RBSE Class 8 Sanskrit श्लोक लेखनम्

RBSE Solutions for Class 8 Sanskrit

Rajasthan Board RBSE Class 8 Sanskrit श्लोक लेखनम्

द्वौ श्लोको लिखत यो अस्मिन् प्रश्नपत्रे न स्यात्।

1. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥

2. क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥

3. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥

4. यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!
अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्यहम्॥

RBSE Class 8 Sanskrit श्लोक लेखनम्

5. परित्राणाय साधूनां, विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय, सम्भवामि युगे युगे॥

6. श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥

7. अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भृतेष्वलोलुपत्वं मार्दवः ह्रीरचापलम्॥

8. तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं देवीमभिजातस्य भारत !॥

9. अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥

10. मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥

RBSE Class 8 Sanskrit श्लोक लेखनम्

अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्ति कुरुत-

प्रश्न 1.
(कृष्टौ, दानं, शिरसाङ्गानि, दत्तानि)
येन ……………….. दानानि ,……………… कृतानि वै।
किमादातुमसौ …………..लोभा ………………भवत्यहो।
उत्तर:
येन दत्तानि दानानि शिरसाङ्गानि कृतानि वै।
किमादातुमसौ दानं लोभाकृष्टो भवत्यहो

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 2.
(पुण्यकृतो, समक्रिय, हितमिच्छति, सुचरितैः)
यः प्रीणयेत् …………. पितरं स पुत्रो,
यद्भर्तुरेव.. ……………. तत्कलत्रम्।
यन्मित्रमापदि सुखे च …………. एव,
एतत्त्रयं जगति …………….. लभन्ते॥
उत्तर:
यः प्रीणयेत् सुचरितैः पितरं स पुत्रो,
यद् भतुरेव हितमिच्छति तत्कलत्रम्।
यन्मित्रमापदि सुखे च समक्रिय एव,
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥

प्रश्न 3.
(आपन्नैः, वस्तूनां, मत्तदन्तिनः कार्यसाधिका)
अल्पानामपि ……………. संहतिः …………..
तृणैर्गुणत्वम् ……………. बध्यन्ते ……………..
उत्तर:
अल्पानामपि वस्तूनां, संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नः बध्यन्ते मत्तदन्तिनः॥

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 4.
(जहाति, सन्मित्र, निगृहति, योजयते)
पापान्निवारयति ………….. हिताय,
गुह्य ………… गुणान् प्रकटीकरोति।
आपद्गतं च न ददातिकाले,
………….. लक्षणमिदं प्रवदन्ति सन्तः॥
उत्तर:
पापान्निवारयति योजयते हिताय,
गुह्यं निगृहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले,
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

प्रश्न 5.
(वर्धते, चौर, सर्वधनं भ्रातृ)
न …………. हार्यं न च राजहार्यं, न …………. भाज्यं न च भारकारि।
व्यये कृते ………….. एव नित्यं विद्याधनं ………… प्रधानम्॥
उत्तर:
न चौरहार्यं न च राजहार्यं नत भाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनं प्रधानम्॥

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 6.
(महताम्, विपत्तौ, सविता, अस्तमये)
उदेति …………. रक्तो, रक्तश्च ……………. तथा।
सम्पत्तौ च ……….. च …………….. एकरूपता।
उत्तर:
उदेति सविता रक्तो रक्तश्चास्तमये तथा।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।।

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 7.
(वारिवाहा, सतां, खादन्ति, स्वयमेव)
पिबन्ति नद्यः …………….. नाम्भः, स्वयं न ……………… फलानि वृक्षाः।
नदन्ति शस्यं खलु ………….., परोपकाराय ……………… विभूतयः॥
उत्तर:
पिबन्ति नद्यः स्वयमेव नाम्भः,
स्वयं न खादन्ति फलानि वृक्षाः।
नदन्ति शस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः।

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 8.
(जकाराः, पञ्च, जाह्नवी जन्म)
जननी …………. भूमिश्च …………… च जनार्दनः।
जनक: …………….. मश्चैव …………….. पञ्च दुर्लभाः।।
उत्तर:
जननी जन्म भूमिश्च जाह्नवी च जनार्दनः।
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः॥

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 9.
(सत्पुरुषाः, एवैष, विलम्बिनो, नम्रास्तरवः)
भवन्ति ……………. फलोद्गमैः नवाम्बुभिर्भूरि ……………… घनाः।
अनुद्धताः ……………. समृद्धिभिः, स्वभाव …………… परोपकारिणाम्।
उत्तर:
भवन्ति नम्रास्तरवः फलोद्गमैः,
नवाम्बुभिर्भूरि विलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम्।

RBSE Class 8 Sanskrit श्लोक लेखनम्

प्रश्न 10.
(स, व्यसने, शत्रु, श्मशाने)
उत्सवे …………….. प्राप्ते, दुर्भिक्षे ……………. सङ्कटे।
राजद्वारे …………….. च, यस्तिष्ठिति …………….. बान्धवः।
उत्तर:
उत्सवे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे।
राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः।।

RBSE Class 8 Sanskrit श्लोक लेखनम्

Leave a Comment