RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

RBSE Solutions for Class 7 Sanskrit

Rajasthan Board RBSE Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

RBSE Class 7 Sanskrit अमृत बिन्दवः पाठ्य-पुस्तक के प्रश्नोत्तर

प्रश्न 1.
निम्नलिखितशब्दानां शुद्धोच्चारणं कुरुत –
बन्धुराप्तः, स्वराष्ट्रकम्, ब्रूयात्, नानृतम्, उदारचरितानान्तु, कुटुम्बकम्, श्रुतेनैव, कङ्कणेन, ह्येकेन, विपरीतमेतत्, परोपकारार्थमिदम्, त्यक्तलज्जः।।
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
पाठे प्रदत्तपद्यानां सस्वरं वाचनं कुरुत।
उत्तरम्:
[नोट-पाठ में प्रदत्त श्लोकों को कण्ठस्थ करके अध्यापकजी की सहायता से इनका सस्वर वाचन कीजिए।

प्रश्न 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) परोपकारेण केषां कायः विभाति ?
उत्तरम्:
करुणापराणाम्।

(ख) अयं निजः परो वेति केषां गणना अस्ति ?
उत्तरम्:
लघुचेतसाम्।

(ग) केषां वसुधैव कुटुम्बकम् ?
उत्तरम्:
उदारचरितानाम्।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

(घ) किं न ब्रूयात् ?
उत्तरम्:
अप्रियं सत्यम्।

(ङ) केन विना दैवं न सिद्ध्यति ?
उत्तरम्:
पुरुषकारेण।

प्रश्न 4.
प्रश्नानाम् उत्तराणि एक वाक्येन लिखत –
(क) हस्तस्य शोभा केन भवति ?
उत्तरम्:
हस्तस्य शोभा दानेन भवति।

(ख) करुणापराणां कायः केन विभाति ?
उत्तरम्:
करुणापराणां कायः परोपकारेण विभाति।

(ग) माणिक्यं मौक्तिकं च कुत्र कुत्र न वर्तेते ?
उत्तरम्:
माणिक्यं प्रत्येकस्मिन् पर्वते मौक्तिकं च प्रत्येकस्मिन् गजे न वर्तेते।

(घ) कुत्र लज्जा न करणीया ?
उत्तरम्:
धनधान्यप्रयोगेषु, विद्यायाः सङ्ग्रहे, आहारे व्यवहारे च लज्जा न करणीया।

(ङ) खलस्य किं किं अन्यस्य पीडनाय भवति ?
उत्तरम्:
खलस्य विद्या, धनं शक्तिः च अन्यस्य पीडनाय भवति।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

प्रश्न 5.
श्लोकांशैः रिक्तस्थानानि पूरयत
उत्तरम्:
(क) प्राणाः स्वामी धनं सुखम्।
(ख) प्रियं च नानृतं ब्रूयात्।
(ग) अयं निजः परोवेति।
(घ) साधवो नैव सर्वत्र चन्दनं न वने वने।
(ङ) परोपकाराय इदं शरीरम्।

प्रश्न 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) न ब्रूयात् सत्यमप्रियम्
(ख) पुरुषकारेण विना दैवं न सिद्धयति।
(ग) साधवो न हि सर्वत्र
(घ) एषः धर्मः सनातनः।
(ङ) परोपकाराय दुहन्ति गावः।
उत्तरम्:
प्रश्न – निर्माणम् –
(क) न ब्रूयात् किम् ?
(ख) केन विना दैवं न सिद्ध्यति ?
(ग) साधवो न हि कुत्र ?
(घ) कः धर्मः सनातनः ?
(ङ) किमर्थं दुहन्ति गावः ?

प्रश्न 7.
निम्नलिखितपदानां सन्धिविच्छेदं कुरुत –
उत्तरम् –
(क) बन्धुराप्तः = बन्धुः + आप्तः।
(ख) नानृतम् = न + अनृतम्।
(ग) वसुधैव = वसुधा + एव।
(घ) जलमन्नम् = जलम् + अन्नम्।
(ङ) नैव = न + एव।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

प्रश्न 8.
संस्कृतेन समयं लिखत –
यथा – ६:०० = षड्वादनम्।
उत्तरम्:
() ९:३० = सार्धनववादनम्।
(२) ८:०० = अष्टवादनम्।
(३) १०:४५ = पादोनैकादशवादनम्।
(४) ११:३० = साधैकादशवादनम्।
(५) १२:१५ = सपादद्वादशवादनम्।

प्रश्न 9.
कोष्ठकात् समयं चित्वा अक्षरैः लिखित्वा रिक्तस्थानं पूरयत
उत्तरम्:
(क) बालकः अष्टवादने विद्यालयं गच्छति। (८:००)
(ख) माता सप्तवादने अल्पाहारं पचति। (७:००)
(ग) नरेन्द्रः सायं सार्धनववादने दूरदर्शने वार्ता शृणोति। (९:३०)
(घ) रेलयानं प्रातः पादोनसप्तवादने जोधपुरं गच्छति। (६:४५)
(ङ) श्यामः सपाददशवादने अध्ययनं करोति। (१०:१५)

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

योग्यता-विस्तारः
1. छात्रों के स्मरणार्थ यहाँ कुछ अन्य अमृतमय श्लोक दिये जा रहे हैं –

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥१॥

वरं प्राणपरित्यागो अपमानेन जीवनात्।
प्राणत्यागे क्षणं दुःखं मानभने दिने दिने ॥२॥

अधमाः धनमिच्छन्ति धनमानञ्च मध्यमाः।
उत्तमाः मानमिच्छन्ति मानो हि महतां धनम्॥३॥

2. संस्कृत में समय-ज्ञान:
घड़ी में दर्शाये गये समय को देखकर संस्कृत में समय लिखने का अभ्यास कीजिए।
यथा –
RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दव - 1

RBSE Class 7 Sanskrit अमृत बिन्दवः अन्य महत्त्वपूर्ण प्रश्नोत्तर

RBSE Class 7 Sanskrit अमृत बिन्दवः वस्तुनिष्ठप्रश्ना:

प्रश्ना 1.
‘अमृतबिन्दवः’ पाठस्य क्रमः अस्ति –
(क) षष्ठः
(ख) अष्टमः
(ग) दशमः
(घ) त्रयोदशः।
उत्तरम्:
(ग) दशमः

प्रश्ना 2.
‘पाणिः’ शब्दस्य अर्थः अस्ति –
(क) हस्तः
(ख) जलम्
(ग) कण्ठः
(घ) कर्णः।
उत्तरम्:
(क) हस्तः

प्रश्ना 3.
‘नानृतम्’ पदस्य सन्धिविच्छेदः भवति –
(क) ना + नृतम्
(ख) नी + अनृतम्
(ग) नारी + ऋतम्
(घ) न + अनृतम्।
उत्तरम्:
(घ) न + अनृतम्।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

प्रश्ना 4.
‘परेषाम्’ पदे विभक्तिः अस्ति –
(क) द्वितीया
(ख) षष्ठी
(ग) चतुर्थी
(घ) सप्तमी।
उत्तरम्:
(ख) षष्ठी

कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –

  1. मम प्राणाः स्वामी च …………. अस्ति। (स्वगृहम्, स्वधनम्, स्वराष्ट्रम्)
  2. …………. धर्मः सनातनः। (एषः, एषा, एतत्)
  3. ………….. पाणिर्न तु कङ्कणेन। (भोगेन, श्रुतेन, दानेन)
  4. खलस्य विद्या ……….. भवति। (ज्ञानाय, विवादाय, दानाय)

उत्तरम्:

  1. स्वराष्ट्रम्
  2. एषः
  3. दानेन
  4. विवादाय।

RBSE Class 7 Sanskrit अमृत बिन्दवः अतिलघूत्तरात्मक प्रश्ना:

एकपदेन उत्तरत –

प्रश्न 1.
नद्यः किमर्थं वहन्ति ?
उत्तरम्:
परोपकाराय।

प्रश्न 2.
वने वने किं न भवति ?
उत्तरम्:
चन्दनम्।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

प्रश्न 3.
के न शोभन्ते ?
उत्तरम्:
विद्याहीनाः।

प्रश्न 4.
कस्याः सङ्ग्रहे लज्जा न कर्त्तव्या ?
उत्तरम्:
विद्यायाः।

RBSE Class 7 Sanskrit अमृत बिन्दवः लघूत्तरात्मक प्रश्ना:

पूर्णवाक्येन उत्तरत

प्रश्न 1.
मे सर्वस्वं किम् अस्ति ?
उत्तरम्:
मे सर्वस्वं स्वराष्ट्रम् अस्ति।

प्रश्न 2.
कीदृशं प्रियं न ब्रूयात् ?
उत्तरम्:
अनृतं प्रियं न ब्रूयात्।

प्रश्न 3.
केषां वसुधैव कुटुम्बकं भवति ?
उत्तरम्:
उदारचरितानां वसुधैव कुटुम्बकं भवति।

प्रश्न 4.
चन्दनेन केषां कायः न विभाति ?
उत्तरम्:
चन्दनेन करुणापराणां कायः न विभाति ।

पाठ-परिचय:
प्रस्तुत पाठ में महापुरुषों के कुछ अनुभव-वचन (श्लोक) संकलित किये गये हैं। ये अमृततुल्य अमूल्य सूक्त वचन चिन्तन करने योग्य, मनन करने योग्य तथा जीवन में पालन करने योग्य हैं। छात्रों को इन्हें कण्ठस्थ कर लेना चाहिए। पाठ के योग्यता-विस्तार में संस्कृत भाषा में समय का ज्ञान भी कराया गया हैं।

पाठ के कठिन-शब्दार्थ
RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दव - 2

पाठ के श्लोकों का संस्कृत एवं हिन्दी में भावार्थ तथा पठितावबोधन –
(1) राष्ट्रं मम पिता माता प्राणा: स्वामी धनं सुखम्। बन्धुराप्तः सखा भ्राता सर्वस्वं मे स्वराष्ट्रकम्॥
संस्कृत:
भावार्थ-मम पिता, माता, प्राणाः, स्वामी, धनं, सुखं, बन्धुः, मित्रं, भ्राता सर्वं मम राष्ट्रम् एव अस्ति। अहं राष्ट्राद् अधिकं किमपि न गणयामि।

हिन्दी-भावार्थ:
मेरे पिता, माता, प्राण, स्वामी, धन, सुख, बन्धु, मित्र और भाई, सब कुछ मेरा राष्ट्र (देश) ही है। मेरे लिए राष्ट्र से अधिक कुछ भी नहीं है।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना: – (क) एकपदेन उत्तरत –
(i) मम प्राणाः सुखं च किम् अस्ति ?
(ii) मम पिता माता च किम् अस्ति ?
(ख) पूर्णवाक्येन उत्तरतमे सर्वस्वं किम् अस्ति ?
(ग) ‘बन्धुराप्तः’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘मम’ पदे का विभक्तिः, किञ्च वचनम् ?
उत्तराणि:
(क) (i) राष्ट्रम्। (ii) राष्ट्रम्।
(ख) मे सर्वस्वं स्वराष्ट्रकम् एव अस्ति।
(ग) बन्धुः + आप्तः।
(घ) षष्ठी, एकवचनम्।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

(2) सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः॥
संस्कृत:
भावार्थ-वयं सर्वदा सत्यं प्रियं च वदाम, सत्यं किन्तु अप्रियं न वदाम। प्रियं किन्तु असत्यम् अपि न वदाम। अयमेव अस्माकम् प्राचीनधर्मः।

हिन्दी-भावार्थ:
हमें हमेशा सत्य बोलना चाहिए और प्रिय बोलना चाहिए, सत्य किन्तु अप्रिय नहीं बोलना चाहिए। प्रिय किन्तु असत्य (झूठ) नहीं बोलना चाहिए। यही हमारा प्राचीन धर्म है।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत
प्रश्ना – (क) एकपदेन उत्तरत
(i) कीदृशं सत्यं न ब्रूयात् ?
(ii) कीदृशं प्रियं न ब्रूयात् ?
(ख) पूर्णवाक्येन उत्तरतकः सनातनः धर्मः ?
(ग) ‘ब्रूयात्’ इति पदे कः लकारः ?
(घ) ‘नानृतम्’ इति पदस्य सन्धिविच्छेदं कुरुत। उत्तराणि
(क) (i) अप्रियम्। (ii) अनृतम्।
(ख) ‘सत्यं प्रियं च ब्रूयात् किन्तु अप्रियं सत्यम्, प्रियं च अनृतं न ब्रूयात्’ इति सनातनः धर्मः।
(ग) विधिलिङ्लकारः।
(घ.) न + अनृतम्।

(3) अयं निजः परोवेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्॥
संस्कृत:
भावार्थ-एतद् मम एतत् तव इति क्षुद्रभावना। विचारवन्तः जनाः तु समस्तपृथिवीम् एव स्वकुटुम्बं चिन्तयन्ति।

हिन्दी-भावार्थ:
‘यह अपना है अथवा यह पराया है’-इस प्रकार की भावना छोटा चिन्तन करने वालों (तुच्छ लोगों) की होती है। उदार चरित्र वालों के लिए तो सम्पूर्ण पृथ्वी ही अपना परिवार होता है।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत प्रश्ना – (क) एकपदेन उत्तरत
(i) अयं निजः परोवेति गणना केषाम् ?
(ii) लघुचेतसाम्’ इत्यस्य कोऽर्थः ?
(ख) पूर्णवाक्येन उत्तरतकेषां वसुधैव कुटुम्बकं भवति ?
(ग) ‘वसुधैव’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘उदारचरितानाम्’ इत्यत्र का विभक्तिः किञ्च वचनम् ?
उत्तराणि:
(क) (i) लघुचेतसाम्।
(ii) क्षुद्रचिन्तनशीलजनानाम्।
(ख) उदारचरितानां वसुधैव कुटुम्बकं भवति।
(ग) वसुधा + एव।
(घ) षष्ठी, बहुवचनम्।

(4) श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारेण न तु चन्दनेम॥
संस्कृत:
भावार्थ-कर्णस्य शोभा वेदश्रवणेन भवति कुण्डलेन न। हस्तस्य शोभा दानेन भवति कङ्कणेन न, करुणापराणां शरीरस्य शोभा परोपकारेण भवति, चन्दनेन न।

हिन्दी-भावार्थ:
कान की शोभा वेद (शास्त्र) को। सुनने से ही होती है, कुण्डल से नहीं। हाथ की शोभा दान देने से होती है, कंगन से नहीं। करुणा से युक्त (दयालु स्वभाव वाले) मनुष्यों के शरीर की शोभा परोपकार से होती है, चन्दन का लेप धारण करने से नहीं।

पठितावबोधनम् –
निर्देशः
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान् उत्तरतप्रश्नाः
(क) एकपदेन उत्तरत –
(i) श्रोत्रं केन विभाति ?
(ii) दानेन किम् विभाति न तु कङ्कणेन ?
(ख) पूर्णवाक्येन उत्तरतकरुणापराणां कायः केन विभाति ?
(ग) ‘श्रुतेनैव’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘पाणिः’ इत्यस्य कोऽर्थः ?
उत्तराणि:
(क) (i) श्रुतेन। (ii) पाणिः।
(ख) करुणापराणां कायः परोपकारेण विभाति।
(ग) श्रुतेन + एव।
(घ) हस्तः।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

(5) यथा टेकेन चक्रेण न रथस्य गतिर्भवेद्।
एवं पुरुषकारेण विना दैवं न सिद्धयति॥
संस्कृत:
भावार्थ-एकेन चक्रेण रथस्य गतिः न भवति तत्र चक्रद्वयम् आवश्यकम्। तथैव कार्यसिद्धये पुरुषार्थः भाग्यम् च द्वयमपि आवश्यकम्, केवलं भाग्यं न पर्याप्तम् न च पुरुषार्थ:।

हिन्दी-भावार्थ:
जैसे एक पहिए से रथ की गति नहीं होती है अर्थात् रथ दो पहियों से ही चल सकता है, उसी प्रकार परिश्रम (पुरुषार्थ) के बिना केवल भाग्य से सफलता नहीं मिलती है, कार्य की सिद्धि के लिए पुरुषार्थ और भाग्य दोनों ही आवश्यक हैं।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान् उत्तरतप्रश्ना :
(क) एकपदेन उत्तरत
(i) केन रथस्य गतिः न भवेत् ?
(ii) ‘पुरुषकारेण’ इत्यस्य कोऽर्थः ?
(ख) पूर्णवाक्येन उत्तरतकेन विना दैवं न सिद्धयति ?
(ग) ‘ह्येकेन’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘चक्रेण’ इत्यत्र का विभक्तिः ?
उत्तराणि:
(क) (i) एकेन चक्रेण। (ii) पुरुषार्थेन।
(ख) पुरुषार्थेन विना दैवं न सिद्धयति।
(ग) हि + एकेन।
(घ) तृतीया।

(6) विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय।
खलस्यसाधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

संस्कृत:
भावार्थ-दुष्टः विद्यायाः प्रयोगं विवादाय, धनस्य प्रयोगम् अहङ्काराय, शक्तेः प्रयोगं च अन्यपीडनाय करोति किन्तु सज्जनः तु विद्यायाः प्रयोगं ज्ञानाय, धनस्य · दानाय, शक्तेश्च रक्षणाय करोति।

हिन्दी-भावार्थ:
दुष्ट व्यक्ति विद्या का प्रयोग विवाद करने के लिए, धन का प्रयोग अहंकार दिखाने के लिए तथा ताकत का प्रयोग दूसरों को पीड़ित करने के लिए करता है, किन्तु सज्जन तो विद्या का प्रयोग ज्ञान के लिए, धन का दान के लिए तथा ताकत का रक्षा करने के लिए करता है।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना – (क) एकपदेन उत्तरत
(i) दुर्जनः धनस्य प्रयोग किमर्थं करोति ?
(ii) सज्जनः धनस्य प्रयोग किमर्थं करोति ?
(ख) पूर्णवाक्येन उत्तरतविद्यायाः प्रयोगं दुर्जनः सज्जनः च किमर्थं कुरुतः?
(ग) ‘दानाय’ इति पदे का विभक्तिः ?
(घ) ‘विपरीतमेतत्’ इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तराणि:
(क) (i) अहङ्काराय। (ii) दानाय।
(ख) विद्यायाः प्रयोगं दुर्जनः विवादाय, सज्जनः च। ज्ञानाय कुरुत।
(ग) चतुर्थी। (घ) विपरीतम् + एतत्।

(7) परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥
संस्कृत:
भावार्थ-वृक्षाः फलानि अन्येभ्यः एव यच्छन्ति, नद्यः स्वजलं, गावः च स्वदुग्धम् अन्येभ्यः एव ददति, स्वयम् उपयोगं न कुर्वन्ति। एतेषाम् एषा परोपकारपरम्परा। अस्माकम् इदं शरीरमपि परोपकाराय वर्तते।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

हिन्दी-भावार्थ:
वृक्ष दूसरों के लिए फल देते हैं, नदियाँ अपना जल और गायें अपना दूध दूसरों के लिए ही देती हैं, स्वयं उपयोग नहीं करती हैं। इनका यह परोपकार करने का स्वभाव ही है। हमारा यह शरीर परोपकार के लिए ही है।

पठितावबोधनम् –
निर्देश::
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत
प्रश्ना – (क) एकपदेन उत्तरत
(i) वृक्षाः किमर्थं फलन्ति ?
(ii) परोपकाराय काः दुहन्ति ?
(ख) पूर्णवाक्येन उत्तरतइदं शरीरं किमर्थम् अस्ति ?
(ग) ‘फलन्ति’ इति क्रियायाः कर्तापदं किम् ?
(घ) ‘परोपकाराय’ इति पदस्य सन्धिविच्छेदं कुरुत।
उत्तराणि:
(क) (i) परोपकाराय। (ii) गावः।
(ख) इदं शरीरं परोपकारार्थम् अस्ति।
(ग) वृक्षाः । (घ) पर + उपकाराय।

(8) रूपयौवनसम्पन्नाः विशालकुलसम्भवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशकाः॥.

संस्कृत-भावार्थ:
जनाः रूपवन्तः सन्ति, युवावस्थावन्तः सन्ति, प्रसिद्धकुले च उत्पन्नाः अपि सन्ति किन्तु विद्याहीनाः सन्ति, ते शोभिताः न भवन्ति । यथा किंशुकाः गन्धरहिताः भवन्ति अर्थात् गुणरहिताः भवन्ति, अतः तान् न कोऽपि इच्छति।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

हिन्दी-भावार्थ:
जो लोग रूपवान् हैं, युवावस्था से युक्त हैं तथा प्रसिद्ध कुल में उत्पन्न भी हुए हैं, किन्तु विद्या से रहित हैं, वे उसी प्रकार सुशोभित नहीं होते हैं जिस प्रकार देखने में तो सुन्दर किन्तु गन्धरहित किंशुक के पुष्प सुशोभित नहीं होते। अर्थात् गन्धहीन होने के कारण उन्हें कोई भी नहीं चाहता है।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना – (क) एकपदेन उत्तरत –
(i) किंशुकाः कीदृशाः भवन्ति ?
(ii) केन सम्पन्नाः अपि न शोभन्ते ?
(ख) पूर्णवाक्येन उत्तरतके जनाः न शोभन्ते ?
(ग) ‘निर्गन्धाः ‘ इत्यत्र कः उपसर्ग: ?
(घ) ‘शोभन्ते’ इत्यत्र कः लकारः ?

उत्तराणि
(क) (i) निर्गन्धाः। (ii) रूपयौवनसम्पन्नाः।
(ख) रूपयौवनसम्पन्ना ः,विशालकुलसम्भवाः किन्तु विद्याहीनाः जनाः न शोभन्ते।
(ग) निर्। `
(घ) लट्लकारः।

(9) शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो नैव सर्वत्र चन्दनं न वने वने ॥

संस्कृत:
भावार्थ-प्रत्येकस्मिन् पर्वते माणिक्यम् इत्याख्यं रत्नं न भवति। प्रत्येकस्मिन् गजे मौक्तिकम् इत्याख्यं रत्नं न मिलति । प्रत्येकं वने चन्दनं न मिलति । तथैव सज्जनपुरुषाः सर्वत्र न मिलन्ति।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

हिन्दी-भावार्थ:
जैसे प्रत्येक पर्वत पर माणिक्य रत्न, नहीं होता है। प्रत्येक हाथी में मोती नहीं मिलता है। प्रत्येक वन में चन्दन नहीं मिलता है, उसी प्रकार सज्जन भी सभी जगह नहीं मिलते हैं।

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत
प्रश्ना – (क) एकपदेन उत्तरत
(i) प्रत्येकस्मिन् पर्वते किं न भवति ?
(ii) सज्जनाः कुत्र न मिलन्ति ?
(ख) पूर्णवाक्येन उत्तरतप्रत्येकस्मिन् गजे वने च किं किं न मिलति ?
(ग) ‘नैव’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘शैले’ इत्यत्र का विभक्तिः ?
उत्तराणि:
(क) (i) माणिक्यम्। (ii) सर्वत्र।
(ख) प्रत्येकस्मिन् गजे मौक्तिकं तथा प्रत्येकस्मिन् वने चन्दनं न मिलति।
(ग) न + एव।
(घ) सप्तमी।

(10) धनधान्यप्रयोगेषु विद्यायाः सङ्ग्रहे तथा।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेद ॥

संस्कृत-भावार्थ:
धनस्य अन्नस्य विद्यायाः च सङ्ग्रहे, भोजने परस्परं व्यवहारे च लज्जा न करणीया। यः एतेषु लज्जां करोति सः दुःखी भवति।

हिन्दी-भावार्थ:
धन और अन्न का प्रयोग करने में, विद्या का संग्रह करने अर्थात् ज्ञान प्राप्त करने में, भोजन चाहिए। जो इनमें संकोच करता है वह दुःखी होता है। अतः इनमें संकोच का त्याग करके सुखी होना चाहिए।

RBSE Solutions for Class 7 Sanskrit Chapter 10 अमृत बिन्दवः

पठितावबोधनम् –
निर्देश:
उपर्युक्तं श्लोकं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत
प्रश्ना – (क) एकपदेन उत्तरत
(i) कस्याः सङ्ग्रहे लज्जा न करणीया ?
(ii) धनधान्यप्रयोगेषु कस्याः त्यागं कर्त्तव्यम् ?
(ख) पूर्णवाक्येन उत्तरतकीदृशः जनः सुखी भवति ?
(ग) ‘विद्यायाः’ इत्यत्र का विभक्तिः ?
(घ) ‘भवेद्’ इति पदे कः लकारः ?
उत्तराणि:
(ख) धनधान्यप्रयोगेषु, विद्यायाः सङ्ग्रहे, आहारे व्यवहारे च त्यक्तलज्जः जनः सुखी भवति।
(ग) षष्ठी।
(घ) विधिलिङ्लकारः।

Leave a Comment