RBSE Class 8 Sanskrit अपठित गद्यांशः

RBSE Solutions for Class 8 Sanskrit

Rajasthan Board RBSE Class 8 Sanskrit अपठित गद्यांशः

1. प्रत्येकं धर्मे कतिपयाः सम्प्रदायाः भवन्ति। हिन्दूनां शैव शाक्तवैष्णवादयः सम्प्रदायाः प्रसिद्धाः। मुस्लिमाः शियासुन्नी-बहावी-सम्प्रदायेषु विभक्ताः। ख्रीष्टानुयायिनः कैथोलिकप्रेटेस्टैण्ट इति सम्प्रदायद्वये वर्गीकृताः। सर्वेषां सम्प्रदायानां ‘सत्याराधनम्’ इति एकमेव लक्ष्यम् अस्ति। किन्तु केचित् दुष्टाः काल्पनिकं मतभेदं विभज्य परस्परं द्वेषम् उद्भावयन्ति। एकः सम्प्रदायः अपरं स्वशत्रु मन्यते। जनाः वृथैव परस्परं युध्यन्ते। युद्धम् एव तेषां लक्ष्यं सजायते। ईशाराधनं तत्र गौणीभवति। भीषणं रक्तपातं धनजनहानिश्च भवतः। अस्माकं राष्ट्रे तु विविध-सम्प्रदायानां समवायः विद्यते। अत्रं साम्प्रदायिक सौमनस्यं तु अत्यावश्यकम्। वयं भ्रातरः भगिन्यश्च परस्परं युद्धरत् चेत् तर्हि राष्ट्रिया एकता कुतः स्यात्? एकतां विना सुख-समृद्धि कल्पना निराधारा एव। अतः अस्माभिः साम्प्रदायिकं सौमनस्यं स्थिरीकर्तव्यम्।

प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
साम्प्रदायिकं सौमनस्यम्।

प्रश्न 2.
हिन्दूनां कानि-कानि सम्प्रदायाः प्रसिद्धाः?
उत्तर:
शैवशाक्तवैष्णवादयः सम्प्रदायाः प्रसिद्धाः।

प्रश्न 3.
मुस्लिमानां कानि-कानि सम्प्रदायाः सन्ति?
उत्तर:
शिया-सुन्नी-बहावी आदयः सम्प्रदायाः।

RBSE Class 8 Sanskrit अपठित गद्यांशः

प्रश्न 4.
ख्रीष्ट्रानुयायिनः कति सम्प्रदायेषु वर्गीकृताः?
उत्तर:
कैथोलिक प्रोटेस्टैण्ट इति सम्प्रदायद्वये वर्गीकृताः।

प्रश्न 5.
काल्पनिकं मतभेदं विभाव्य परस्परं द्वेषं के उद्भावयन्ति?
उत्तर:
केचित् दुष्टाः।

प्रश्न 6.
केन विना सुख समृद्धि कल्पना निराधारा एव?
उत्तर:
एकतां विना।

RBSE Class 8 Sanskrit अपठित गद्यांशः

2. अस्माकं देशस्य नाम भारतवर्षम् इति अस्ति। पुरा अस्माकं देशे भरतनामा दुष्यन्त पुत्रः महा-प्रतापी राजा बभूव। तस्य एव सम्बन्धाद् अस्य देशस्य नाम अपि भारतम् इति प्रसिद्धम् अस्मदीयः देशः प्रकृति-सम्पन्नः अस्ति। अत्र षड् ऋतवः यथासमयम् आगत्य भारतं विविधभिः सुषमाभिः भूषयन्ति। अस्य चरणौ रत्नाकरः दिवानक्तं प्रक्षालयति। नगाधिराजः हिमालयः अस्य मुकुट-माधुरीम् आधत्ते। गङ्गा-यमुनाद्यनेकाः नद्यः विविधेभ्यः स्थानेभ्यः निर्गत्य अस्य पावनत्वम् आपादयन्ति। अस्य भूमिः उर्वरा अस्ति। सर्वविधं अन्नम् अत्र उत्पद्यते। . अस्माकं देशः विश्वगुरुः अस्ति। अयं सभ्यतायाः प्रकाशं अन्येभ्यः देशेभ्यः दत्तवान् भारतवर्षम् अनेकेषां भाषा-वेशधर्म-संस्कृति-परम्पराणां देशः अस्ति। अयं वस्तुतः एकः महान् देशः अस्ति। अयम् अस्माकं प्राणेभ्यः अपि प्रियतरः अस्ति।

प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
भारतवर्षम्।

प्रश्न 2.
दुष्यन्तस्य पुत्रस्य नाम किमासीत्?
उत्तर:
दुष्यन्तस्य पुत्रस्य नाम ‘भरतः’ आसीत्।

प्रश्न 3.
भारत देशे कति ऋतवः भवन्ति?
उत्तर:
भारत देशे षड् ऋतवः भवन्ति।

RBSE Class 8 Sanskrit अपठित गद्यांशः

प्रश्न 4.
रत्नाकरः कस्य चरणौ प्रक्षालयति?
उत्तर:
रत्नाकरः भारतदेशस्य चरणौ प्रक्षालयति।

प्रश्न 5.
भारतस्य मुकुटः किमस्ति?
उत्तर:
भारतस्य मुकुट: नगाधिराज हिमालयः अस्ति।

प्रश्न 6.
कः देशः विश्वगुरुः अस्ति?
उत्तर:
भारत देशः विश्वगुरुः अस्ति।

RBSE Class 8 Sanskrit अपठित गद्यांशः

3. शासनं मुख्यतः द्विविधं भवति – राजतंत्र प्रजातन्त्रं च। प्रजातन्त्रम् एव लोकतन्त्रं जनतन्त्रं वा कथ्यते। राजतन्त्रे एकः पुरुषः बुद्धि-बलेन, शरीरबलेन परम्परया वा राजा भवति। सः पूर्णतः स्वेच्छाचारी भवति। तस्मै यद् यद् रोचते तत् तत् करोति प्रजाभिः कारयति च। लोकतन्त्रे प्रजानां प्रतिनिधयः लोकहित-दृष्ट्वा संविधान निर्माणं कृत्वा तदनुसारं शासनं परिचालयन्ति। प्रतिनिधीनां निर्वाचन निश्चितकालानन्तरं पुनः भवति। प्रजातन्त्रं बहुजनहिताय बहुजनसुखाय च भवति। अस्यां शासन-प्रणाल्यां शासने कस्यापि एकस्य एव पुरुषस्य अधिकारः न भवति। प्रजातन्त्रप्रणाल्यां प्रजाभिः निर्वाचिताः जनाः एव अधिकारिणः भवन्ति। प्रजा-जनैः निर्वाचितं मन्त्रि-मण्डलं सर्वदा जनता-हितम् एव चिन्तयति।

प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
प्रजातन्त्रम्।

प्रश्न 2.
शासनं कति विधं भवति?
उत्तर:
शासनं मुख्यतः द्विविधं भवति।

प्रश्न 3.
लोकतन्त्रं किम् कथ्यते?
उत्तर:
प्रजातन्त्रम् एव लोकतन्त्रम् कथ्यते।

RBSE Class 8 Sanskrit अपठित गद्यांशः

प्रश्न 4.
राजतन्त्रे एकः पुरुषः राजा कथं भवति?
उत्तर:
राजतन्त्रे एकः पुरुषः बुद्धि-बलेन, शरीरबलेन परम्परया वा राजा भवति।

प्रश्न 5.
प्रजातन्त्रं कस्य हिताय भवति?
उत्तर:
प्रजातन्त्रं बहुजनहिताय भवति।

प्रश्न 6.
कस्यां शासन-प्रणाल्यां शासने कस्यापि एकस्य पुरुषस्य एव अधिकारः न भवति?
उत्तर:
प्रजातन्त्रे शासन-प्रणाल्यां शासने कस्यापि एकस्य पुरुषस्य एव अधिकारः न भवति।

RBSE Class 8 Sanskrit अपठित गद्यांशः

4. भारते षड् ऋतवः भवन्ति। तेषु वसन्तः ऋतुराजः मन्यते। अस्मिन् ऋतौ न अधिकं शैत्यं भवति न च अधिका उष्णता। यदा वसन्तः आगच्छति तदा आबाल-वृद्धाः सर्वे स्त्री-पुरुषाः आनन्दम् अनुभवन्ति। वसन्ते प्राकृतिक सौन्दर्यम् अनुपम भवति। क्षेत्रेषु, सर्षप-पादपेषु पीतानि पुष्पाणि नेत्रेभ्यः कामपि अनिर्वचनीयां तृप्तिम् अर्पयन्ति। रसाल-तरुषु मञ्जर्यः विकसन्ति। कोकिलाः कर्ण-सुभगं कूजन्ति। वृक्षाः लताः च जीर्णानि पत्राणि परित्यज्य नूतनानि किसलयानि धारयन्ति । अरुण-पल्लवानां मध्ये विविध-वर्णानि पुष्पाणि विकसन्ति। वसन्तस्य सर्वविध-वैशिष्ट्यं विलोक्य एव भगवता श्रीकृष्णेन गीतायां स्वीकृतं यद् अहम् ‘ऋतूनां कुसुमाकरः’ अस्मि।

प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
ऋतुराजः वसन्तः।

प्रश्न 2.
भारते कति ऋतवः भवन्ति?
उत्तर:
भारते षड् ऋतवः भवन्ति।

प्रश्न 3.
कस्मिन् ऋतौ न अधिकं शैत्यं भवति न च अधिका उष्णता?
उत्तर:
वसन्ते न अधिकं शैत्यं भवति न च अधिका उष्णता।

RBSE Class 8 Sanskrit अपठित गद्यांशः

प्रश्न 4.
केषु तरुषु मञ्जर्यः विकसन्ति?
उत्तर:
रसालेषु तरुषु मञ्जर्यः विकसन्ति।

प्रश्न 5.
नूतनानि किसलयानि कानि धारयन्ति?
उत्तर:
वृक्षाः लताः च नूतनानि किसलयानि धारयन्ति।

प्रश्न 6.
अहम् “ऋतूनां कुसुमाकरः’ अस्मि केन स्वीकृतं?
उत्तर:
भगवता श्रीकृष्णेन स्वीकृतं।।

RBSE Class 8 Sanskrit अपठित गद्यांशः

5. भारतीया संस्कृतिः वर्ण व्यवस्थां स्वीकरोति। एषा व्यवस्था पुरुषार्थ चतुष्टयस्य धर्मार्थकाममोक्षाणां प्राप्तये वैज्ञानिकी सरणिमनुसरति। मोक्षप्राप्तिः परमः पुरुषार्थः। मोक्षमधिगम्य पुनर्जन्म न लभ्यते। एषा वर्ण-लिंग-धर्माधृतान् प्राणि समूहस्य बाह्यभेदान् न मन्यते। एषा समरसतां साम्प्रदायिक सद्भावनाञ्च अंगीकरोति। भारतीया संस्कृतिः मन्यते यत् अस्माकं महापुरुषाः तीर्थाः नार्यश्च सदा वंदनीयाः। भारतमातुः अलौकिक महिमा विद्यते। शास्त्रेषु भारतभुवः माहात्म्यं स्पष्टं वर्णितम् भारतभूमौ दुष्टानां विनाशाय युगे युगे स्वयं भगवानाविर्बभूव।)

प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
भारतीया संस्कृतिः।

प्रश्न 2.
वर्ण व्यवस्थां का स्वीकरोति?
उत्तर:
भारतीया संस्कृतिः।

प्रश्न 3.
पुरुषार्थचतुष्टयः किमस्ति?
उत्तर:
धर्मार्थकाममोक्षं च।

RBSE Class 8 Sanskrit अपठित गद्यांशः

प्रश्न 4.
परमपुरुषार्थ किम्?
उत्तर:
मोक्षप्राप्तिः।

प्रश्न 5.
पुनर्जन्म कदा न लभ्यते?
उत्तर:
मोक्षमधिगम्य।

प्रश्न 6.
भारतीय संस्कृतिः किं मन्यते?
उत्तर:
यत् अस्माकं महापुरुषाः तीर्थाः नार्यश्च सदा वंदनीयाः।

RBSE Class 8 Sanskrit अपठित गद्यांशः

Leave a Comment