RBSE Solutions for Class 8 Sanskrit
Rajasthan Board RBSE Class 8 Sanskrit रचना लघु रचना / कहानी लेखनम
प्रश्न-मंजूषायां लिखितानां शब्दानां सहाय्येक कथां लिखत
मंजूषा 1.
विशाल वृक्षे: अन्वेषणे, लतायाम् द्राक्षाफलानि, लम्बितानि, प्रायतत, व्यर्थमेव, उत्प्लुतः अतिश्रान्तः, द्राक्षास्तवकम्, फलानि।
उत्तर:
एकस्मिन् उद्याने विशालवृक्षे द्राक्षालता आरूढा आसीत्। एक: जम्बुकः भोजनस्य अन्वेषणे इतस्ततः अभ्रमत्। लतायाम् द्राक्षाफलानि उच्चतरे स्थाने लम्बितानि आसन्। शृगालः अनेकशः प्रायतत परञ्च सर्वं व्यर्थमेव अभवत्। पुनः पुनः उत्पलुः अपि स द्राक्षाफलानि न प्राप्नोत्। सः अतिश्रान्तः अभवत्। निराशः शृगालः द्राक्षास्तवकम् अप्राप्यं मत्वा द्राक्षाफलानि अनिन्दत्। अवदत्-“अम्लानि सन्ति द्राक्षा फलानि नैतानि मह्यं रोचन्ते।” इत्युक्त्वा शृगालः वने अगच्छत्।
मंजूषा 2.
पिपासितः, अन्वेषणे, घटम्, तत्र, उपरि, अपश्यत्, अल्पम्, उपायम्, खण्डानि, घटे।
उत्तर:
एकः काकः पिपासित आसीत्। जलस्य अन्वेषणे सः इतस्ततः अभ्रमत्। सः दूरे एक घटम् अपश्यत्। काकः तत्र अगच्छत्। सः घटस्य उपरि अतिष्ठत् घटे च अपश्यत्। घटे अल्पम् जलम् आसीत्। सः उपायम् अचिन्तयत् पाषाण खण्डानि च आनयत्। तानि पाषाणखण्डानि घटे अक्षिपत्। जलम् उपरि आगच्छत्। जलं पीत्वा सन्तुष्टः स उड्डयत् अचिन्तयत् च उद्यमेन हि कार्याणि सिद्ध्यन्ति।
मंजूषा 3.
नृपः, बहवः पशवः, वानरः, नृपः सुप्तः, अवीजयत्, मक्षिका, खड्गेन प्रहारम्, उड्डीय, प्रहारेण, नासिका
उत्तर:
एकस्मिन् नगरे एकः नृपः आसीत्। तस्य भवने बहवः पशवः आसन्। तेषु पशुषु एकः वानरः तस्य (नृपस्य) प्रियः अभवत्। एकदा नृपः सुप्तः आसीत्। तदा सः वानरः व्यजनेन तम् अवीजयत्। तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। तस्मात् कारणात् सः वानरः क्रुद्धः अभवत्। तां मक्षिकां हन्तुं सः खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्।
मंजूषा 4.
वृद्धः व्याघ्रः, पथिकान्, सुवर्णकङ्कणं, लोभेन, चिन्तितो, श्रावयित्वा, विश्वासं, सरोवरे, महापङ्के, मारयित्वा।
उत्तर:
एक वृद्धः व्याघ्रः सरोवरस्य तटम् आगत्य पथिकान् कथयति यत् सः एक सुवर्णकङ्कणं दातुम् इच्छति। ततः लोभेन आकृष्टः एकः पथिकः तं ग्रहीतुम् इच्छति। किन्तु सः तस्य हिंसकप्रवृत्तेः विषये चिन्तितो भवति। तदा सः व्याघ्रः मिथ्यां कथां श्रावयित्वा तस्य हृदये स्वकीयं प्रति विश्वासं उत्पन्नं करोति। यदा सः पथिकः स्नातुं सरोवरे प्रविशति, सः महापङ्के निमग्नः भवति। तदा सः तं मारयित्वा खादति।
मंजूषा 5.
बीजानि, श्रुत्वा, चत्वारः, अकथयत् सहयोगम्, धान्यम्, सुगुप्तधनस्य, मृत्योः, वृद्ध स्रषकः क्षेत्रेषु, ग्रामे, परिश्रमी।
उत्तर:
कस्मिंश्चिद् ग्रामे एकः वृद्धकृषकः अवसत्। सः परिश्रमी दूरदर्शी च आसीत्। तस्य चत्वार अलसा पुत्राः आसन्। ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्। अस्मात् कारणात् सः चिन्तितवान् अकथयत् च-“अस्माकं क्षेत्रेषु प्रभूतं गुप्तं धनम् अस्ति, क्षेत्राणि खनित्वा प्राप्नुयात। पितुः मृत्योः पश्चात् ते क्षेत्राणि नैकवारम् अकर्षन् परञ्च धनं न लब्धम्। निराशाः ते क्षेत्रेषु बीजानि अवपन् तेन प्रभूतं धान्यम् अभवत्। धान्यं दृष्ट्वा ते पितुः कथनस्यम ज्ञातवन्तः।