RBSE Solutions for Class 8 Sanskrit
Rajasthan Board RBSE Class 8 Sanskrit सड़क सुरक्षा
प्रश्न 1.
सडक-सुरक्षार्थं किं करणीयम् लिखत।
उत्तर:
राजमार्ग-सुरक्षार्थम् अस्माभिः सडक-सुरक्षानियमानां ज्ञानं प्राप्तव्यम्। राजमार्गम् उभयतः स्थापितानां यातायात- सङ्केतानाम् अभिज्ञानमपि करणीयम्। अल्पायुसि एव वाहन न चालयेत्। वाहन-सञ्चालन काले उच्च-स्वरेण सङ्गीत वर्जयेत्। मार्गे ध्यानं सर्वतः आकृष्य मार्गागतानि वस्तूनि एव न पश्येत्। नैतस्मिन् काले धूम्रपानं कुर्यान्न च चलदूरभाषे केनापि सह वार्तालापं कुर्यात्। सहयात्रिभिः साध मिपि न संवदेत्।
प्रश्न 2.
मार्गे दुर्घटनायाः कारणानि लिखत।
उत्तर:
सामान्यतः जनाः यातायात-नियमेभ्यः अनभिज्ञाः भवानि। विज्ञाः अपि यातायात सङ्केतान् न पश्यन्ति। बहवः तु उपेक्षन्ते। जनाः भूमिगतपदाति मार्गस्योपयोगमपि न कुर्वन्ति। निषेधेऽपि निषेध मार्गं प्रविशन्ति। वाहन चालकः समीपस्थैः जनैः सह, चल दूरभाषे च दत्तचित्ताः सन्तः वार्तालापं कुर्वन्ति। केचन तु उपहास-निमग्नाः परिवर्त्य पृष्ठ भागे पश्यन्ति सहयात्रिणः।
प्रश्न 3.
सड़क सुरक्षा नियम-शिक्षणाय सरलतमा का व्यवस्था भवेत्?
उत्तर:
गृहे परिजनैः विद्यालये च शिक्षकैः छात्राः एतद्विषये प्रशिक्षणीया। प्रार्थना-सभायां समये-समये सडक सुरक्षा नियमानां ज्ञानं प्रदेयम्। भूगोलविषयाध्ययन काले विषयाध यापकेन यथावसरं यातायात-सङ्केतानां मानचित्राध्ययनस्य परिचयः प्रदेयः। विद्यालये एतद्विषयक प्रश्न-पृच्छा-स्पर्धा अपि आयोज्या। वृत्तपत्रेषु सडक दुर्घटनायाः समाचार श्रावयित्वा तं प्रति सावहितं कुर्यात् तेभ्यः च मार्ग-सञ्चरण नियम-ज्ञानपि पुन:-पुनः प्रदेयम्। एकस्मिन् सत्रे वारद्वयं सडक-सुरक्षा-नियमान् आधृत्य संवाद, वाद-विवाद, भाषणादीनां स्पर्धानामप्यायोजनं कुर्यात् विजेतारश्च पुरस्करणीयाः।
प्रश्न 4.
जन-सम्माकीर्णे मार्गे वाहन-चालकेन किं करणीयम्?
उत्तर:
सुसञ्चालनं विधाय वाहन चालकः दुर्घटनां परिहर्तुं शक्नोति। अतः सुसञ्चालकः जनसम्पर्दाकीर्णमार्गे वाहनं कदापि तीव्र गत्या न चालयेत। वाहनस्यगतिः निर्धारिता निर्दिष्टा नियन्त्रिता च भवेत्। अपर्याप्तमपि मार्ग प्राप्य अग्रगमनस्य प्रयत्नं न कुर्यात्। द्रुत गमनमपि सदैव वर्जनीयम्। आगते गत्यावरोधके वाहनस्य गतिरपि अवरोधनीया। निर्दिष्टं मार्गमेवानुसरेत्।
प्रश्न 5.
अधोदत्त यातायात-सङ्केतानां अभिप्रायमपि लिखत।
उत्तर:
सङ्केतोऽयं सन्दशकावर्त (U-TURN) इति कथ्यते यन्निर्दशति यदत्र व्यावर्तन निषिद्धम्।
सङ्केतोऽयं निर्दिशति यदत्र प्रवेशः निषिद्धः अत: नात्र गन्तव्यम्। ओवरटेक-निषेधक चिह्नमुपदिशति यत्र अग्रगमन- प्रयत्न निषिद्धम्।
प्रश्न 6.
यदा चालकः सड़क-सुरक्षा नियमान् न पालयति तदा किं करणीयम्?
उत्तर:
यदा वाहन-चालकः सडक-सुरक्षा-नियमान् न पालयति तदा छात्रैः सः निरोधनीय, बोधनीयः विरोधनीयः। एषा उपेक्षा भावना च अवरोधनीया। तस्यायनुचित-व्यवहारस्य परिवादः विद्यालयस्याधिकारिणां समक्षे निवेदनीयः। अधिकारिभिः असौ सम्यक् निर्देष्टव्यः। यद्यसौ पुनरपि करोति तदा परिवर्तनीयः अन्यथा आरक्षि- स्थाने परिवादः प्रस्तोतव्यः स: यातायात- नियमानवगन्तु चं आदिष्टव्यः। छात्रैः शिक्षकैः अधिकारिभिश्चासौ उपेक्षणीयः।
प्रश्न 7.
सड़क-सुरक्षार्थ बालकैः किं न करणीयम्?
उत्तर:
केचन छात्राः बालकाः व अल्पायुसि एव वाहनचालनाय अत्युत्सुकाः भवन्ति। ते वाहन- चालनेऽनभिज्ञा अल्पज्ञाः वा सन्तोऽपि वाहनं नीत्वा राजमार्गे आगच्छन्ति। वाहन-चालनस्य प्रयत्न कुर्वन्ति एवं दुर्घटना सम्भवति अतोऽल्पायुसि बालकैः वाहन-चालन कार्यं न कुर्यात्। षोडशदेश वर्षीया बालकाः गियर (गतिपरिवर्तक) युक्त वाहनं न चालयेयुः। प्रशिक्षिताः अपि केचन बालकाः आत्मविश्वासस्य अभावे असावधानतया दुर्घटनां विदधति। अतः आत्मविश्वास न त्यजेत् परञ्च वाहने चलदूरभाषै सङ्गीतं चापि न श्रृणुयु सहयात्रिणा सह वार्तालापमपि न कुर्युः।
प्रश्न 8.
राजमार्ग सुरक्षायाः सामान्य नियमान् लिखत?
उत्तर:
राजमार्गस्य वामपार्वे एव चलेत्। व्यावर्तनेः चतुष्पथे, पदातिमार्गे, गत्यावरोधके च वाहनं शनैः शनैः चालयेत। उभयतः संलग्नयोः आदर्शयोः मार्गस्थितिं विचरन्तश्च जनान् पश्येत्। व्यावर्तने हस्त-सङ्केत कुर्यात्। द्विचक्रवाहन चालकेन शिरस्त्राणम् (हैलमेट) अवश्यनेन धारणीयम्। यातायात संकेतान् अवलोक्य अभिज्ञाय, तेषाम् अभिप्राय प्रयोजनं वा ज्ञात्वा अनुपालयेत् राजमार्गविभाजिका पीत रेखा नोल्लङ्गनीया। वाहनोऽकस्मात् नावरोधनीय। पश्चगमने आदर्शयो स्थितिं जन-सम्मर्द च पश्येत सावहितः सन् चालयेत्।
प्रश्न 9.
प्रवेश-निषेध मार्गे गते का हानिर्भवति?
उत्तर:
‘प्रवेश निषेध’ मागं न प्रविशेत्। यदि प्रविशति तदा किमपि दुर्घटितुं शक्यते। स्वस्यापरस्य व हानिर्भवितुं शक्नोति। तत्र नियुक्तः राज-पुरुषः निरोद्धं शक्नोति, वाहनस्य चालनं विधाय परिवादमपि आरब्धुं शक्नोति। अनेन आर्थिकहानिः तु भविष्यति एव मानसिक अशान्तिः अपि वर्धिष्यते। न्यायालयः दण्डयितु शक्नोति। अवमानना वाहनस्य क्षतिः सम्भवति वाहनमपि निरोद्धुं शक्यते। अतः प्रवेश निषेध मार्गे प्रविष्टेतु अपाय एव सम्भवति।
प्रश्न 10.
राजमार्ग-सङ्केता कतिधा भवन्ति? लिखत।
उत्तर:
राजमार्ग सङ्केताः मुख्यतः चतुर्धाः भवन्ति। एतेषु प्रवेश-निषेधादयः पञ्चत्रिंशत सङ्केताः अनिवार्याः भवन्ति एते वृत्ताकारेऽङ्किताः भवन्ति। सचेतकाः सङ्केताः त्रिकोणात्मकाः अङ्किताः भवन्ति, एते व्यावर्तनादिबोधकाः चत्वारिंशत् भवन्ति। सूचना चिह्नाणि विद्यमानता बोधकानि पञ्चदश संख्यकानि भवन्ति। चतुर्थ-विद्या दश सङ्केताः यातायात- कर्मकरस्य हस्ताभ्यां सङ्केतिताः भवन्ति। चतुष्पथे पुलिस कर्मकारः स्व हस्तयोः मार्ग, व्यावर्तक मार्गस्य रिक्ततां व्यस्ततां च दर्शयति।