RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 10 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 10 all subjects will help students to have a deeper understanding of the concepts. Read sanskrit class 10 chapter 1 translation in hindi written in simple language, covering all the points of the chapter.

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

अभ्यासार्थ प्रश्नोत्तर :

प्रश्न 1.
निम्नाङ्कितं चित्रं दृष्ट्वा प्रदत्तसंकेतपदानां साहाय्येन स्वविद्यालयस्य विषये षड्वाक्यानि लिखतु। 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 1
उत्तरम् : 
वाक्यानि

  1. अयं विद्यालयः अतीवसुन्दरः अस्ति। 
  2. अयं विद्यालयः ग्रामस्य मध्ये स्थितः अस्ति। 
  3. अस्मिन् विद्यालये विंशतिः कक्षाः सन्ति। 
  4. मम विद्यालये षोडश अध्यापकाः सन्ति। 
  5. विद्यालयस्य समीपे एकम् उद्यानम् क्रीडाङ्गणं च स्तः। 
  6. मध्यान्तरे छात्राः क्रीडाङ्गणे क्रीडन्ति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 2. 
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'अस्माकं जीवने वृक्षाणाम् उपयोगिता' इति विषये षड्वाक्यानि लिखतु। 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 2
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् युगे सर्वत्र पर्यावरणं प्रदूषितं दृश्यते। 
  2. पर्यावरणस्य शुद्धतायै वृक्षाणाम् उपयोगिता वर्तते। 
  3. वृक्षेभ्यः वयं प्राणवायुं फलानि छाया काष्ठानि च प्राप्नुमः। 
  4. खगाः वृक्षेषु आश्रयं प्राप्नुवन्ति। 
  5. अस्माकं जीवने वृक्षाणां बहुमहत्त्वं वर्तते। 
  6. वृक्षाः एव मानवजीवनस्य प्राणभूताः सन्ति। 

प्रश्न 3. 
निम्नाङ्कितं चित्रं दृष्ट्वा प्रदत्तसंकेतपदैः षड्वाक्यानि लिखत। 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 3
उत्तरम् : 
वाक्यानि 

  1. इदं राजमार्गस्य चित्रम् अस्ति।
  2. राजमार्गे विविधानि वाहनानि चलन्ति। 
  3. जनाः शीघ्रं गृहं गन्तुं द्रुतगत्या वाहनानि चालयन्ति। 
  4. असावधानतया वाहनचालनेन दुर्घटनायाः सम्भावनाः भवन्ति। 
  5. राजमार्गे भारयुक्तवस्तूनि नीत्वा वाहनं न चालयेत्। 
  6. राजमार्गे सड़कसुरक्षार्थं सावधानेन वाहनानि चालयामः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 4.
चित्रं दृष्ट्वा निम्नलिखितशब्दानां सहायतया सङ्गणकस्य विषये षड्वाक्यानि लिखत। 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 4
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् युगे सर्वत्र सङ्गणकस्य प्रयोगः दृश्यते। 
  2. कार्यालयेषु विविधानि कार्याणि सङ्गणकमाध्यमेनैव भवन्ति। 
  3. अद्य सम्पूर्णाः सूचनाः सङ्गणकमाध्यमेन शीघ्रमेव प्रेषयितुं शक्नुमः। 
  4. अनेन कर्गदानां प्रयोगः अतीव न्यूनः सञ्जातः। 
  5. सङ्गणकेन अल्पपरिश्रमेण कार्याणि शीघ्रं भवन्ति। 
  6. वस्तुतः अद्य सर्वेषां कृते सङ्गणकज्ञानस्य महती आवश्यकता वर्तते। 

प्रश्न 5. 
अधः प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृतेन षड् वाक्यानि निर्माय लिखत -
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 5
उत्तरम् : 
वाक्यानि-

  1. अस्मिन् चित्रे पर्यावरण-प्रदूषणस्य प्रभावं दृश्यते। 
  2. जनाः स्वार्थाय वृक्षकर्तनं कुर्वन्ति।
  3. अवकरप्रक्षेपणेन जलम् अपेयं भवति। 
  4. पर्यावरणस्य प्रदूषणेन विविधरोगाः भवन्ति।
  5. अस्माभिः स्वास्थ्यलाभाय वृक्षारोपणं करणीयम्। 
  6. मानवकल्याणाय पर्यावरणरक्षणम् आवश्यकम्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 6. 
अधः प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृतेन षड् वाक्यानि निर्माय लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 9
उत्तरम् :  
वाक्यानि 

  1. अस्मिन् चित्रे संस्कृतशोभायात्रा दृश्यते। 
  2. शोभायात्रायां छात्राः पंक्तिद्वये चलन्ति। 
  3. तेषां हस्तेषु फलकानि सन्ति। 
  4. छात्राः उद्घोषं कुर्वन्ति यत् ‘वदतु संस्कृतम्', 'जयतु संस्कृतम्' इति। 
  5. संस्कृतदिनस्य उपलक्ष्ये संस्कृतशोभायात्रायाः आयोजनं भवति। 
  6. सर्वे छात्राः आनन्देन संस्कृतभाषायाः प्रचारं कुर्वन्ति। 

प्रश्न 7. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते षट् वाक्यानि निर्माय लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 10
उत्तरम् : 
वाक्यानि- 

  1. अस्मिन् चित्रे एकं बसयानं बालाश्च दृश्यन्ते। 
  2. वर्षायां बालाः छत्रं धारयन्ति। 
  3. बालाः विद्यालये गमनाय स्थिताः। 
  4. बालान् नेतुं विद्यालयस्य बसयानम् आगच्छति। 
  5. बालाः क्रमशः बसयाने आरोहन्ति। 
  6. ततः बसयानं विद्यालयं प्रति गच्छति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 8. 
अधः चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया संस्कृते षड् वाक्यानि रचयतु 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 11
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे छात्राः वृक्षारोपणं कुर्वन्ति।
  2. वृक्षेभ्यः बालकाः जलं ददति। 
  3. वयं वृक्षेभ्यः प्राणवायुं फलानि च प्राप्नुमः। 
  4. यंदां वयं वृक्षारोपणं करिष्यामः तदा तेभ्यः सर्वमपि प्राप्स्यामः।
  5. सत्पुरुषाः कदापि वृक्षाणां कर्तनं नैव कुर्वन्ति। 
  6. जनाः वृक्षेभ्यः फलानि प्राप्नुवन्ति, खादन्ति च। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 9. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया षड् वाक्यानि रचयत।
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 12
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे उद्याने बालाः कन्दुकेन क्रीडन्ति। 
  2. अत्र सूर्यः दृश्यते। 
  3. अस्मिन् चित्रे खगाः आकाशे उड्यन्ते। 
  4. अत्र सरोवरे कमलानि विकसन्ति।
  5. वृक्षे पिकाः कूजन्ति।
  6. अत्र विविधानि पुष्पाणि विकसन्ति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 10. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया "धेनु-महिमा" इति विषयोपरि संस्कृते षड्वाक्यानि लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 13
उत्तरम् : 
वाक्यानि 

  1. अस्माकं कृषिप्रधाने देशे धेनूनाम् बहुमहत्त्वं वर्तते। 
  2. दुग्धदातृषु पशुषु धेनूनां प्रमुखं स्थानं वर्तते। 
  3. वसिष्ठ ऋषिः कामधेनोः पालनं करोति स्म। 
  4. धेनोः द्वौ श्रृंगौ सर्वैः पूजनीयौ स्तः। 
  5. धेनूनाम् अनेकवर्णाः भवन्ति। 
  6. धेनवः स्वभावेन अतीव सरलाः भवन्ति। 

प्रश्न 11. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'बुद्धेः चातुर्यम्' इति विषयोपरि संस्कृते षड्वाक्यानि लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 14
उत्तरम् : 
वाक्यानि 

  1. एकदा एकः काकः इतस्ततः अभ्रमत्। 
  2. तदा सूर्यताप: अधिकः आसीत्। तेन अतीव तृषितः अभवत्। 
  3. सः जलम् अन्वेष्टुम् उद्यानं प्रति गच्छति। तत्र एकं घटं पश्यति। 
  4. तस्मिन् घटे अल्पम् जलम् आसीत्। 
  5. सः घटे एकैकं प्रस्तरखण्डं निक्षिपति।
  6. तेन जलम् उपरि आगच्छति, जलं पीत्वा च काकः स्वस्य आवासं प्रति अगच्छत्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 12. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'पर्यावरण-प्रदूषणम्' इति विषयोपरि संस्कृते षड्वाक्यानि लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 15
उत्तरम् : 
वाक्यानि 

  1. अद्य अस्माकं पर्यावरणम् अतीव दूषितं वर्तते।
  2. महानगरमध्ये बहूनि वाहनानि सततं धूमं मुञ्चन्ति। 
  3. वाहनानां कोलाहलेनापि ध्वनि-प्रदूषणं भवति। 
  4. तेषां धूमेन वायुमण्डलं भृशं प्रदूषितं भवति। 
  5. पर्यावरण-प्रदूषणेन जीवनं कठिनं भवति। 
  6. पर्यावरण-प्रदूषणेन प्राकृतिकम् असन्तुलनं भवति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 13. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया स्वकक्षाविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 17
उत्तरम् : 
वाक्यानि 

  1. इदम् अस्माकं कक्षायाः चित्रं दृश्यते। 
  2. अत्र एक: शिक्षकः पाठयति। 
  3. छात्राः पुस्तकं पठन्ति।
  4. कक्षायाः वातावरणं रम्यं दृश्यते। 
  5. कक्षायां छात्राः भित्तौ श्यामपट्ट प्रति पश्यन्ति। 
  6. कक्षायां बालकाः बालिकाः च आसन्दिकासु तिष्ठन्ति। 

प्रश्न 14.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया वर्षाकालविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 17
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे वर्षा, मम विद्यालयः च दृश्यते।
  2. वर्षाकाले मेघः उच्चैः गर्जति। 
  3. वर्षाकाले नीडे पक्षिशावकः तिष्ठति।
  4. एकः बालकः एका बालिका च छत्रं धृत्वा विद्यालयं प्रति गच्छतः। 
  5. वर्षाकाले सर्वं जलमयं दृश्यते। 
  6. वर्षाकाले आकाशे मेघाः गर्जन्ति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 15. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया जन्तुशालाविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 18
उत्तरम् : 
वाक्यानि 

  1. इदं जन्तुशालायाः चित्रम् अस्ति। 
  2. जन्तुशालायां अनेके पशवः सन्ति। 
  3. पञ्जरे एकः सिंहः अस्ति। 
  4. जले द्वौ बको क्रीडतः। 
  5. शिशवः भगिन्या सह तत्र गच्छन्ति।
  6. जन्तुशालायां विविधाः जनाः प्रतिदिनं आगच्छन्ति। 

प्रश्न 16. 
अधः चित्रं दृष्ट्वा मञ्जू पायां प्रदत्तशब्दानां सहायतया उपवनविषये षड् वाक्यानि संस्कृतभाषायाम् लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 19
उत्तरम् : 
वाक्यानि

  1. अस्मिन् चित्रे रम्यम् उपवनम् अस्ति।
  2. उपवने बालकः, बालिका, नारी च भ्रमन्ति। 
  3. आकाशे सूर्यः खगाश्च सन्ति। 
  4. अत्र पुष्पाणि अपि सन्ति। 
  5. उपवने राजमार्गः अपि दृश्यते। 
  6. उपवने बालिका: दोलाघिरोहणं कुर्वन्ति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 17. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया गुरुकुलविषये षड् वाक्यानि संस्कृतभाषायाम् लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 20
उत्तरम् : 
वाक्यानि 

  1. इदं चित्रं गुरुकुलस्य वर्तते। 
  2. अत्र गुरुः पाठयति शिष्याः च पठन्ति। 
  3. वृक्षे खगाः उत्पतन्ति। 
  4. अत्र गुरोः कुटीरमपि दृश्यते। 
  5. गुरुः वृक्षस्य अधः उपविशति। 
  6. गुरुकुलस्य समीपं पर्वतः वर्तते। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 18. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'जलकूपस्य दृश्यम्' इति विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 21
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे तिस्रः महिलाः सन्ति। 
  2. एका महिला कूपात् रज्ज्वा जलं निष्कासयति। 
  3. द्वे महिले प्रतीक्षेते। 
  4. एका महिला छात्रं जलं पाययति। 
  5. वृक्षस्य समीपं गगने खगाः उड्डयन्ते। 
  6. कूपस्य समीपं गृहाणि सन्ति। 

प्रश्न 19. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया परीक्षाकक्ष-विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 22
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे परीक्षायाः दृश्यं दृश्यते। 
  2. अत्र एक: छात्र: एका छात्रा च वार्ता कुरुतः। 
  3. भित्तौ घटिकायन्त्रम् अस्ति।
  4. श्यामपटे 'परीक्षा' इति शब्दः लिखितः। 
  5. गवाक्षे सूर्यः अपि दृश्यते। 
  6. परीक्षाकक्षस्य भित्तौ भारतदेशस्य मानचित्रम् अस्ति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 20. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया 'रुग्णः पुत्रः' इति विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 23
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे रुग्णः पुत्रः दृश्यते। 
  2. तस्य समीपे फलानि, जलपात्रं दुग्धपात्रं च सन्ति। 
  3. चिकित्सकः निरीक्षणं करोति औषधं च लिखति। 
  4. सः तस्मै औषधं यच्छति। 
  5. माता-पिता च तस्य समीपं तिष्ठतः। 
  6. रुग्णपुत्रस्य कक्षं स्वच्छं वर्तते। 

प्रश्न 21. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया जलौघस्य दृश्यविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत - 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 24
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे जलौघस्य दृश्यम् वर्तते।
  2. ग्रामस्य गृहाणि क्षेत्राणि च जलमग्नानि दृश्यन्ते। 
  3. वें बालिके, द्वौ बालको, तेषां माता, अजशावकः च गृहस्य उपरिष्टात् तले स्थिताः। 
  4. ते अतीव दुःखिताः अभवन्, तेषां दयनीया दशा वर्तते। 
  5. ग्रामे सर्वत्र जलं वर्तते, अन्य किमपि न दृश्यते। 
  6. आकाशे मेघाः गर्जन्ति वर्षन्ति च। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 22. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया वाटिकाया: शोभा-विषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 25
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे वाटिका शोभते। 
  2. चित्रे सायंकाले चन्द्रः दृश्यते। 
  3. वृक्षे वानरः फलानि खादति। 
  4. वाटिकायां मञ्चः बालकः बालिका, लघपादपाः च दश्यन्ते। 
  5. गगने खगाः उत्पतन्ति, फलानि च वृक्षात् अधः पतन्ति। 
  6. वाटिकायाम् एका आसन्दिका वर्तते, यत्र जनाः उपविशन्ति। 

प्रश्न 23. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया स्वतंत्रतादिवसविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 26
उत्तरम् : 
वाक्यानि 

  1. इदं चित्रं स्वतन्त्रतादिवस समारोहस्य वर्तते।
  2. अस्मिन् चित्रे रक्तदुर्गे ध्वजोत्तोलनं क्रियते। 
  3. जनाः स्वतन्त्रतादिवससमारोहः मनोयोगपूर्वकं पश्यन्ति। 
  4. स्वतन्त्रतादिवसः प्रतिवर्ष अगस्तमासस्य पञ्चदशतारिकायां आयोज्यते। 
  5. अस्मिन् दिवसे भारतदेशः स्वतन्त्रः अभवत्। 
  6. स्वतन्त्रतादिवसस्य मुख्यसमारोहः देहल्यां भवति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 24. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया श्रीकृष्णस्य जन्मदिवसविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 27
उत्तरम् : 
वाक्यानि 

  1. इदं चित्रं श्रीकृष्णजन्म-दिवसस्य वर्तते। 
  2. श्रीकृष्णस्य मातुः नाम देवकी पितुश्च वासुदेवः आसीत्। 
  3. श्रीकृष्णस्य जन्म कंसराजस्य कारागारे अभवत्। 
  4. वसुदेवः श्रीकृष्णं यमुनामार्गेण नन्दग्रामम् अनयत्। 
  5. शेषनागेन श्रीकृष्णस्योपरि छत्रस्य कार्यं कृतम्।
  6. यमुनायाः जलं वसुदेवस्य आकण्ठम् आसीत्। 

प्रश्न 25. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया रक्षाबन्धनोत्सवविषये षड्वाक्यानि संस्कृतभाषायाम् लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 28
उत्तरम् : 
वाक्यानि 

  1. इदं चित्रं रक्षा-बन्धनोत्सवस्य वर्तते। 
  2. रक्षाबन्धनं प्रतिवर्ष श्रावणमासस्य पूर्णिमायां भवति। 
  3. अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति। 
  4. भ्राता भगिन्यै उपहारं ददाति। 
  5. रक्षाबन्धनं भ्रातृभगिन्योः प्रेम्णः दिवसः वर्तते। 
  6. रक्षाबन्धनदिवसे संस्कृत-दिवसः अपि भवति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 26. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया 'स्वच्छताभियानम्' इति विषये षड्वाक्यानि संस्कृतभाषायां लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 29
उत्तरम् : 
वाक्यानि

  1. चित्रे बालिकाः अध्यापकाश्च स्वच्छताकार्यं कुर्वन्ति।
  2. अधुना भारतदेशे सर्वत्र स्वच्छताभियानं प्रचलति। 
  3. विद्यालयेषु शिक्षका: छात्रान् प्रेरयन्ति।
  4. छात्राणां समूहः स्वस्य विद्यालये स्वच्छतां करोति।
  5. अत्र अनेकाः बालिकाः शिक्षकाः च सार्वजनिकस्थलस्य स्वच्छतां कुर्वन्ति।
  6. अस्माभिः स्वस्य परिवेशं स्वच्छं करणीयम्। 

प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया स्वच्छता विषये षड्वाक्यानि संस्कृतभाषायां लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 30
उत्तरम् : 
वाक्यानि- 

  1. इदम् चित्रं स्वच्छताकार्यक्रमस्य वर्तते। 
  2. चित्रे छात्राः अन्ये जनाश्च स्वच्छताकार्यं कुर्वन्ति। 
  3. अद्य सर्वे जनाः अभियानरूपेण स्वच्छताकार्ये संलग्नाः सन्ति। 
  4. ते सार्वजनिकस्थलानां स्वच्छतां कुर्वन्ति। 
  5. सर्वत्र स्वच्छतायाः अस्माकं दायित्वम् अस्ति। 
  6. अवकरपात्रेषु एव अवकरं स्थापनीयम्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 28. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया सड़कसुरक्षाविषये षड्वाक्यानि संस्कृतभाषायां लिखत 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 31
उत्तरम् : 
वाक्यानि 

  1. इदं चित्रं सड़कदुर्घटनायाः वर्तते।
  2. तीव्रतया वाहनचालनेन दुर्घटना भवति। 
  3. वाहनस्य समुचितनियन्त्रणाभावेन दुर्घटना भवति। 
  4. चतुष्पथेषु सावधानतया गन्तव्यम्। 
  5. सड़कसुरक्षार्थं यातायातस्य नियमानां पालनं कर्त्तव्यम्। 
  6. वाहनस्य गतिः नियन्त्रिता भवेत्।

प्रश्न 29. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया सड़कसुरक्षाविषये षड्वाक्यानि संस्कृतभाषायां लिखत 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 32
उत्तरम् :
वाक्यानि 

  1. इदं चित्रं राजमार्गस्य वर्तते। 
  2. चित्रे द्वौ बालकौ स्वस्य मात्रा सह राजमार्गे गच्छतः। 
  3. राजमार्गे कारयाने स्वनिर्धारितपंक्तौ स्तः। 
  4. सड़कसुरक्षार्थं यातायातस्य नियमाः पालनीयाः। 
  5. वाहनस्य गतिनियमानां पालनं करणीयम्। 
  6. राजमार्गे निर्धारितमार्गेषु एव गन्तव्यम्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम्

प्रश्न 30. 
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया "पुत्रीं रक्षत पुत्रीं पाठयत" इतिविषये षड्वाक्यानि संस्कृतभाषायां लिखत 
RBSE Class 10 Sanskrit रचनात्मक कार्यम् चित्राधारितम् वर्णनम् 33
उत्तरम् : 
वाक्यानि 

  1. अस्मिन् चित्रे "पुत्रीं रक्षत पुत्रीं पाठयत" इति ध्येयवाक्यं लिखितम्। 
  2. चित्रे एका छात्रा वर्तते। 
  3. तस्याः हस्ते पुस्तकं वर्तते। 
  4. अद्य सर्वत्र बालिकानां संरक्षणस्य तासां शिक्षायाः च प्रचार-प्रसारः प्रचलति। 
  5. भ्रूणहत्या महत्पापं मन्यते।
  6. स्त्री एव सन्ततेः प्रथमा शिक्षिका भवति। 
Prasanna
Last Updated on May 10, 2022, 12:35 p.m.
Published May 9, 2022