RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

RBSE Solutions for Class 7 Sanskrit

Rajasthan Board RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

प्रश्न 1.
गृहे आवश्यककार्यार्थं द्विनद्वयस्य अवकाशाय स्वकीयस्य प्रधानाध्यापकस्य कृते प्रार्थना-पत्रम् संस्कृतभाषायां लेखनीयम्।
(घर पर आवश्यक कार्य के लिए दो दिन के अवकाश हेतु अपने प्रधानाध्यापक के लिए संस्कृत भाषा में एक प्रार्थना-पत्र लिखिए।)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय-माध्यमिक विद्यालयः,
उदयपुरम्।
महोदयः,

सविनयं निवेदनमस्ति यत् मम गृहे अत्यावश्यकं कार्य वर्तते, अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांक 25-9-2017 ई. त: 26-9-2017 ई. पर्यन्तं दिनद्वयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः।

दिनांक : 24-9-2017 ई.

भवतां आज्ञापालकः
अभिषेकः
कक्षा-सप्तम् ‘ब’

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

प्रश्न 2.
स्वकीयस्य प्रधानाध्यापकस्य कृते द्वि दिवसस्य अवकाशार्थम् प्रार्थनापत्रम् संस्कृतभाषायां लेखनीयम्।
(अपने प्रधानाध्यापक को दो दिन के अवकाश के लिए प्रार्थना-पत्र संस्कृत भाषा में लिखिए।)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजश्री विद्यापीठम्,
अलवरम्।
विषय-द्वि दिवसस्य अवकाशार्थम्।
महोदयः,

सविनयं निवेदनम् अस्ति यत् मम भ्रातुः विवाहः 15-12-2017 दिनांके भविष्यति। अहमपि वरयात्रायां गमिष्यामि। अतः दिनांक: 15-12-2017 तः 16-122017 पर्यन्तं द्वि दिवसस्य अवकाशं दत्वा कृपां कुरु। सधन्यवादः।

दिनांक : 12-12-2017 ई.

भवतां आज्ञापालकः शिष्यः
रमानाथः
कक्षा-सप्तम् ‘ब’

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

प्रश्न 3.
शुल्कमुक्त्यर्थं स्वीकीयस्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत।
(शुल्क-मुक्ति के लिए अपने प्रधानाध्यापकजी को संस्कृत-भाषा में एक प्रार्थनापत्र लिखिए।)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय-उच्च-प्राथमिक विद्यालयः,
दौसा (राज.)।
विषय-शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्।
महोदय!

सविनयं निवेदनमस्ति यत् मम परिवारस्य आर्थिकदशा: दयनीया अस्ति। मम पिता निर्धनः श्रमिकः अस्ति। मम पठने रुचिः वर्तते, किन्तु विद्यालयस्य शिक्षणशुल्कं दातुं न शक्नोमि। अतः शिक्षण-शुल्कात् मुक्तिं प्रदाय माम् अनुगृह्णन्तु भवन्तः।

दिनाङ्कः 18-7-2017 ई.

भवताम् आज्ञापालक: शिष्यः
अभिनवः
कक्षा-सप्तम् ‘अ’

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

प्रश्न 4.
भवतः पितुः स्थानान्तरणं जातम्।अतः विद्यालयत्यागस्य स्थानान्तरण-प्रमाणपत्राय (टी.सी.) स्वस्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत।
(आपके पिताजी का स्थानान्तरण हो गया है। इसलिए विद्यालय त्यागने का स्थानान्तरण प्रमाण-पत्र (टी.सी.) हेतु अपने प्रधानाध्यापकजी को संस्कृत भाषा में प्रार्थना-पत्र लिखिए।)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
राजकीय-माध्यमिक-विद्यालयः
कोटकासिम (अलवरम्)।
विषय-स्थानान्तरणं प्रमाण-पत्रं प्राप्त्यर्थम्।
महोदय!

सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं जयपुरनगरसमीपं जातम्। अहमपि तेन सह तत्रैव गत्वा पठिष्यामि। अतः मां विद्यालयत्यागस्य स्थानान्तरणं प्रमाणपत्रं दत्त्वा कृतार्थयन्तु भवन्तः।

दिनाङ्कः 20-8-2017 ई.

भवताम् आज्ञापालकः शिष्यः
गौरव शर्मा
कक्षा-सप्तम् ‘अ’

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

प्रश्न 5.
त्वम् रुग्णो असि, स्वकीय प्रधानाध्यापकस्य कृते दिवसत्रयस्यावकाशार्थम् प्रार्थनापत्रम् संस्कृत-भाषायां लेखनीयम्।
(तुम बीमार हो, अपने प्रधानाध्यापक को तीन दिन के अवकाश हेतु प्रार्थना-पत्र संस्कृत भाषा में लिखो।)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक-विद्यालयः, सीकरम्।
विषय-त्रि दिवसस्य अवकाशार्थम्।
महोदयः,

सविनयं निवेदनम् अस्ति यत् अहं ज्वरपीड़या रुग्णोऽस्मि। अतः विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांकः 16-10-2017 तः 18-10-2017 पर्यन्तं दिवसत्रयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः। सधन्यवादः।

दिनांक: 16-10-2017 ई.

भवताम् आज्ञापालकः शिष्यः
गोपालः
कक्षा-सप्तम् ‘अ’

RBSE Class 7 Sanskrit रचना प्रार्थना पत्रम्

Leave a Comment