RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

RBSE Solutions for Class 7 Sanskrit

Rajasthan Board RBSE Class 7 Sanskrit Chapter 11 उद्यानविहारः

RBSE Class 7 Sanskrit उद्यानविहारः पाठ्य-पुस्तक के प्रश्नोत्तर

प्रश्न 1.
निम्नलिखितशब्दानाम् उच्चारणं कुरुत –
द्रक्ष्यामः, इच्छामः, द्रष्टुम्, पृच्छतु, यथेच्छम्, वक्ष्यामि, दास्यामि, किञ्चित्।
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
एकपदेन उत्तराणि लिखत –
(क) उद्यानं कीदृशम् अस्ति ?
उत्तरम्:
विशालम्।

(ख) उद्याने कति वृक्षाः सन्ति ?
उत्तरम्:
शताधिकाः।

(ग) विहाराय जनाः कुत्र आगच्छन्ति ?
उत्तरम्:
उद्यानम् ?

RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

(घ) स्वच्छ वातावरणं के सृजन्ति ?
उत्तरम्:
वृक्षाः।

(ङ) सलमा कियत् किलोपरिमितानि आम्रफलानि क्रीणाति।
उत्तरम्:
चत्वारिंशत् रूप्यकाणि।

प्रश्न 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) वयं तव उद्यानम् आगच्छामः।
(ख) जनाः प्रतिदिनं विहाराय उद्यानम् आगच्छन्ति।
(ग) वयं सर्वे तव कूपजलेन फलानि प्रक्षालयामः।
(घ) एकस्मिन् च करण्डे आम्राणि आनयति।
उत्तरम्:
प्रश्ननिर्माणम् –
(क) वयं कस्य उद्यानम् आगच्छामः?
(ख) जनाः प्रतिदिनं किमर्थम् उद्यानम् आगच्छन्ति?
(ग) वयं सर्वे तव केन फलानि प्रक्षालयामः?
(घ) एकस्मिन् च करण्डे कानि आनयति?

प्रश्न 4.
मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत।
उत्तरम्:
(क) उद्याने अधुना पक्वानि फलानि सन्ति।
(ख) वयं त्वया किञ्चित् ज्ञातुम् इच्छामः।
(ग) एतानि फलानि शीतलप्रदेशेषु एव भवन्ति।
(घ) छात्राः आचार्यः च फलानि खादन्ति।
(ङ) कति वृक्षाः सन्ति तव उद्याने।

RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

प्रश्न 5.
अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनं च लिखत।
यथा – जनाः पुंल्लिङ्गम् प्रथमा बहुवचनम् विभक्तिः
उत्तरम्:
RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः - 3

प्रश्न 6.
असङ्गतं पदं चिनुत।
उत्तरम्:
(क) शक्ष्यामि, दास्यामि, पास्यामि, आम्राणि। आम्राणि
(ख) आम्राणां, मनुष्याणां, दाडिमानां, बदराणां। मनुष्याणाम
(ग) इमानि, एतानि, कानि, सेवानि। सेवानि
(घ) मालाकारः, आचार्यः, रमेशः, बहवः। बहवः

RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

प्रश्न 7.
मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत।
हरितः, नीलः, कृष्णः, पीतः
RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः - 4
उत्तरम्:
(क) शुकस्य वर्ण: हरितः अस्ति।
(ख) युतकस्य वर्णः पीतः अस्ति।
(ग) आकाशस्य वर्णः नीलः अस्ति।
(घ) कोकिलस्य वर्णः कृष्णः अस्ति।

योग्यता-विस्तारः
प्रश्न – मञ्जूषातः उचितपदं चित्वा वाक्यानि पूरयत।
पुष्पाणि, उद्यानम्, कन्दुकेन, भ्रमणम्, दोलायाम्, सरोवरः, कमलानि, बालकाः
उत्तरम्:
RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः - 5
इदम् एकम् उद्यानम् अस्ति। अत्र विविधानि पुष्पाणि विकसितानि सन्ति। उपवने एका बालिका दोलायाम् उपविष्टा दृश्यते। बालका: कन्दुकेन क्रीडन्ति। जनाः प्रातः काले भ्रमणम् कुर्वन्ति। उद्याने एकः जलपूर्णः सरोवरः अपि अस्ति। तस्मिन् अनेकानि कमलानि विकसन्ति। सरोवरस्य तटे बालकाः क्रीडन्ति।

RBSE Class 7 Sanskrit उद्यानविहारः अन्य महत्त्वपूर्ण प्रश्नोत्तर

RBSE Class 7 Sanskrit उद्यानविहारः वस्तुनिष्ठप्रश्नाः

1. ‘तत्र ……. विशालम् उद्यानम् अस्ति।’
(क) एकः
(ख) एकम्
(ग) एका
(घ) एकाम्।
उत्तरम्:
(ख) एकम्

2. ‘वयं त्वया किञ्चिद् ज्ञातुम् ………।’
(क) इच्छन्ति
(ख) इच्छामि
(ग) इच्छावः
(घ) इच्छामः।
उत्तरम्:
(घ) इच्छामः।

RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

3. ‘द्रष्टुम्’ इति पदे प्रत्ययः अस्ति
(क) तुमुन्
(ख) क्त्वा
(ग) ल्यप्
(घ) तमप्।
उत्तरम्:
(क) तुमुन्

4. ‘मनोहराणि ……….. फलानि।’
(क) इमाः
(ख) इमे
(ग) इमानि
(घ) अयम्।
उत्तरम्:
(ग) इमानि

कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –

  1. वयं तत्र बहून् …………. द्रक्ष्यामः। (वृक्षः, वृक्षम्, वृक्षान्)
    जनाः प्रतिदिनं …………. उद्यानम् आगच्छन्ति। (विहाराय, शयनाय, पठनाय)
    उद्याने शताधिकाः वृक्षाः ………..। (अस्ति, सन्ति, अस्मि)
    अधुना तु आम्राणि ………… पक्वानि सन्ति। (एव, च, अपि)

उत्तरम्:

  1. वृक्षान्
  2. विहाराय
  3. सन्ति
  4. एव।

RBSE Class 7 Sanskrit उद्यानविहारःअतिलघूत्तरात्मक प्रश्नाः

एकपदेन उत्तरत –

प्रश्न 1.
उद्यानं कुत्र अस्ति ?
उत्तरम्:
नगरात् बहिः।

प्रश्न 2.
मालाकारः केषां निश्चितसंख्या न जानाति ?
उत्तरम्:
वृक्षाणाम्।

प्रश्न 3.
मालाकारः एकस्मिन् करण्डे कानि आनयति ?
उत्तरम्:
आम्राणि।

RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः

प्रश्न 4.
आचार्य: कस्मै अशीतिः रुप्यकाणि यच्छति ?
उत्तरम्:
मालाकाराय।

RBSE Class 7 Sanskrit उद्यानविहारः लघूत्तरात्मक प्रश्नाः

(क) पूर्णवाक्येन उत्तरत –

प्रश्न 1.
सर्वे छात्राः आम्रफलानां किं कुर्वन्ति ?
उत्तरम्:
सर्वे छात्राः आम्रफलानि जलेन प्रक्षाल्य खादन्ति प्रसीदन्ति च।

प्रश्न 2.
आचार्येण कैः सह कस्य च आनन्दः अनुभूतः ?
उत्तरम्:
आचार्येणे छात्रैः सह उद्यानस्य आनन्दः अनुभूतः।

प्रश्न 3.
अस्माकं जीवनाय किम् नितराम् आवश्यकम् अस्ति ?
उत्तरम्:
अस्माकं जीवनाय स्वच्छं वातावरणं नितराम् आवश्यकम् अस्ति।

प्रश्न 4.
शीतप्रदेशेषु कानि फलानि भवन्ति ? चतुर्णा नामानि लिखत।
उत्तरम्:
शीतप्रदेशेषु आरुकाणि, सेवानि, अलीचीकाः, अमृतफलानि च भवन्ति।

प्रश्न 5.
मालाकारस्य उद्याने केषां फलानां वृक्षाः सन्ति ? चतुर्णां नामानि लिखत।
उत्तरम्:
मालाकारस्य उद्याने आम्राणां, दाडिमानां, नारङ्गाणां, जम्बीराणां च वृक्षाः सन्ति।

(ख) रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

  1. वयं भ्रमणार्थम् उद्यानं गमिष्यामः।
  2. उद्याने शताधिकाः वृक्षाः सन्ति।
  3. एतानि फलानि शीतप्रदेशेषु भवन्ति ।
  4. मनोहराणि इमानि फलानि।

उत्तरम्:
प्रश्ननिर्माणम् –

  1. वयं किमर्थम् उद्यानं गमिष्यामः ?
  2. उद्याने कति वृक्षाः सन्ति ?
  3. एतानि फलानि कुत्र भवन्ति ?
  4. कीदृशानि इमानि फलानि?

पाठ-परिचय:
प्रस्तुत पाठ में बगीचे में विद्यार्थियों एवं आचार्य के भ्रमण का तथा उनमें फलों एवं वृक्षों को आधार बनाकर हुए वार्तालाप का वर्णन है। इस पाठ के माध्यम से विभिन्न प्रकार के फलों और वृक्षों के नाम का ज्ञान कराया गया है, साथ ही इससे छात्रों में प्रकृति के प्रति प्रेमभाव जागृत किया गया है।

पाठ के कठिन-शब्दार्थ:
RBSE Solutions for Class 7 Sanskrit Chapter 11 उद्यानविहारः - 1

पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्
(1) आचार्यः – छात्राः! अद्य वयं भ्रमणार्थं उद्यानं गमिष्यामः। तत्र बहून् वृक्षान् द्रक्ष्यामः।
सुरेशः – आचार्यवर! नगरात् बहिः एकं विशालम् उद्यानम् अस्ति। तदेव वयं द्रष्टं इच्छामः। (उद्यानं गत्वा)
आचार्य: – मालाकार! शोभनं खलु तव उद्यानम्, अत्र बहवः जनाः प्रतिदिनं विहाराय उद्यानम् आगच्छन्ति। वयं त्वया किञ्चिद् ज्ञातुम् इच्छामः।
मालाकार: – पृच्छन्तु भवन्तः यथेच्छम्। अहं यावद् जानामि तावद् वक्ष्यामि।

हिन्दी-अनुवादआचार्य:
छात्रों! आज हम सब भ्रमण के लिए बाग में जायेंगे। वहाँ बहत से वृक्षों को देखेंगे।
सुरेश – आचाय! नगर में चार एक विगाल बगीचा है। उसे ही हम सब देखना चाहते (बगीचे में जाकर)
आचार्य – हे माली ! तुम्हारा बगीचा निश्चय ही सुन्दर है। यहाँ बहुत से लोग प्रतिदिन घूमने के लिए बगीचे में आते हैं। हम तुमसे कुछ जानना चाहते हैं।
माली – आप इच्छानुसार पूछिए। मैं जितना जानता हूँ, उतना बतलाऊँगा।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत
प्रश्ना – (क) एकपदेन उत्तरत –
(i) जनाः प्रतिदिनं विहाराय कुत्र आगच्छन्ति ?
(ii) आचार्यः किमर्थम् उद्यानं गन्तुं कथयति ?
(ख) पूर्णवाक्येन उत्तरतनगरात् बहिः किम् अस्ति ?
(ग) ‘यथेच्छम्’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘वक्ष्यामि’ इति पदे कः लकारः।
(ङ) ‘द्रष्टुम्’ इत्यत्र कः प्रत्ययः।
उत्तराणि:
(क) (i) उद्यानम्। (ii) भ्रमणार्थम्।
(ख) नगरात् बहिः एकं विशालम् उद्यानम् अस्ति।
(ग) यथा + इच्छम्।
(घ) लृट्लकारः।
(ङ) तुमुन् प्रत्ययः।

(2) मुकेश: – भद्र! कति वृक्षाः सन्ति तव उद्याने ?
मालाकार: – न जानामि निश्चितसङ्ख्यां तु, परं
शताधिकाः – वृक्षाः सन्ति। राधा भद्र! युष्माकम् उद्याने केषां फलानां
वृक्षाः – सन्ति ?
मालाकार: – अत्र आम्राणां, दाडिमानां, नारङ्गाणां, जम्बीराणां, बदराणां, च वृक्षाः सन्ति।
राकेश: – किं युष्माकम् उद्याने आरुकाणि, सेवानि,
अलीचीकाः – वातादानि, अमृतफलानि च न सन्ति ?
मालाकार: – एनानि फलानि शीतप्रदेशेषु एव भवन्ति। मम उद्यानं तु उष्णप्रदेशेषु स्थितम् अस्ति।

हिन्दी-अनुवाद
मुकेश: – हे महाशय ! तुम्हारे बगीचे में कितने वृक्ष हैं ?
माली – निश्चित संख्या तो नहीं जानता हूँ, किन्तु सौ से अधिक वृक्ष हैं।
राधा – हे महाशय! तुम्हारे बगीचे में किन फलों के वृक्ष हैं ?
माली – यहाँ आम, अनार, नारंगी, जामुन और बेर आदि के वृक्ष हैं।
राकेश – क्या तुम्हारे बगीचे में आडू, सेब, लीची, बादाम और अंगूर नहीं हैं ?
माली – ये फल शीतल प्रदेशों में ही होते हैं।
मेरा – बगीचा तो गर्म प्रदेश में स्थित है।

पठितावबोधनम् –
निर्देशः
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान् उत्तरतप्रश्नाः
(क) एकपदेन उत्तरत –
(i) मालाकारस्य उद्याने कति वृक्षाः सन्ति ?
(ii) तस्य उद्यानं केषु प्रदेशेषु स्थितम् अस्ति ?
(ख) पूर्णवाक्येन उत्तरतकानि फलानि शीतप्रदेशेषु एव भवन्ति ?
(ग) ‘आम्राणाम्’ इति पदे का विभक्तिः, किञ्च वचनम् ?
(घ) ‘शताधिकाः’ इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तराणि:
(क) (i) शताधिकाः। (ii) उष्णप्रदेशेषु।
(ख) आरुकाणि, सेवानि, अलीचीकाः, वातादानि, अमृतफलानि च शीतप्रदेशेषु एव भवन्ति ।
(ग) षष्ठी, बहुवचनम्।
(घ) शत + अधिकाः ।

(3) सलमा – किं अत्र निम्बवृक्षाः न सन्ति।
मालाकार: – भवन्तः तत्र पश्यन्तु। तत्र निम्बवृक्षाः, शिंशपाः, शुभाञ्जनाः, कोविदाराः, अन्ये चापि वृक्षाः सन्ति। ते छायां यच्छन्ति।
आचार्य: – भद्र! तव उद्याने अधुना कानि फलानि पक्कानि सन्ति।
मालाकार: – अधुना तु आम्राणि एव पक्कानि सन्ति।
आचार्य: – तर्हि आनय अस्मभ्यम्। वयं सर्वे तव कूपजलेन तानि प्रक्षाल्य खादिष्यामः मूल्यं च दास्यामः।
हिन्दी-अनुवाद:
सलमा – क्या यहाँ नीम के वृक्ष नहीं हैं ?
माली – आप सब वहाँ देखो। वहाँ नीम के वृक्ष, शीशम, शमी वृक्ष, कचनार के वृक्ष और अन्य भी वृक्ष हैं। वे सब छाया देते हैं।
आचार्य – हे महाशय! तुम्हारे बगीचे में इस समय कौनसे फल पके हुए हैं ?
माली – इस समय तो आम ही पके हुए हैं।
आचार्य – तब तो हमारे लिए लाओ। हम सब तुम्हारे कुएँ के पानी से उनको धोकर खायेंगे और मूल्य भी देंगे।

पठितावबोधनम् –
निर्देश::
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान् उत्तरतप्रश्नाः
(क) एकपदेन उत्तरत –
(i) उद्याने कानि फलानि पक्वानि सन्ति ?
(ii) ते केषां मूल्यं दास्यन्ति ?
(ख) पूर्णवाक्येन उत्तरतउद्याने के वृक्षाः छायां यच्छन्ति ?
(ग) ‘खादिष्यामः’ इत्यत्र कः लकारः ?
(घ) ‘अस्मभ्यम्’ इति पदे का विभक्तिः, किञ्च वचनम् ? उत्तराणि
(क) (i) आम्रफलानि। (ii) आम्राणाम्।
(ख) उद्याने निम्बवृक्षाः, शिंशपा, शुभाञ्जनाः, कोविदाराः, अन्ये च वृक्षाः छायां यच्छन्ति।
(ग) लृट्लकारः।
(घ) चतुर्थी, बहुवचनम्।

(4) मालाकार: – श्रीमन्तः प्रकोष्ठात् आनयामि। (गत्वा एकस्मिन् करण्डे आम्राणि आनयति) इमानि आम्रफलानि।
छात्रा: – अहो! मनोहराणि इमानि फलानि। आचार्यः- कियत् एतेषां मूल्यम् ?
मालाकार: – केवलं अशीतिः रुप्यकाणि। (आचार्यः मालाकाराय अशीतिः रुप्यकाणि यच्छति, तदन्तरं सर्वे छात्राः कूपं प्रति गच्छन्ति। तत्र सर्वे छात्राः आचार्याः जलेन आम्राणि फलानि प्रक्षाल्य
च खादन्ति प्रसीदन्ति च।)
आचार्य: – भो बालकाः! शृणवन्तु सर्वे, आम्रफलानां, त्वग्बीजानि अवकरपात्रे एव पातनीयानि न इतस्ततः।

हिन्दी-अनुवादमाली:
श्रीमान् ! भण्डार घर से लाता हूँ। (जाकर एक टोकरे में आम लाता है) ये आम हैं।
छात्र – अहो! ये फल तो सुन्दर हैं।
आचार्य- इनका मूल्य कितना है ?
माली – केवल अस्सी रुपये।(आचार्य माली को अस्सी रुपये देता है। उसके बाद सभी छात्र कुएँ की ओर जाते हैं। वहाँ सभी छात्र और आचार्य जल से आम के फलों को धोकर खाते हैं और प्रसन्न होते हैं।)
आचार्य – हे बालकों! सभी सुनिए, आम के फलों के छिलके और गुठलियों को कचरे के पात्र में ही डालना चाहिए, इधर-उधर नहीं।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्नाः
(क) एकपदेन उत्तरत
(i) मालाकारः कस्मात् आम्राणि आनयति ?
(ii) आचार्यः मालाकाराय कति रुप्यकाणि यच्छति ?
(ख) पूर्णवाक्येन उत्तरत –
(i) के आम्रफलानि खादन्ति प्रसीदन्ति च ?
(ii) आम्रफलानां त्वरबीजानि कुत्र पातनीयानि ?
(ग) ‘कूपं प्रति गच्छन्ति’-इत्यत्र ‘कूपम्’ पदे का विभक्तिः ?
(घ) ‘इतस्ततः’ इत्यस्य सन्धिविच्छेदं कुरुत।
(ङ) ‘मनोहराणि फलानि’-इत्यत्र विशेषणं किम् ?
उत्तराणि:
(क) (i) प्रकोष्ठात्। (ii) अशीतिः।
(ख) (i) सर्वे छात्राः आचार्यः च आम्रफलानि खादन्ति प्रसीदन्ति च।
(ii) आम्रफलानां त्वग्बीजानि अवकरपात्रे पातनीयानि।
(ग) द्वितीया।
(घ) इतः + ततः।
(ङ) मनोहराणि।

(5) सलमा – अत्यन्तं मधुराणि आम्राणि एतानि।
मम मनः – भृशं मोदते। एककिलोपरिमितस्य कियत् मूल्यम् ?
मालाकार: – चत्वारिंशत् रूप्यकैः एककिलोपरिमितम्।
सलमा – तर्हि अर्धकिलोपरिमितं ददातु।
आचार्य: – मन्ये युष्माभिः सह मया अपि इदानीम् उद्यानस्य आनन्दः सम्यक् अनुभूतः। उद्याने शोभमानाः एते वृक्षाः यथा मधुराणि फलानि प्रादुर्भावयन्ति तथैव जीवनोपयोगिकाष्ठं ततः अधिकं च स्वच्छं वातावरणं सृजन्ति, यत् खलु अस्माकं जीवनाय नितराम् आवश्यकम् अस्ति। अतः अस्माभिः सर्वैः उद्यानानां संरक्षणे संवर्धने च बद्धपरिकरैः भाव्यम्।
हिन्दी-अनुवाद:
सलमा – ये आम अत्यन्त मधुर (मीठे) हैं। मेरा मन अत्यधिक प्रसन्न है। एक किलो (आम) का मूल्य कितना है ?
माली – एक किलो आम का मूल्य चालीस रुपये है।
सलमा – तो आधा किलो दीजिए।
आचार्य – मैं ऐसा मानता हूँ कि तुम्हारे साथ मैंने भी इस समय बगीचे के आनन्द का अच्छी प्रकार से अनुभव किया है। बगीचे में सुशोभित ये वृक्ष जिस प्रकार मधुर फलों को उत्पन्न करते हैं, उसी प्रकार जीवन के लिए उपयोगी लकड़ियाँ (काष्ठ) और उससे भी अधिक ये स्वच्छ वातावरण का निर्माण करते हैं जो कि हमारे जीवन के लिए अत्यन्त आवश्यक है। इसलिए हम सभी को बगीचों के संरक्षण और संवर्धन में दृढ़ निश्चय युक्त होना चाहिए।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं वार्तालापं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना – (क) एकपदेन उत्तरत –
(i) वृक्षाः कीदृशं वातावरणं सृजन्ति ?
(ii) मधुराणि फलानि के प्रादुर्भावयन्ति ?
(ख) पूर्णवाक्येन उत्तरतअस्माभिः सर्वैः कुत्र बद्धपरिकरैः भाव्यम् ?
(ग) ‘युष्माभिः’ इति पदे का विभक्तिः, किञ्च वचनम् ?
(घ) ‘ददातु’ इति पदे कः लकारः ?
उत्तराणि:
(क) (i) स्वच्छम्। (ii) वृक्षाः।
(ख) अस्माभिः सर्वैः उद्यानानां संरक्षणे संवर्धने च बद्धपरिकरैः भाव्यम्।
(ग) तृतीया, बहुवचनम्।
(घ) लोट्लकारः।

Leave a Comment