RBSE Class 8 Sanskrit परिशिष्टम्

RBSE Solutions for Class 8 Sanskrit

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम्

  1. अपठित-गद्यांशः
  2. निबन्धः
  3. कथालेखनम्
  4. वाक्यनिर्माणम्
  5. वाक्यक्रम-संयोजनम्
  6. पत्रलेखनम्
  7. वर्णोच्चारणस्थानानि
  8. इमानि अपि अवलोकयत

RBSE Class 8 Sanskrit परिशिष्टम्

1. अपठित-गद्यांशः

(क) हिमालयो नाम पर्वतः भारतदेशस्य उत्तरस्यां दिशि वर्तते। अस्य शिखरभागाः सदैव हिमाच्छादिताः सन्ति। अतएव सः हिमस्य आलयः अर्थात् ‘हिमालयः’ कथ्यते। सः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः। अत एव सः ‘नगाधिराजः’ इत्यपि जायते। पर्वतोऽयं भगवतः शिवस्य ‘क्रीडास्थली, भगवत्याः पार्वत्याः उत्पत्तिस्थलपपि, विविधकिन्नर-गन्धर्व-साधु-सुरादीनां वसतिरपि।

प्रश्न 1.
उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत?
उत्तर:
समुचितं शीर्षकं ‘हिमालयः’ अस्ति।

प्रश्न 2.
हिमालयः भारतस्य कस्यां दिशि वर्तते?
उत्तर:
हिमालयः भारतदेशस्य उत्तरस्यामं दिशि वर्तते।

प्रश्न 3.
हिमालयः कस्य क्रीडास्थली अस्ति?
उत्तर:
हिमालयः भगवतः शिवस्य क्रीडास्थली अस्ति।

प्रश्न 4.
कः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः?
उत्तर:
हिमालयः विश्वस्य समस्तेषु पर्वतेषु उन्नततमः।

प्रश्न 5.
‘नगाधिराजः’ कस्य अपर नाम?
उत्तर:
‘नगाधिराजः’ हिमालयस्य अपर नाम।

RBSE Class 8 Sanskrit परिशिष्टम्

प्रश्न 6.
हिमालयः पदस्य समासविग्रहः कः अस्ति?
उत्तर:
हिमालयः पदस्य समासविग्रहः ‘हिमस्य आलयः’ अस्ति।

(ख) संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे भारतीयाः संस्कृतभाषायां एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।

प्रश्न 1.
उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत?
उत्तर:
उचितं शीर्षकं ‘संस्कृतभाषा’ अस्ति।

प्रश्न 2.
अस्माकं देशस्य प्राचीनतमा भाषा का?
उत्तर:
अस्माकं देशस्य प्राचीनतमा भाषा संस्कृत भाषा अस्ति।

प्रश्न 3.
सर्वे वेदग्रन्थाः कस्यां भाषायां सन्ति?
उत्तर:
सर्वे वेदग्रन्थाः संस्कृतभाषायां सन्ति।

प्रश्न 4.
भारतराष्ट्रस्य एकतायाः आधारः कः?
उत्तर:
संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।

प्रश्न 5.
संस्कृतभाषायाः व्यवहारं कदा कुर्वन्ति स्म?
उत्तर:
प्राचीनकाले सर्वे भारतीयाः संस्कृतभाषायाम् एव व्यवहार कुर्वन्ति स्म।

प्रश्न 6.
‘अद्यापि’ शब्दस्य सन्धिविच्छेदः कः भवति?
उत्तर:
‘अद्यापि’ शब्दस्य सन्धिविच्छेदः अद्य + अपि भवति।

RBSE Class 8 Sanskrit परिशिष्टम्

(ग) विद्या सर्वेषां श्रेष्ठं धनमस्ति। तेन एव मनुष्यो भवति अन्यथा विद्यारहितो पशुः अस्ति। इदं धनं चौराश्चोरयितुं बान्धवाश्च विभाजयितुं न शक्नुवन्ति। व्यये कृते इदं धनं सर्वदा वर्धते। विदेशगमने विद्या परमसहायिका भवति।

प्रश्न 1.
उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत?
उत्तर:
उचितं शीर्षकं विद्या’ अस्ति।

प्रश्न 2.
किंधनम् श्रेष्ठम् अस्ति?
उत्तर:
विद्या सर्वेषां श्रेष्ठं धनमस्ति।

प्रश्न 3.
व्यये कृते किं वर्धते?
उत्तर:
व्यये कृते विद्या धनं सर्वदा वर्धते।

प्रश्न 4.
विद्या कुत्र परमसहायिका भवति?
उत्तर:
विद्या विदेशगमने परमसहायिका भवति।

प्रश्न 5.
कांचौराश्चोरयितुं न शक्नुवन्ति?
उत्तर:
विद्या धनं चौराः चोरयितुं न शक्नुवन्ति।

(घ) भारतीयधर्मस्य मूलाधारः अहिंसा एव अस्ति। गीतायां श्रीकृष्णेन देवी-सम्पत्सु अहिंसायाः गणना प्रथम स्थाने कृता। बौद्धधर्मः, जैनधर्मः च उभौ अहिंसाप्रधानौ एव। महात्मागाँधी अपि अहिंसायाः पालने बलं दत्तवान्। तस्य अयं विश्वासः आसीत् यद् अहिंसकस्य सम्मुखे हिंसकः अपि स्वस्य हिंसावृत्तिं परित्यजति।

प्रश्न 1.
उपर्युक्तगद्यांशस्य चित-शीर्षकं लिखत?
उत्तर:
उचित-शीर्षकम् ‘अहिंसा’ अस्ति।

प्रश्न 2.
कस्य मूलाधारः अहिंसा भवति?
उत्तर:
भारतीयधर्मस्य मूलाधारः अहिंसा भवति।

प्रश्न 3.
कौ अहिंसाप्रधानौ धौ स्तः?
उत्तर:
बौद्ध धर्मः जैन धर्मः च अहिंसाप्रधानौ धर्मों स्तः।

प्रश्न 4.
अहिंसा मार्गः केन महापुरुषेण स्वीकृतः?
उत्तर:
अहिंसा मार्गः महात्मागान्धिना महापुरुषेण स्वीकृतः।

प्रश्न 5.
कुत्र अहिंसायाः गणना प्रथम स्थाने कृता?
उत्तर:
गीतायाम् अहिंसायाः गणना प्रथम स्थाने कृता।

RBSE Class 8 Sanskrit परिशिष्टम्

(ङ) कस्मिंश्चिन्नगरे एकं महत् मन्दिरमासीत्। तत्र एको महात्मा निवसति स्म। स सदा वेदशास्त्राभ्यासम् अकरोत् । लोकानां कल्याणाय शास्त्रकथाश्चाश्रावयत्। तत्र अनेके महिलापुरुषाः कथां श्रोतुं सङ्घीभूय प्रतिदिनं प्रयान्ति स्म। देवप्रतिमां च पूजयन्ति स्म।

प्रश्न 1.
उपर्युक्तगद्यांशस्य उचितं शीर्षकं लिखत?
उत्तर:
उचितं शीर्षकं ‘मन्दिरम्’ अस्ति।

प्रश्न 2.
मन्दिरं कुत्र आसीत्?
उत्तर:
मन्दिरं कस्मिंश्चिन्नगरे आसीत्।

प्रश्न 3.
मन्दिरे कः निवसति स्म?
उत्तर:
मन्दिरे एकः महात्मा निवसति स्म।

प्रश्न 4.
महात्मा सदा किं अकरोत्?
उत्तर:
महात्मा सदा वेदशास्त्राभ्यासम् अकरोत्।।

प्रश्न 5.
महिलापुरुषाः प्रतिदिनं किमर्थं प्रयान्ति स्म?
उत्तर:
महिलापुरुषाः कथां श्रोतुं प्रतिदिनं प्रयान्ति स्म।

प्रश्न 6.
निवसति पदे उपसर्ग-धातु-लकार-पुरुष-वचनं किम् अस्ति?
उत्तर:
निवसति पदे ‘नि’ उपसर्ग, वस् धातुः, लट्लकारः, प्रथमपुरुषः एकवचनम् अस्ति।

RBSE Class 8 Sanskrit परिशिष्टम्

2. निबन्धः

1. भारतदेश: – भारतवर्षः अस्माकं देशः अस्ति। अयं अस्माकं जन्मभूमिः। अस्य भूमिः विविध-रत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। भारतवर्षः अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमाः नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुना प्रभृत्यः नद्यः अस्य शोभां वर्धयन्ति। अयं देशः सर्वासां विद्यानां केन्द्रम् अस्ति। अयम् अनेकप्रदेशेषु विभक्तः। अत्र विविधधर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृतिः धर्मपरम्परा च श्रेष्ठा अस्ति। इयं भूः स्वर्गः अपि वर्तते। ईश्वरस्य अवताराः अस्मिन् देशे सजाताः। वयं स्वदेशोपरि गर्वान्विताः स्मः।

2. संस्कृतभाषायाः महत्वम् – संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे भारतीयाः संस्कृतभाषायाः व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतम् सर्वत्र देशे समानरूपेण आद्रियते। संस्कृतभाषायाः यत् स्वरूपं अद्य प्राप्यते तदेव अद्यतः सहस्रवर्षपूर्वमेव आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिकम् अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं च। आचार्य दण्डिना सम्येगवोक्तम्”भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती”

3. अनुशासनम् – समाजे नियमानां पालनम् अनुशासनं भवति। जीवने अनुशासनस्य विशेष महत्वे भवति। प्रत्येकस्मिन् पदे| अनुशासनम् आवश्यकं भवति। अनुशासनं विना किमपि कार्य सफलं न भवति। छात्रेभ्यः अनुशासन व्यवस्थायै परमावश्यकम् अस्ति। अनुशासितः सर्वेभ्यः प्रियः भवति। सामाजिकव्यवस्थायै अनुशासनम् अत्यन्तम् आवश्यकम् अस्ति। यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति। शिक्षकस्य अनुशासने छात्राः निरन्तरं उन्नतिपथे गच्छन्ति। प्रकृतिः अपि ईश्वरस्य अनुशासने तिष्ठति। यः नरः पूर्णतया अनुशासनं पालयति सः स्वजीवने सदा सफलः भवति। अतः अनुशासनस्य पालनं जीवने बहु आवश्यकं भवति।

4. अस्माकं विद्यालय: – अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति। एषः एकः आदर्शविद्यालयः अस्ति अहम् अत्र पठामि। विद्यालयं गत्वा सर्वे बालकाः शिक्षकान् प्रणमन्ति। ततः प्रार्थनां कृत्वा पाठं पठन्ति। मध्याह्नकाले अस्माकं भोजनावकाशः भवति। तदा सर्वे छात्राः मिलित्वा भोजनं कुर्वन्ति। ततः पुनः सर्वे अध्ययनं कुर्वन्ति। अस्माकं विद्यालये विद्याध्ययनस्य वातावरणं विद्यते। अस्य भवनं सुन्दरम् अस्ति। भवनं परितः एकं रमणीयम् उद्यानम् अस्ति।

अस्माकं विद्यालये विंशति अध्यापकाः पञ्चशतं छात्राः च सन्ति। सर्वे अध्यापकाः स्व स्व विषयेषु विद्वांसः सन्ति। ते छात्रान् मनसा ध्यानेन च पाठयन्ति। अस्माकं प्रधानाचार्यः अतीव योग्यः, अनुशासनप्रियः, विद्वान् च अस्ति। अस्माकं विद्यालयःक्रीडाक्षेत्रेऽपि अग्रगण्यः अस्ति। अत्र एकं रमणीयम् उद्यानम् एका महती प्रयोगशाला, एकः पुस्तकालयः, एकः वाचनालयः, एकः सङ्गणक-कक्षः एकः क्रीडाकक्षः च अस्ति एवम् अस्माकं विद्यालयः सर्वगुणोपेतं विद्यामन्दिरं नूनम्। अस्माकम् एतद् कर्त्तव्यं यत् वयम् अस्य कीर्तिं सर्वासु दिक्षु विस्तारयेम।

RBSE Class 8 Sanskrit परिशिष्टम्

5. परोपकार: – परेषाम् उपकारः परोपकारः कथ्यते। यत्कार्यं नि:स्वार्थभावनाया क्रियते तदैव परोपकारः। संसारे द्विविधा मनुष्याः सन्ति। तेषु केचन् सज्जनाः भवन्ति। तेषां सम्पूर्ण-जीवनं परहितार्थं समर्पितं भवति। वृक्षाः परिहिताय स्वफलानि छायां च यच्छन्ति। नद्यः परेषां पिपासां शान्तयितुं अनवरतं प्रवहन्ति। मेघाः जलं वर्षित्वा संसारं हरितं कुर्वन्ति। प्रकृतिः निरन्तरं परकल्याणरता वर्तते। परम् इयं कदापि प्रत्युपकारं न वाञ्छति। प्रकृतेः सदृशः परोपकारिणः स्वशरीरम् अपि परोपकारायैव मन्यते। अस्माकं देशे दधीचिः, शिविः इत्यादयः अनेके महापुरुषाः स्वशरीर दत्वा अपि परोपकार अकुर्वन्। अतः वयमपि परोपकारिणः भवेम। उक्तं च-
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥

6. शिक्षकः – य:शिक्षयति स: शिक्षकः। शिक्षकः छात्राणाम् अज्ञानान्धकारंदूरीकरोति। अशिक्षित:मानव: पशुतुल्यः भवति। शिक्षकः मनुष्यस्य बाल्यकालादेव तस्य मनः मस्तिष्कं च शिक्षयति। शिक्षितं कृत्वा जनं मनुष्यं करोति। प्राचीनकाले गुरुकुले शिक्षकाः छात्रेभ्यं शिक्षयन्ति स्म। छात्राः तान् गुरुः इति अकथयन्। शिक्षकः बालकान् दुष्प्रवृत्तेः वारयति। सः संयमानुशासनं ज्ञानं च शिक्षयति। सः बालकेषु परोपकारस्य, सेवायाः, त्यागस्य भावनां पूरयति। एतादृशः शिक्षकस्य स्थान समाजे अपि महत्वपूर्णम् अस्ति। अस्माकं देशे प्रतिवर्षे सितम्बरमासस्य पञ्चमे दिनाङ्के “शिक्षकदिवस:” आयोज्यते। अस्माकं राष्ट्रपतिमहोदयाः शिक्षकानां सम्मानं कुर्वन्ति। वयं सर्वदा शिक्षकस्य सम्मानं कुर्याम, तस्य आज्ञां शिरोधार्यं कुर्याम च। शिक्षकः राष्ट्रनिर्माता इत्यपि कथ्यते। शिक्षकः एव सन्नागरिकस्य देशभक्तस्य च निर्माणं करोति।

3. कथालेखनम्

1. बुद्धिमान् शिष्यः – (पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव, सर्वव्यापी, नास्ति, समाधानम्)

उत्तरम् – काशीनगरे एकः पण्डितः अस्ति। पण्डितसमीपम् एकः शिष्यः आगच्छति। शिष्यः वदति-“आचार्य ! अहं विद्याभ्यासार्थम् आगतवान् ! पण्डितः शिष्यबुद्धि परीक्षार्थम् पृच्छति-“वत्स ! देवः कुत्र अस्ति?” शिष्यः वदति-गुरो ! देवः कुत्र नास्ति। कृपया भवान् एवं वदतु। सन्तुष्टः गुरु वदति-देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वम् बुद्धिमान् अतः विद्याभ्यासार्थम् अत्रैव वस।

2. चतुरः काकः – (काकः, उपायं, उपरि, प्रस्तरखण्डान् जलार्थं, पिबामि, बहुदूरं, जलं, घटं, सन्तोषः, स्वल्पम् पिबति, तृषितः)

उत्तरम् – एकः काकः अस्ति। सः बहु तृषितः सः जलार्थं भ्रमति। तदा ग्रीष्मकालः कुत्रापि जलं नास्ति। काकः बहुदूर – गच्छति। तत्र सः एक घटं पश्यति। काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वल्पम् एव जलम् अस्ति। जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। प्रस्तरखण्डान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति ततः गच्छति।

3. दैवमेव परम् – (प्रदर्शनं, सर्पान, पेटिकायां, दिनानि, कदाचित्, बभुक्षितः, आहारः, गमनाय, अक्ष्याणि, रन्ध्रम्, मूषकः, निश्चयम्, प्रवेशम्, मुखे, बहिः, अखादत्, सौभाग्यम, दौर्भाग्यम्।)

उत्तरम् – एकः अहितुण्डिकः आसीत्। सः सर्पान् गृहीत्वा जीवनं यापनं करोति स्म। एकदा सः एकं सर्पम् आनयति। सर्पम् पेटिकायां स्थापयति च। प्रतिदिनं सर्पस्य प्रदर्शनं करोति जीवनं यापयति। कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत्। तस्य पत्नी पुत्रः अपि अगच्छतः। सर्प: पेटिकायामेव बद्धः आसीत्। पञ्च दिनानि अभवन्। अहितुण्डिकः न आगच्छत्। सर्पस्य आहारः एव नास्ति। सः पेटिकात् बहिः गमनाय प्रयत्नम् अकरोत्। सः बभुक्षितः आसीत्। अतः शक्तिः नास्ति। विफलः अभवत्। तदा पेटिका समीपे एकः मूषक आगच्छत्। सः पेटिकाम् अपश्यत्। पेटिकायां अक्ष्याणि सन्ति। इति मूषकः अचिन्तयत् रन्ध्रम् करोमि। इति सः निश्चयम् अकरोत्। अनन्तरं सः रन्धं कृत्वा अन्तः प्रवेशम् अकरोत्। मूषकः सर्पस्य मुखे एव अपतत्। सर्पः मूषकम् अखादत्। तेन रन्ध्रेव एवं बहिः आगच्छत्। अहो। सर्पस्य सौभाग्यम् मूषकस्य दौर्भाग्यम्।

RBSE Class 8 Sanskrit परिशिष्टम्

4. वाक्यनिर्माणम्

चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा वाक्यनिर्माणं कुरुत:

1. विद्यालयः

अस्माकं, छात्र-छात्राश्च, अध्यापकाः, द्वादश कक्षाः, पञ्चशतं छात्राः
RBSE Class 8 Sanskrit परिशिष्टम् 1

उत्तराणि:

  1. अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति।
  2. तस्मिन् विद्यालये छात्र-छात्राश्च परस्परं मिलित्वा पठन्ति।
  3. अस्माकं विद्यालये विंशति अध्यापकाः सन्ति।
  4. विद्यालये द्वादशकक्षाः सन्ति।
  5. अस्मिन् आदर्श विद्यालये दूराद् आगत्य पञ्चशतं छात्राः पठन्ति।
  6. विद्यालये एक: क्रीडाक्षेत्रः अपि विद्यते।

2. उद्यानम्

विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय
RBSE Class 8 Sanskrit परिशिष्टम् 2
उत्तर:

  1. विद्यालयस्य समीपे एकं रमणीयम् उद्यानम् अस्ति।
  2. उद्याने विकसितानि सुन्दराणि पुष्पाणि सन्ति।
  3. अत्र एकः विशालः वटवृक्षः, अपि तिष्ठति।
  4. तस्य शाखासु अनेकाः खगाः कलरवं कुर्वन्ति।
  5. अस्मिन् उद्याने जनाः भ्रमणाय गच्छन्ति।
  6. उद्याने एक: लघु सरोवरः अस्ति।

RBSE Class 8 Sanskrit परिशिष्टम्

3. मेलापकः

जनसम्मर्दः, मिष्ठान्नानि, क्रीडनकाः, दोलनानि, आपणाः
RBSE Class 8 Sanskrit परिशिष्टम् 3
उत्तर:

  1. मेलापके जनसम्मर्दः अस्ति।
  2. मेलापके बहवः आपणाः सन्ति।
  3. मेलापके एकत: दोलनानि सन्ति।
  4. अस्मिन् चित्रे उष्ट्रः मृगः क्रीडनकाः च दृश्यन्ते।
  5. जनाः स्व-स्व गृहे मिष्ठान्नानि आनीय प्रेम्णा खादन्ति।
  6. मेलापके जनाः परस्परं मिलन्ति।

4. पुस्तकालयः

विद्यालये, सार्वजनिकस्थाने, पुस्तकालयः, जनाः, दैनिकसमाचारपत्राणि, विविध विषयानाम् पुस्तकानि
RBSE Class 8 Sanskrit परिशिष्टम् 4
उत्तर:

  1. इदं चित्रं पुस्तकालयस्य अस्ति।
  2. विद्यालये एकः पुस्तकालयः अस्ति।
  3. पुस्तकालयस्य पठनकक्षे बालकाः बालिकाश्च दैनिक समाचार पत्राणि पठन्ति।
  4. एक: छात्रः पुस्तकालये प्रविशति।
  5. अस्मिन् पुस्तकालये विविध विषयानाम् पुस्तकानि सन्ति।
  6. पुस्तकालयः सार्वजनिक स्थाने वर्तते अस्ति।

RBSE Class 8 Sanskrit परिशिष्टम्

5. वाक्यक्रम-संयोजनम्

अधोलिखितवाक्यानां क्रमसंयोजनं कुरुत

(i) 1. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्।
2. रामः वनम् अगच्छत्।
3. रामः दशरथस्य पुत्रः आसीत्।
4. रावणः सीताम् अपहरत्।
5. रामः रावणं ससैन्यम् हतवान्।
उत्तर:
1. रामः दशरथस्य पुत्रः आसीत्।
2. रामः वनम् अगच्छत्।
3. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्।
4. रावणः सीताम् अपहरत्।
5. रामः रावणं ससैन्यम् हतवान्।

(ii) 1. वासुदेवः कञ्चिद् देवालयम् अपश्यत्।
2. ततः वासुदेवः रामनाथपुरं प्राप्य रामदेवस्य गृहम् आगच्छत्।
3. वासुदेवः तस्य प्रियशिष्यः आसीत्।
4. अत्रान्तरे सः रामनाथपुरं प्रस्तिथवान्।
5. गङ्गातीरे मार्कण्डेयः नाम कश्चन मुनिः वसति स्म।
उत्तर:
1. गङ्गातीरे मार्कण्डेयः नाम कश्चन मुनिः वसति स्म।
2. वासुदेवः तस्य प्रिय शिष्यः आसीत्।
3. वासुदेवः कञ्चित् देवालयम् अपश्यत्।
4. अत्रान्तरे सः रामनाथपुरं प्रति प्रस्तिथवान्।
5. ततः वासुदेवः रामनाथपुरं प्राप्य रामदेवस्यगृहम् अगच्छत्।

RBSE Class 8 Sanskrit परिशिष्टम्

(iii) 1. कुण्डलस्य पुत्रः सुकर्मा महान् पितृभक्तः।
2. स: वेदशास्त्रज्ञः आसीत्।
3. कुण्डलः कश्चन सदाचारी वृद्धः ब्राह्मणः आसीत्।
4. तस्य एकः पुत्रः सुकर्मा आसीत्।
5. सुकर्मा मातृदेवो भव, पितृदेवो भव इति वचनम् अवधानेन पालयति स्म।
उत्तर:
1. कुण्डलः कश्चन सदाचारी वृद्धः ब्राह्मणः आसीत्।
2. सः वेदशास्त्रज्ञः आसीत्।
3. तस्य एकः पुत्रः सुकर्मा आसीत्।
4. कुण्डलस्य पुत्रः सुकर्मा महान् पितृभक्तः।
5. सुकर्मा मातृदेवो भव, पितृदेवो भवं इति वचनम् अवधानेन पालयति स्म।

(iv) 1. अथ कदाचित दीर्घकर्ण नामा मार्जारः पक्षिशावकान् भक्षितुं तत्रागतः।
2. मार्जारोऽवदत्-श्रूयतां तावदस्मदवचनम्।
3. अस्ति भगीरथी तीरे गृधकूटनाम्नि पर्वते महान् पर्कटीवृक्षः।
4. तस्य कोटरे जरद्ग्वनामा गृध्रः प्रतिवसति।
5. तमायान्तं दृष्ट्वां पक्षिशावकैर्भयार्तेः कोलाहलं कृतम्।
उत्तर:
1. अस्ति भागीरथी तीरे गृधकूट नाम्नि पर्वते महान् पर्कटीवृक्षः।
2. तस्य कोटरे जरदग्वनामा ग्रध्रः प्रतिवसति।
3. अथ कदाचित दीर्घकर्ण नामा मार्जारः पक्षिशावकान् भक्षितुं तत्रागतः।
4. तमायान्तं दृष्ट्वां पक्षिशावकर्थयातॊः कोलाहलं कृतम्।
5. मार्जारोऽवदत्-श्रूयतां तावदस्मद्वचनम्।

(v) 1. एकदा महाराजः निद्रां कुर्वन् आसीत्।
2. कश्चित् महाराजस्य राजभवने एकः वानरः सेवकः आसीत्।
3. वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहारं कृतवान्।
4. मूर्खेण वानरेण महाराजः मारितः।
5. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।
उत्तर:
1. कश्चित् महाराजस्य राजभवने एकः वानरः सेवकः आसीत्।
2. एकदा महाराजः निद्रां कुर्वन् आसीत्।
3. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।
4. वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहारं कृतवान्।
5. मूर्खेण वानरेण महाराजः मारितः।

RBSE Class 8 Sanskrit परिशिष्टम्

6. पत्रलेखनम्

अवकाशाय प्रार्थनापत्रम्

सेवायाम्,
प्रधानाचार्यमहोदयाः
राजकीय आदर्श उच्चमाध्यमिकविद्यालयः
सरेडी बड़ी

विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं सहसा ज्वरपीड़ितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाशं स्वीकृत्य माम् अनुग्रह्णन्तु भवन्तः। दिनांक: – 21.11.20…..

भवदीयः शिष्यः
यतीनः
अष्टमी कक्षायां ‘अ वर्ग:’

7. वर्णोच्चारणस्थानानि

संस्कृत वर्णमाला-
स्वर-जिन वर्णों का उच्चारण स्वतन्त्र रूप से होता है वे स्वर कहलाते हैं। स्वर दो प्रकार के हैं-
1. ह्रस्व स्वर
2. दीर्घ स्वर

1. ह्रस्व स्वर – जिस स्वर के उच्चारण में एक मात्रा का समय लगता है, वह ह्रस्व स्वर कहलाता है। जैसे-अ, इ, उ, ऋ, ल – ये ह्रस्व स्वर हैं।
2. दीर्घ स्वर – जिस स्वर के उच्चारण में दो मात्रा का समय लगता है, वह दीर्घ स्वर कहलाता है। जैसे – आ ई ऊ ऋ ए ओ ऐ औ आठ दीर्घ स्वर हैं। सभी मिलकर तेरह स्वर हैं।

RBSE Class 8 Sanskrit परिशिष्टम्

व्यञ्जन – जिन वर्णों का उच्चारण स्वर के सहायता से होता है वे व्यञ्जन कहलाते हैं। पाँच वर्गों को पच्चीस व्यञ्जन वर्गीय व्यञ्जन कहे जाते हैं।
RBSE Class 8 Sanskrit परिशिष्टम् 5
चत्वारि अन्तस्थः वर्णानिः य र ल व
चत्वारि ऊष्म वर्णानिः श ष स ह
सर्वे मिलित्वा त्रयस्त्रिंशत् व्यञ्जनानि सन्ति।

वर्णानाम् उच्चारणस्थानानि

RBSE Class 8 Sanskrit परिशिष्टम् 6

RBSE Class 8 Sanskrit परिशिष्टम्

Leave a Comment