ग्रहण करने योग्य होती हैं। सभी कथाएँ आपस में एक-दूसरे पर आश्रित हैं। हितोपदेश में कथाएँ चार भागों में विभाजित हैं –
1. मित्रलाभ
2. सुहृद्भेद
3. विग्रह
4. सन्धि

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

2. धातु प्रत्ययसंयोगेन निर्मितानि कानिचन विशेषरूपाणि जानीत –
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 3
यथा – बालकः पतति। बालकः पतितवान्।
(बालक गिरता है।) (बागलक गिर पड़ा)

प्रश्न 3.
मञ्जूषातः उचितशब्दं चित्वा अधोलिखित कथां पूरयत –
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 5
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 6
पिपीलिकाम्, मर्दयितुम्, शुण्डायाम्, प्रयतितवान्, गजः, त्वाम्, मारयितुम्
उत्तरम्:
एकदा एकः गजः गच्छति स्म। स मार्गे एकां पिपीलिकाम् दृष्टवान्। गजः अवदत् च रे पिपीलिके! इतः अपसर नो चेत् अहं त्वाम् मर्दयिष्यामि। पिपीलिका कथयति “भो गज! भवान् तु महान् अस्ति मां कथं मर्दयितुम् शक्नोति। बलवान् न एवं करोति। गर्वेण गर्वितः गजः पुनरवदत् अपसर इति। गते काले एकदा पिपीलिका गजस्य शुण्डायाम् प्राविशत्। पीडितः गजः अवदत् कोऽयं मां मारयितुम् इच्छति। पिपीलिका वदति अहं सः एव तुच्छजीवः यं भवान् मारयितुं प्रयतितवान्। किन्तु अहं त्वां न मारयामि। अहं न तुच्छचिन्तनशीला।

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य अन्य महत्त्वपूर्ण प्रश्नोत्तर

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य वस्तुनिष्ठप्रश्ना

प्रश्ना 1.
“बुद्धिर्यस्य बलं तस्य” इति कथा मूलतः संकलिता अस्ति –
(क) हितोपदेशात्
(ख) रघुवंशात्
(ग) रामायणात्
(घ) नीतिशतकात्
उत्तरम्:
(क) हितोपदेशात्

प्रश्ना 2.
‘अनुसृतवन्तः’ इत्यत्र प्रत्ययः अस्ति –
(क) तव्यत्
(ख) तमप्
(ग) क्तवतु
(घ) क्त्वा
उत्तरम्:
(ग) क्तवतु

प्रश्ना 3.
‘आसीत्’-इत्यत्र लकारः अस्ति –
(क) लट्लकारः
(ख) लङ्लकारः
(ग) लृट्लकारः
(घ) लोट्लकारः
उत्तरम्:
(ख) लङ्लकारः

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्ना 4.
‘कृष्णः सर्पः कोपेन बहिः आगतवान्’-अत्र अव्ययपदम् अस्ति –
(क) कृष्णः
(ख) कोपेन
(ग) सर्पः
(घ) बहिः
उत्तरम्:
(घ) बहिः

कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –

  1. तत्र ……….. काकः पल्या सह वसति स्म। (एकः, एकाम्, एका)
  2. कोटरे एकः कृष्णः सर्पः ………. वसति स्म। (एव, अपि, तत्र)
  3. शृगालः एकम् उपायं …………। (सूचितवान्, सूचितवती, सूचितवत्)
  4. राजभटाः हारं च ………..। (नीतवान्, नीतवन्तः, नीतवन्त्यौ)

उत्तरम्:

  1. एकः
  2. अपि
  3. सूचितवान्,
  4. नीतवन्तः।

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य  अतिलघुत्तरात्मकप्रश्नाः

एकपदेन उत्तरत –

प्रश्न 1.
महावृक्षस्य कोटरे कः वसति स्म ?
उत्तरम्:
कृष्णसर्पः।

प्रश्न 2.
शृगालस्य समीपं कः गतवान् ?
उत्तरम्:
काकः।

प्रश्न 3.
जलक्रीडायां मग्नाः काः आसन् ?
उत्तरम्:
अन्तःपुरस्त्रियः।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 4.
राजभटाः हारं कुत्र दृष्टवन्तः ?
उत्तरम्:
कोटरे।

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य  लघूत्तरात्मकप्रश्नाः

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
काकः पल्या सह कुत्र वसति स्म?
उत्तरम्:
महावृक्षे काकः पत्न्या सह वसति स्म।

प्रश्न 2.
उपायं श्रुत्वा काकः उड्डीय कुत्र आगतवान्?
उत्तरम्:
उपायं श्रुत्वा काकः उड्डीय नगरम् आगतवान्।

प्रश्न 3.
कोटरात् कः कोपेन बहिः आगतवान् ?
उत्तरम्:
कोटरात् कृष्णसर्पः कोपेन बहिः आगतवान्।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 4.
उपायेन यत् शक्यं तत् कैः न शक्यम् ?
उत्तरम्:
उपायेन यत् शक्यं तत् पराक्रमैः न शक्यम्।

RBSE Class 7 Sanskrit बुद्धिर्यस्य बलं तस्य  निबन्धात्मकप्रश्नाः

प्रश्न 1.
रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत –

  1. कृष्णसर्पः तस्याः अण्डानि खादति स्म।
  2. शृगालः एकम् उपायं सूचितवान्।
  3. राजभटाः काकम् अनुसृतवन्तः।
  4. काकः स्वपत्न्या सह सुखेन जीवितवान्।

उत्तरम्:
प्रश्ननिर्माणम् –

  1. कः तस्याः अण्डानि खादति स्म ?
  2. शृगालः किम् सूचितवान् ?
  3. राजभटाः कम् अनुसृतवन्तः ?
  4. काकः कया सह सुखेन जीवितवान् ?

प्रश्न 2.
अधोलिखितक्रमरहितवाक्यानि घटनाक्रमानुसारेण संयोजयत –

  1. राजभटाः दण्डप्रहारेण कृष्णसर्प मारितवन्तः।
  2. शृगालः एकम् उपायं काकं सूचितवान्।
  3. वृक्षस्य कोटरे एकः कृष्णसर्पः वसति स्म।
  4. काकः स्वपत्न्या सह सुखेन जीवितवान्।
  5. काकः सुवर्णहारं वृक्षस्य कोटरे पातितवान्।
  6. कृष्णसर्पः काकस्य शावकान् खादति स्म।

उत्तरम्:
वाक्य-संयोजनम् –

  1. वृक्षस्य कोटरे एकः कृष्णसर्पः वसति स्म।
  2. कृष्णसर्पः काकस्य शावकान् खादति स्म।
  3. शृगालः एकम् उपायं काकं सूचितवान्।
  4. काकः सुवर्णहारं वृक्षस्य कोटरे पातितवान्।
  5. राजभटाः दण्डप्रहारेण कृष्णसर्प मारितवन्तः।
  6. काकः स्वपत्न्या सह सुखेन जीवितवान् ।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

प्रश्न 3.
“बुद्धिर्यस्य बलं तस्य” इति कथायाः सारं हिन्दीभाषायां लिखत।
उत्तर:
कथा-सार-मूलतः हितोपदेश से संकलित प्रस्तुत कथा में बुद्धि-बल के महत्त्व को बताया गया है। कथा के अनुसार किसी विशाल वृक्ष पर एक कौआ अपनी पत्नी के साथ रहता था। उसी वृक्ष के खोखर में एक काला सर्प भी रहता था। वह सर्प कौए के नवजात बच्चों को खा जाता था। इससे कौआ और उसकी पत्नी अत्यधिक दुःखी थे। अतः एक बार कौआ अपने मित्र सियार के पास गया और उससे उस काले सर्प को मारने का उपाय पूछा।

सियार ने उसे एक उपाय बतलाया। कौआ प्रसन्न होकर वहाँ से उड़ता हुआ नगर में आ गया। वहाँ राजा के तालाब में रनिवास की स्त्रियाँ स्नान कर रही थीं। उनके वस्त्र और आभूषण तालाब की सीढ़ियों पर रखे हुए थे। कौआ वहाँ से एक सोने का हार लेकर जंगल की ओर चला गया। राजा के सैनिक भी कौए के पीछे-पीछे आ गए।

कौए ने उस हार को वृक्ष के खोखर में डाल दिया और स्वयं दूर चला गया। सैनिकों ने वहाँ आकर खोखर में हार को देखा, तभी वह काला सर्प क्रोध से बाहर आता है। सैनिकों ने डण्डे के प्रहार से उसे मार दिया और हार को लेकर चले गये। इसके बाद वह कौआ अपनी पत्नी के साथ सुखपूर्वक जीवन व्यतीत करने लगा। वस्तुतः उपाय से जो कार्य सम्पन्न हो सकता है वह पराक्रम से नहीं हो सकता।

पाठ-परिचय:
हितोपदेश में बालकों को ज्ञान प्रदान करने के लिए पशु-पक्षियों के संवाद के माध्यम से रोचक कथाओं का वर्णन किया गया है। उन्हीं में से एक मनोहर एवं उपदेशात्मक कथा को इस पाठ में प्रस्तुत किया गया है। इसमें एक कौए की चतुरता के विषय में बताया गया है। वह अपनी चतुरता से अपने शत्रु साँप का राजा के सैनिकों द्वारा विनाश करवा देता है।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

पाठ के कठिन-शब्दार्थ:
RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य - 7

पाठ के गद्यांशों का हिन्दी-अनुवाद एवं अवबोधन कार्य –

(1) एकस्मिन् वने कश्चन ………. दुःखम् अनुभवतः स्म।

हिन्दी-अनुवाद:
एक वन में कोई विशाल पेड़ था। वहाँ एक कौआ पत्नी के साथ रहता था। उसी पेड़ की खोखर में एक काला साँप भी रहता था। जब कौए की पत्नी बच्चे को जन्म देती तभी काला सर्प उसके अण्डों को खा जाता था। इस दुःख से कौआ और उसकी पत्नी अत्यधिक दुःख का अनुभव करते थे।

पठितावबोधनम् –
निर्देशः – उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत:
प्रश्ना:
(क) एकपदेन उत्तरत –
(i) काकः कया सह वसति स्म ?
(ii) महावृक्षः कुत्र आसीत् ?

(ख) पूर्णवाक्येन उत्तरत:
(i) वृक्षस्य कोटरे कः वसति स्म ?
(ii) कृष्णसर्पः कानि खादति स्म ?

(ग) ‘कृष्णसर्प:’-इत्यत्र विशेषणं किम् ?
(घ) ‘आसीत्’ इति क्रियायाः कर्ता कः ?
(ङ) ‘कृष्णः सर्पः अपि वसति स्म’-इत्यत्र अव्ययपदं किम् ?
उत्तरम्:
(क) (i) पत्न्या सह। (ii) एकस्मिन् वने।
(ख) (i) वृक्षस्य कोटरे एकः कृष्णः सर्पः वसति स्म।
(ii) कृष्णसर्पः काकस्य पन्याः अण्डानि खादति स्म।
(ग) कृष्णः।
(घ) महावृक्षः।
(ङ) अपि।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

(2) अतः एकदा काकः ……….. काकम् अनुसृतवन्तः।

हिन्दी-अनुवाद:
इसलिए एक बार कौआ अपने मित्र सियार के पास जाकर बोला-हे मित्र! उस काले साँप को कैसे मारा जा सकता है ? उपाय बताइए। सियार ने एक उपाय बतलाया। वह सुनकर कौआ बहुत प्रसन्न हुआ। उसके बाद कौआ उड़कर नगर में आ गया। वहाँ महाराजा के तालाब में अन्तःपुर (रनिवास) की स्त्रियाँ जल-क्रीड़ा में मग्न थीं। उनके कपड़े और आभूषण तालाब की सीढ़ियों पर रखे हुए थे। कौआ वहाँ गया और एक सोने के हार को लेकर जंगल की ओर चला गया। यह देखकर राजा के सैनिक कौए का पीछा करने लगे।

पठितावबोधनम् –
निर्देश: – उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्नाः –
(क) एकपदेन उत्तरत –
(i) काकस्य मित्रं कः आसीत् ?
(ii) राजभटाः कम् अनुसृतवन्तः ?

(ख) पूर्णवाक्येन उत्तरत –
(i) महाराजस्य सरोवरे काः जलक्रीड़ायां मग्नाः आसन् ?
(ii) काकः सुवर्णहारं ग्रहीत्वा कुत्र प्रस्थितवान् ?
(ग) ‘गतवान्’ इति पदे कः प्रत्ययः ?
(घ) ‘आसन्’ इत्यत्र कः लकारः ?
(ङ) ‘एकम् उपायम्’-इत्यत्र विशेषणं किम् ?
उत्तरम्:
(क) (i) शृगालः। (ii) काकम्।
(ख) (i) महाराजस्य सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन्।
(ii) काकः सुवर्णहारं ग्रहीत्वा अरण्याभिमुखं प्रस्थितवान्।
(ग) क्तवतु।
(घ) लङ्लकारः।
(ङ) एकम्।

RBSE Solutions for Class 7 Sanskrit Chapter 2 बुद्धिर्यस्य बलं तस्य

(3) काकः अरण्यम् …………. सुखेन जीवितवान्। “उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।”

हिन्दी-अनुवाद:
कौए ने जंगल में आकर विशाल वृक्ष के खोखर में उस हार को गिरा दिया और स्वयं दूर चला गया। राजा के सैनिक वहाँ आ गये। खोखर में हार को देखा। तब वहाँ स्थित काला साँप क्रोध से बाहर आ गया। राजा के सैनिकों ने डण्डे के प्रहार से उसे मार दिया और हार को ले गये। उसके बाद कौआ अपनी पत्नी के साथ सुखपूर्वक जीवन व्यतीत करने लगा। “उपाय से जो काम हो सकता है, वह पराक्रमों से नहीं हो सकता।”

पठितावबोधनम् –
निर्देश:-उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना: –
(क) एकपदेन उत्तरत –
(i) कोटरे हारं के दृष्टवन्तः ?
(ii) काकः कया सह सुखेन जीवितवान् ?

(ख) पूर्णवाक्येन उत्तरत –
(i) काकः हारं कुत्र पातितवान् ?
(ii) राजभटाः दण्डप्रहारेण कं मारितवन्तः ?
(ग) ‘नीतवन्तः’ इत्यत्र प्रत्ययः कः ?
(घ) ‘दृष्टवन्तः’-इत्यस्य कर्तापदं किम् ?
(ङ) ‘कोटरे’ इति पदस्य कोऽर्थः ?
उत्तरम्:
(क) (i) राजभटाः। (ii) स्वपत्न्या सह।
(ख) (i) काकः हारं महावृक्षस्य कोटरे पातितवान्।
(ii) राजभटाः दण्डप्रहारेण कृष्णसर्प मारितवन्तः।
(ग) क्तवतु।
(घ) राजभटाः।
(ङ) वृक्षस्य विवरे।

Leave a Comment