RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 10 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 10 all subjects will help students to have a deeper understanding of the concepts. Read sanskrit class 10 chapter 1 translation in hindi written in simple language, covering all the points of the chapter.

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 1. 
त्वं स्वकीयं मित्रं प्रतिस्वपरीक्षासिद्धता विषये अधोलिखितपत्रमञ्जूषा सहायतया रिक्त स्थानानि पूरयित्वा लिखत। 
[परिजनाः, विशेषकक्षा, सन्निकटे, कालः, प्राप्तुं, निर्माय, अधीयानः सर्वदा] 

सुनगरम् 
18 मार्च 20XX 

प्रियमित्र कवीन्द्र! 
कुशली सन् कुशलं कामये। मा. शि. बोर्डपरीक्षा (i) ........ वर्तते। अहं समयसारिणी (ii) .......... योजनया अधीयानः अस्मि। अधुना मम (iii) .......... 
अपि मम सहयोगे रताः सन्ति। गुरवः सर्वोत्तमान् अङ्कान् (iv) ........... विद्यालये (v) ........... सञ्चालयन्ति। ममापि लक्ष्यं तदेव वर्तते। भवानपि योजनया एव (vi) ........... स्याद्। गतः (vii) ............. न पुनरायाति, इति सूक्ति। (viii) ............. अपि स्मर। 

भवन्मित्रम् 
-नरेन्द्रः 

उत्तरम् :

सुनगरम् 
18 मार्च 20XX

प्रियमित्र कवीन्द्र!

कुशली सन् कुशलं कामये। मा. शि. बोर्ड परीक्षा सन्निकटे वर्तते। अहं समयसारिणी निर्माय योजनया अधीयानः अस्मि। अधुना मम परिजनाः अपि मम सहयोगे रताः सन्ति। गुरवः सर्वोत्तमान् अङ्कान् प्राप्तुं विद्यालये विशेषकक्षा सञ्चालयन्ति। ममापि लक्ष्यं तदेव वर्तते। भवानपि योजनया एव अधीयानः स्याद्। गतः कालः न पुनरायाति, इति सूक्तिं। सर्वदा अपि स्मर। 

भवन्मित्रम् 
-नरेन्द्रः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 2. 
भवान् रमेशः स्वकीयं पितरं प्रति स्वाध्यायविषये अधोलिखितपत्रं मञ्जूषापदसहायतया पूरयित्वा लिखत - 
[सम्यक, अस्माकम्, भृशम्, विहाय, सादरम्, अन्यत्, न्यूनताम्, मातरम्] 

जामनगरतः 
दिनाङ्काः 18 मार्च 20XX

परमपूजनीयेषु पितृचरणेषु (i)................... प्रणतयः सन्तु। भवतां पत्रमधिगतम्। समाचारान् अधीत्य मे मनः (ii) ................... मोदतेतराम्। मई मासे (iii)................... परीक्षा सम्पत्स्यते। सम्प्रति अध्ययनकर्म (iv) ...................चलति। संस्कृतव्याकरणं (v) ................ सर्वेषु विषयेषु दक्षतामापन्नोऽस्मि। व्याकरणस्यापि (vi)................... शीघ्रमेव अपनेष्यामि, (vii) .......... ....... प्रति मे सादरं प्रणतयः। (viii)........... कुशलम्।

भवत्कः सुतः 
रमेशः 

उत्तरम् :

जामनगरतः 
दिनाङ्काः 18 मार्च 20XX 

परमपजनीयेष पितचरणेष सादरं प्रणतयः सन्त। भवतां पत्रमधिगतम्। समाचारान अधीत्य मे मनः भशं मोदतेतराम्। मईमासे अस्माकं परीक्षा सम्पत्स्यते सम्प्रति अध्ययनकर्म सम्यक् चलति। संस्कृतव्याकरणं विहाय सर्वेषु विषयेषु दक्षतामापन्नोऽस्मि। व्याकरणस्यापि न्यूनतां शीघ्रमेव अपनेष्यामि, मातरं प्रति मे सादरं प्रणतयः। अन्यत् कुशलम्। 

भवत्कः सुतः 
रमेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 3. 
भवान् गोविन्दः। स्वकीयं मित्रं राजेन्द्र प्रति स्वविद्यालयस्य वार्षिकोत्सवविषये अधोलिखितपत्रं मंजूषापदसहायतया पूरयित्वा लिखतु। 
[परिवारे, वार्षिकोत्सवस्य, पत्रोत्तरं, स्वकरकमलेन, कुशलताम्, विविधाः, स्वीकृतवान्, पुरस्कारम्] 

शैलपुरतः 
दिनांका: 18.03:20XX

प्रियमित्रं राजेन्द्र! 
नमस्ते। 
अत्र अहं कुशलं, भवतः 
कामये। फरवरी मासे पञ्चमे दिनांके मम विद्यालये ......... आयोजनम् अभवन्। अस्मिन् दिवसे ................... प्रतियोगिताः अभवन्। अहमपि धावनप्रतियोगितायां, वादविवादप्रतियोगितायां च भागं ..................... पुरस्कारवितरणसमारोहे अस्माकं क्षेत्रस्य विधायकमहोदयः 
................. पुरस्कारवितरणं कृतवान्। अहमपि ................... प्राप्तवान्। 
अस्तु .................. सर्वेभ्यः यथायोग्यं नमस्काराः, ................... शीघ्रमेव प्रेषणीयम्। 

भवतः मित्रम् 
गोविन्दः 

उत्तरम् :

शैलपुरतः 
दिनांका: 18.03.20XX 

प्रियमित्रं राजेन्द्र! 
नमस्ते। 
अत्र अहं कुशलं, भवतः कुशलतां कामये। फरवरी मासे पञ्चमे दिनांके मम विद्यालये वार्षिकोत्सवस्य आयोजनम् अभवन्। अस्मिन् दिवसे विविधाः प्रतियोगिताः अभवन्। अहमपि धावनप्रतियोगितायां, वादविवादप्रतियोगितायां च भार्ग स्वीकृतवान्। पुरस्कारवितरणसमारोहे अस्माकं क्षेत्रस्य विधायकमहोदयः स्वकरकमलेन पुरस्कारवितरणं कृतवान्। अहमपि पुरस्कार प्राप्तवान्। 
अस्तु परिवारे सर्वेभ्यः यथायोग्यः नमस्काराः, पत्रोत्तरं शीघ्रमेव प्रेषणीयम्। 

भवतः मित्रम् 
गोविन्दः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 4.
भवान् देवदत्तः। स्वानुजं यज्ञदत्तं प्रति अधोलिखितपत्रं मञ्जूषापदसहायतया पूरयित्वा लिखत - 
[अध्ययने, चिन्ता, तवाग्रजः, पत्रोत्तरं, नीरोगताम्, प्रसन्नाश्च, धनादेशः, चिरात्] 

जयपुरनगरात् 
दिनांका: 20/03/20XX 

प्रिय अनुज यज्ञदत्त! 
शुभाशिषः। 
अत्र कुशलं तत्रास्तु। ................ पत्रं तव नैवाऽऽगतम्। तवाध्ययनं सम्यगेव चलतीति मन्ये। मया प्रेषितो ..... लब्धो न वा? अत्रत्याः सर्वे जनाः स्वस्थाः ................... सन्ति। पूर्वं मातुः स्वास्थ्यं समीचीनं नासीत् परमिदानीं ................... अनुभवति। अतः मातुः विषयेऽपि ................... न कर्त्तव्या। ................... सावधानतया वर्तनीयम्। ................... शीघ्रमेव देयम्, पत्रप्रेषणे प्रमादो नैव कर्त्तव्यः। तव स्नेहपत्र-प्रतीक्षायाम्। 

...........
देवदत्तः 

उत्तरम : 

जयपुरनगरात् 
दिनांका: 20/03/20XX

प्रिये अनुज यज्ञदत्त! 
शुभाशिषः। 
अत्र कुशलं तत्रास्तु। चिरात् पत्रं तव नैवाऽऽगतम्। तवाध्ययनं सम्यगेव चलतीति मन्ये। मया प्रेषितो धनादेशः लब्धो न वा? अत्रत्याः सर्वे जनाः स्वस्थाः प्रसन्नाश्च सन्ति। पूर्वं मातुः स्वास्थ्यं समीचीनं नासीत् परमिदानी नीरोगताम् अनुभवति। अतः मातुः विषयेऽपि चिन्ता न कर्त्तव्या। अध्ययने सावधानतया वर्तनीयम्। पत्रोत्तरं शीघ्रमेव देयम्, पत्रप्रेषणे प्रमादो नैव कर्त्तव्यः। तव स्नेहपत्र-प्रतीक्षायाम्। 

तवाग्रजः 
देवदत्तः 

प्रश्न 5.
पितरं प्रति अधोलिखितपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखतु। 
[परीक्षा, स्वास्थ्यमपि, प्रणतिः, पितृचरणेषु, सस्नेहमाशिषः, शीघ्रमेव, वृत्तं, स्नेहापूरितं।] 

जयपुरतः 
दिनाङ्काः 6-12-20XX 

परमश्रद्धेयेषु ................
सादरं प्रणतिः। 
अत्र कुशलं तत्रास्तु। 
भवदीयं ......... पत्रं मया अद्यैव प्राप्तम्। पत्रं पठित्वा गृहस्य सर्वमपि ............... ज्ञातवान्। अधुना .............. प्रचलति। अतोऽहमध्ययने दत्तचित्तोऽस्मि। ............... समीचीनम्। परीक्षानन्तरम् ...........गृहं आगमिष्यामि। 
पूज्यायाः मातुश्चरणयोः मम .............. कथनीया, भगिन्यै गरिमायै ...........। 

भवदाज्ञाकारी पुत्रः 
गौरवः 

उत्तरम् : 

जयपुरतः 
दिनाङ्काः 6-12-20XX

परमश्रद्धेयेषु पितृचरणेषु 
सादरं प्रणतिः। अत्र कुशलं तत्रास्तु। 
भवदीयं स्नेहापूरितं पत्रं मया अद्यैव प्राप्तम्। पत्रं पठित्वा गृहस्य सर्वमपि वृत्तं ज्ञातवान्। अधुना मम अर्द्धवार्षिकी परीक्षा प्रचलति। अतोऽहमध्ययने दत्तचितोऽस्मि। स्वास्थ्यमपि समीचीनम्। परीक्षानन्तरम् शीघ्रमेव गृहं आगमिष्यामि। 
पूज्यायाः मातुश्चरणयोः मम प्रणतिः कथनीया, भगिन्यै गरिमायै सस्नेहमाशिषः। 

भवदाज्ञाकारी पुत्रः 
गौरवः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 6. 
स्वस्य यात्राविषये मित्रं प्रति अधोलिखितपत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत -  
[वृक्षः, भवतः, गन्तुम्, गतसप्ताहे, बीकानेरतः, वयं, एव, नमस्ते]

......................
दिनाङ्काः 10-02-20XX 

प्रियं मित्रं भास्कर! 
सस्नेहं ...............
............. अहं मित्रैः सह शैक्षिकभ्रमणाय 'दार्जिलिङ्ग' इति पर्वतीयस्थलं गतवान्। अस्य स्थानस्य सौन्दर्यम् अद्भुतम् ................... अस्ति। विशालैः .................. सुसज्जिता इयं देवभूमिः एव अस्ति। एवं प्रतीयते यत् ................... अन्यस्मिन् एव संसारे वसामः। इमं सुरम्यं प्रदेशं दृष्ट्वा इदम् असत्यम् एव प्रतीयते यत् पर्वताः केवलं दूरतः एव रम्याः। पर्वताः तु सदैव रम्या एव भवन्तिः अहं त्वया सह अपि एकवारं तत्र पुनः ... इच्छामि। आशासे आवां शीघ्रं गमिष्यावः। अधुना विरमामि। 
सर्वेभ्यः मम नमस्कारः कथनीयः। 

............... मित्रम् 
कृष्णः 

उत्तरम् :

बीकानेरतः 
दिनाङ्काः 10-02-20XX 

प्रियं मित्रं भास्कर! 
सस्नेह नमस्ते। 
गतसप्ताहे अहं मित्रैः सह शैक्षिकभ्रमणाय 'दार्जिलिङ्ग' इति पर्वतीयस्थलं गतवान्। अस्य स्थानस्य सौन्दर्यम् अद्भुतम् एव अस्ति। विशालैः वृक्षैः सुसज्जिता इयं देवभूमिः एव अस्ति। एवं प्रतीयते यत् वयम् अन्यस्मिन् एव संसारे वसामः। इमं सुरम्यं प्रदेशं दृष्ट्वा इदम् असत्यम् एव प्रतीयते यत् पर्वताः केवलं दूरतः एव रम्याः। पर्वताः तु सदैव रम्या एव भवन्तिः अहं त्वया सह अपि एकवारं तत्र पुनः गन्तुम् इच्छामि। आशासे आवां शीघ्रं गमिष्यावः। अधुना विरमामि। 
सर्वेभ्यः मम नमस्कारः कथनीयः। 

भवतः मित्रम् 
कृष्णः 

प्रश्न 7. 
भवान् राजवीरः। भवतः विद्यालये वार्षिकोत्सवे संस्कृत नाटकस्य मञ्चनम् भविष्यति। तदर्थं स्व मित्रम् राजपालं प्रति लिखितं निमंत्रणपत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[द्रष्टुम्, अग्रजेभ्यः, रूपनगरतः, कुशली, मञ्चनम्, राजपाल! करिष्यामि, उत्साहवर्धनम्] 

किसान छात्रावासः 
.................
दिनाङ्काः 10-12-20XX 

प्रिय मित्र .................. 
अत्र सर्वगतं कुशलम् अस्ति। मन्ये भवान् अपि ................... इति। अस्माकं विद्यालयस्य वार्षिकोत्सवे, "रमणीया हि सृष्टिः एषा" इति नाटकस्य ................... भविष्यति। अहं तस्मिन् नाटके काकस्य अभिनयं ...................। भवान् अवश्यमेव तत् ................... आगच्छतु। मम अपि ................... भविष्यति। सर्वेभ्यः .............. मम प्रणामाञ्जलिः निवेद्यताम्। इति। 

भवतः मित्रम् 
राजवीरः 

उत्तरम् :

किसान-छात्रावासः 
रूपनगरतः 
दिनांका: 10-12-20XX 

प्रिय मित्र राजपाल! 
अत्र सर्वगतं कुशलम् अस्ति। मन्ये भवान् अपि कुशली इति। अस्माकं विद्यालयस्य वार्षिकोत्सवे, "रमणीया हि सृष्टिः एषा" इति नाटकस्य मञ्चनं भविष्यति। अहं तस्मिन् नाटके काकस्य अभिनयं करिष्यामि। भवान् अवश्यमेव तत् द्रष्टुम् आगच्छतु। मम अपि उत्साहवर्धनं भविष्यति। सर्वेभ्यः अग्रजेभ्यः मम प्रणामाञ्जलिः निवेद्यताम। इति। 

भवतः मित्रम् 
राजवीरः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 8. 
स्वं 275 बी रामनगरं, अलवरस्य विवेकानन्दं मत्वा स्वस्य अध्ययनस्य विवरणं दत्त्वा स्वपितरं प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[चरणयोः, आशासे, दीपमालिकावकाशे, नियमितं, विवेकानन्दः, रात्रौ, भवन्तः, स्वाध्ययनं] 

275 बी, रामनगरम् 
अलवरतः 
दिनाङ्काः 15-12-20XX 

पूजनीयेषु पितृचरणेषु 
सादरं प्रणामाः। 
अत्र अहं कुशलोऽस्मि। .................. गृहेऽपि सर्वे कुशलिनः। भवतां पत्र मया अद्यैव प्राप्तम्। अहं भवतां निर्देशानुसारं नियमितं ................... करोमि, प्रतिदिनं च विद्यालयं गच्छामि। पाठितविषयाणां ................... स्मरणं करोमि। प्रातः पञ्चवादने उत्थाय पठने संलग्नो भवामि। ................... चापि सार्धदशवादनपर्यन्तं स्वाध्ययनं करोमि। 
अधुना अस्माकं विद्यालये प्रथम-परीक्षणं सञ्जातम्, तस्मिन् मया प्रथमश्रेण्याः अङ्काः प्राप्ताः। अत एव ममाध्ययनस्य विषये .............. चिन्तां न कुर्युः। अहं सैकण्डरी परीक्षायां निश्चितमेव प्रथमश्रेण्यां समुत्तीर्णो भविष्यामि।
............... अहं भवत्पार्श्वमागमिष्यामि। मम सम्बन्धे कापि चिन्ता न कार्या। पूज्यायाः मातुः ............. सादरं मम प्रणामः। अनुजायै स्नेहाशिषः। कुशलपत्रं शीघ्रमेव प्रेषणीयम्। 

भवदाज्ञाकारी पुत्रः 
...............

उत्तरम् : 

275 बी, रामनगरम् 
अलवरत: 
दिनांका: 15-12-20XX 

पूजनीयेषु पितृचरणेषु, 
सादरं प्रणामाः। 
अत्र अहं कुशलोऽस्मि। आशासे गृहेऽपि सर्वे कुशलिनः। भवतां पुत्र मया अद्यैव प्राप्तम्। अहं भवतां निर्देशानुसारं नियमितं स्वाध्ययनं करोमि, प्रतिदिनं च विद्यालयं गच्छामि। पाठितविषयाणां नियमितं स्मरणं करोमि। प्रातः पञ्चवादने उत्थाय पठने संलग्नों भवामि। रात्रौ चापि सार्धदशवादनपर्यन्तं स्वाध्ययनं करोमि। अधुना अस्माकं ये प्रथम-परीक्षणं सञ्जातम्, तस्मिन् मया प्रथमश्रेण्याः अङ्काः प्राप्ताः। अत एव ममाध्ययनस्य विषये भवन्तः चिन्तां न कुर्युः। अहं सैकण्डरी परीक्षायां निश्चितमेव प्रथमश्रेण्यां समुत्तीर्णो भविष्यामि। 
दीपमालिकावकाशे अहं भवत्पार्श्वमागमिष्यामि। मम सम्बन्धे कापि चिन्ता न कार्या। पूज्यायाः मातुः चरणयोः सादरं मम प्रणामः। अनुजायै स्नेहाशिषः। कुशलपत्रं शीघ्रमेव प्रेषणीयम्। 

भवदाज्ञाकारी पुत्रः 
विवेकानन्दः 

प्रश्न 9. 
भवान् गणेशः अस्ति। भवतः ग्रामे कार्तिकपूर्णिमायां दिवसे संस्कृत नाटकस्य मञ्चनम् भविष्यति। तदर्थ स्वमित्रम् गोविन्दं प्रति लिखितं आमन्त्रपत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः उत्तर पुस्तिकायां लिखत। 
[मञ्चनं, परीक्षाकक्षम, गोविन्दः, कालिदास, प्रणामाः, करिष्यामि, द्रष्टुंम्, ग्रामे] 

...................
दिनाङ्काः 15.11.20XX 

प्रियमित्रं .......... 
अत्र कुशलं तत्रास्तु। अस्माकं ............. दिनाङ्कतः 15.11.20XX दिनाङ्कं 16.11.20XX पर्यन्तं ............ विरचितं नाटकस्य ...... .............. भविष्यति। अस्मिन् नाटके अहं यक्षस्य अभिनयं ...................। भवान् द्रष्टुम् आगमिष्यति। तत् नाटकं ................... आगच्छतु। सर्वेभ्यः वृद्धेभ्यः ............. निवेद्यताम्। 
भवतः मित्रम् 
गणेशः 
उत्तरम् :

परीक्षाकक्षम् 
दिनाङ्काः 15.11.20XX 

प्रियमित्रं गोविन्दः! 
अत्र कुशलं तत्रास्तु। अस्माकं ग्रामे दिनाङ्कतः 15.11.20XX दिनाङ्क 16.11.20XX पर्यन्तं कालिदासविरचितं नाटकस्य मञ्चनं भविष्यति। अस्मिन् नाटके अहं यक्षस्य अभिनयं करिष्यामि। भवान् द्रष्टुम् आगमिष्यति। तत् नाटकं द्रष्टुम् आगच्छतु। सर्वेभ्यः वृद्धेभ्यः प्रणामाः निवेद्यताम्। 

भवतः मित्रम् 
गणेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 10. 
परीक्षायां सफलतायै स्वमित्रं प्रदीपकुमारं प्रति अधोलिखितमपूर्ण वर्धापनपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[सुहृद्वर्य, प्रणाम, जयपुरतः, कुशलं, वर्धापन, एवमेव, परीक्षायाम, अधिगतवान्] 

...................
दिनाङ्काः 18.12.20XX 

अभिन्नहृदय...................! 
सप्रेम नमस्ते। 
अत्र ............. तत्रास्तु। अद्यैव तव पत्रं प्राप्तम्। त्वं प्रथम श्रेण्यां ................... उत्तीर्य योग्यता-सूच्यां प्रथमं स्थानम् ................ इति पठित्वा हर्षमनुभवामि। तव प्रयासः सर्वथा साधुवादार्हः। मम ................. (बधाई) स्वीकरोतु। आशासे अग्रेऽपि ................... स्तुत्यप्रयासं करिष्यति। 
स्वपितृभ्यां मम .................. निवेदय। 

तव स्निग्धं मित्रम् 
हरीशः 

उत्तरम्. 

जयपुरतः 
दिनाङ्काः 18.12.20XX 

अभिन्नहृदय सुहृद्वर्य!
सप्रेम नमस्ते। 
अत्र कुशलं तत्रास्तु। अद्यैव तव पत्रं प्राप्तम्। त्वं प्रथम श्रेण्यां परीक्षायाम् उत्तीर्य योग्यता-सूच्यां प्रथमं स्थानम् अधिगतवान् इति पठित्वा हर्षमनुभवामि। तव प्रयासः सर्वथा साधुवादार्हः। मम वर्धापन्नं (बधाई) स्वीकरोतु। आशासे अग्रेऽपि एवमेव स्तुत्यप्रयासं करिष्यति।
स्वपितृभ्यां मम प्रणाम निवेदय। 

तव स्निग्धं मित्रम् 
हरीशः 

प्रश्न 11. 
भवती रेखा। भवत्याः राजकीय-आदर्श-उच्चमाध्यमिक-विद्यालये स्वच्छतादिवस: समायोजितः आसीत्। विषयेऽस्मिन् एकं पत्रं स्वमित्रं प्रति लिखत। 
उत्तरम् :

जयपुरतः 
दिनांकाः 24.03.20XX

प्रियमित्रं रमेशः! 

नमस्ते। 
अत्र कुशलं तत्रास्तु। मम राजकीय-आदर्श-उच्चमाध्यमिक-विद्यालये विगतसप्ताहे 'स्वच्छतादिवसः' समायोजितः आसीत्। अस्मिन् दिवसे वयं न केवलं विद्यालये अपितु विद्यालयात् बहिः अपि सार्वजनिकेषु स्थानेषु छात्राणां. समूह निर्माय स्वच्छतां कृतवन्तः। अस्मिन् अवसरे प्रधानाचार्यः बोधितवान् यत् अस्माकं देशे "स्वच्छताभियानम्" प्रचलति। अस्माकं गृहस्य विद्यालयस्य च स्वच्छता तु करणीया एव, सार्वजनिकस्थानेषु अपि स्वच्छतायाः अस्माकं दायित्वम्। वयम् विद्यालये प्रतिज्ञां कृतवन्तः यत् अस्माकं परिवेशं स्वच्छं करिष्यामः। अवकरम् इतस्ततः न क्षिपाम। येन अस्माकं देशः सुन्दरः नागरिकाश्च स्वस्था भवन्तु। आशासे भवानपि अस्मिन् विषये जागरूको भूत्वा स्वच्छताभियाने योगदानं दास्यति। 
सर्वेभ्यः पूज्येभ्यः प्रणामाः। पत्रोत्तरं शीघ्रं प्रेषणयिम्। 

भवन्मित्रम् 
रेखा। 

प्रश्न 12. 
भवान् सुरेशः। मातरं प्रति अधोलिखितं पत्रं मञ्जूषापद सहायतया लिखत।
[वार्षिकोत्सवः, अभिनयम, मुख्यातिथिः, कुशलम्, अध्ययनम, पितरम्, भवदीयः, सर्वेभ्यः]

चारुनगरात् 
दिनांकाः 11/10/20XX 

पूजनीयाः मातृचरणाः! 
नमोनमः। अत्र ................... तत्रास्तु। मम विद्यालये ................... आसीत्। तत्र अहम् एकम् .... कृतवान्। मन्त्रिमहोदयः ................... रूपेण आगतवान्। मम ................... सम्यक् चलति। गृहे ................. नमोनमः। अहं ............... प्रणमामि। 

.............
सुरेशः 

उत्तरम् : 

चारुनगरात् 
दिनांकाः 11/10/20XX 

पूजनीयाः मातृचरणाः! 
नमोनमः। अत्र कुशलं तत्रास्तु। मम विद्यालये वार्षिकोत्सवः आसीत्। तत्र अहम् एकम् अभिनयम् कृतवान्। मन्त्रिमहोदयः मुख्यातिथिः रूपेण आगतवान्। मम अध्ययनम् सम्यक् चलति। गृहे सर्वेभ्यः नमोनमः। अहं पितरम् प्रणमामि। 

भवदीयः 
सुरेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 13. 
भवान् प्रत्यूषः। भवतां राजकीय आदर्श उच्च माध्यमिक विद्यालये संस्कृत सम्भाषण शिविरम् आयोजितमासीत्। स्वानुभवान् वर्णयन् भवान् स्वमित्रं भव्यं प्रति पत्रं लिखत। 
उत्तरम् :

राजकीय-आदर्श-उच्च माध्यमिक 
विद्यालयः, जयपुरतः 
दिनाङ्काः-20-01-20XX 
प्रियमित्रं भव्यः! 

नमस्ते। 
अत्र कुशलं तत्रास्तु। अस्माकं विद्यालये गतमासे पञ्चदशदिवसीय संस्कृत सम्भाषण-शिविरस्य आयोजनमभवत्। अस्मिन् आवासीयशिविरे शतम् छात्राः आसन्। शिविरे सर्वे सरससंस्कृतभाषायामेव परस्परं वार्तालापं दैनिकव्यवहारञ्च अकुर्वन्। संस्कृते सम्भाषणाय सर्वे छात्रा: उत्सुकाः आसन्। अनेन न केवल संस्कृते सम्भाषणस्य कौशलम्, अपितु संस्कृतभाषायाः सूक्ष्मज्ञानमपि वर्धयति। संस्कृतव्याकरणस्यापि ज्ञानम् अनायासेनैव भवति। पुनश्च ग्रीष्मावकाशे अत्रैव संस्कृतसम्भाषणशिविरस्य आयोजनं भविष्यति। मन्ये भवान्नपि अस्मिन् भागं गृहीत्वा संस्कृते कौशलं प्रापिष्यति। 
सर्वेभ्यः पूज्येभ्यः प्रणामाः निवेदनीयाः। शेषं कुशलम्। 

भवन्मित्रम् 
प्रत्यूषः 

प्रश्न 14.
भवती कनकग्रामवासिनी रेखा स्वीकीयां सखीम् अंकिता प्रति "संस्कृतभाषा-शिक्षणम्" इति विषये अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा लिखतु। 
[(i) कनकग्रामतः (ii) अस्माकम् (ii) इच्छति (iv) रेखा (v) पृथक् (vi) पठित्वा (vii) प्राप्तम् (viii) सुगन्धम्] 

(i) ............... 
दिनाङ्काः 18.03.20XX 

प्रिय अंकिते! 
नमस्ते। 
भवत्याः पत्रम् (ii) ...................। भवती संस्कृतभाषां पठितुम् (iii) ..................। एषा भाषा वैज्ञानिकी। संस्कृतम् (iv)................... देशस्य प्रसिद्धा भाषा। भारतीय संस्कृतेः संस्कृतम् (v) ................... कर्तुम् तथैव न शक्यते यथा पुष्पेभ्यः (vi) ...................। अतः भवती अपि संस्कृतं पठतु एवं च (vii) ................... प्रचारं करोतु। 

भवत्याः प्रियसखी 
(viii) ................. 

उत्तरम् :

कनकग्रामतः 
दिनाङ्काः 18.03.20XX 

प्रिय अंकिते! 
नमस्ते। 
भवत्याः पत्रम् प्राप्तम्। भवती संस्कृतभाषायां पठितुम् इच्छति। एषा भाषा वैज्ञानिकी। संस्कृतम् अस्माकम् देशस्य प्रसिद्धा भाषा। भारतीय संस्कृतेः संस्कृतम् पृथक् कर्तुम् तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। अतः भवती अपि संस्कृतं पठतु एवं च पठित्वा प्रचारं करोतुः। 

भवत्या प्रियसखी 
रेखा 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 15. 
भवान् मथुरावासी योगेशः। स्वमित्रं नारायणं प्रति संस्कृते एक पत्रं लिखतु यस्मिन् भवतः क्रीडाप्रतियोगितायाः वर्णनं स्यात्। 
उत्तरम् : 

मथुरानगरतः 
दिनाङ्काः 8-03-20XX

प्रियमित्रं नारायण! 
नमस्ते। 
अत्र कुशलं तत्रास्तु। अस्माकं विद्यालये गतमासे विविधक्रीड़ाप्रतियोगिता आसीत्। मयाऽपि धावनप्रतियोगितायां भागं गृहीत्वा प्रथम स्थान प्राप्तम् प्रतियोगितासमाप्तानन्तरं पुरस्कारवितरणसमारोहस्य आयोजनं जातम्। मुख्यतिथिमहोदयेन विजेतृणां कृते पुरस्कारान् प्रदत्तम्। अधुना अस्माकं परीक्षा समयः वर्तते। भवानपि स्वाध्याये संलग्नो भविष्यति। 
सर्वेभ्यः पूज्येभ्यः प्रणामाः निवेदनीयाः। शेषं कुशलम्। 

भवन्मित्रम् 
योगेशः 

प्रश्न 16. 
भवती संयोगिता। स्वकीयां सखी मजुं प्रति 'स्वदिनचर्यायाः विषये' अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा लिखतु। 
[परीक्षा-भवनतः, मञ्जो, संध्यादिकं, कुशलिनी, संयोगिता, ज्ञातुम्, अध्ययन, उत्तिष्ठामि।] 

(i) .................
तिथि: 17.03.20XX

प्रिय सखि (ii) .............. 

अत्र कुशलं तत्रास्तु। आशासे भवती अपि (iii) ...................। अद्य चिरात् तव पत्रं प्राप्य अहं अतीव प्रसन्नास्मि। भवती मम दिनचर्यां (iv) .................. इच्छति। अतः लिखामि। 
अहम् अत्र पञ्चवादने (प्रातः) (v) ...................। सार्धषड्वादनपर्यन्तं स्नानं व्यायामं च करोमि। सप्तवादनतः (vi) .................. प्रचलति। दशवादने भोजनं कृत्वा विद्यालयं गच्छामि। सायं पञ्चवादने क्रीडामि। सायं सप्तवादने (vii) .......... ......... कृत्वा भोजनं करोमि। रात्रौदशवादनपर्यन्तं पठामि। इत्येवं मम दिनचर्या। 
शेषं कुशलम्। 

भवत्याः सखी 
(viii) ................

उत्तरम् :

परीक्षा-भवनतः 
तिथि: 17.03.20XX 

प्रिय सखि मजो! 

अत्र कुशलं तत्रास्तु। आशासे भवती अपि कुशलिनी। अद्य चिरात् तव पत्रं प्राप्य अहं अतीव प्रसन्नास्मि। भवती मम दिनचर्यां ज्ञातुम् इच्छति। अतः लिखामि। 
अहम् अत्र पञ्चवादने (प्रातः) उत्तिष्ठामि। सार्धषड्वादनपर्यन्तं स्नानं व्यायामं च करोमि। सप्तवादनतः अध्ययनं प्रचलति। दशवादने भोजनं कृत्वा विद्यालयं गच्छामि। सायं पञ्चवादने क्रीडामि। सायं सप्तवादने संध्यादिकं कृत्वा भोजनं करोमि। रात्रौ दशवादनपर्यन्तं पठामि। इत्येवं मम दिनचर्या। 
शेषं कुशलम्। 

भवत्याः सखी 
संयोगिता 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 17. 
भवती पूजा अजयमेरुनगरे छात्रावासे निवसति। स्वस्य मातरं प्रति संस्कृते एकं पत्रं लिखत, यस्मिन् भवत्याः छात्रावासस्य अधीक्षिकायाः व्यवहारस्य वर्णनं स्यात्। 
अथवा 
स्वस्य मातरं प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[शीघ्रमेव, गृहस्य, कुशलम्, स्नेहापूरितपत्रं, पूजा, अजयमेरुतः, चिन्ता, ममाभिवन्दनम्, छात्रावासस्य, अध्ययनं, वन्दनानि, स्निह्यति, मातृचरणेषु, हितान्]

...................... 
दिनाङ्काः 8-12-20XX 

श्रद्धयेषु ..............
सादरं.........! 
अत्र कुशलं तत्रास्तु। 
भवत्याः ........ अद्यैव प्राप्तम्। पत्रं पठित्वा. सर्वमपि वृत्तं ज्ञातवती। अस्माकं ........... अधीक्षिका सरला, गम्भीरा, कुशलिनी च अस्ति। सा छात्रा ....... | यथासमयं ............... संरक्षति। अस्माकम् ............. सम्यक् प्रचलति। अतः भवत्या काऽपि ................. न विधेया, अर्द्धवार्षिकी परीक्षाम् अनन्तरम् अहं .............. गृहम् आगमिष्यामि। 
पितृचरणयोरपि .............। शेषं सर्व..............। भवत्याः पत्रोत्तर-प्रतीक्षायाम् -

भवत्याः पुत्री 
............

उत्तरम् :

अजयमेरुतः 
दिनाङ्काः 8-12-20XX 

श्रद्धेयेषु मातृचरणेषु 
सादरं वन्दनानि! 
अत्र कुशलं तत्रास्तु। 
भवत्याः स्नेहापूरितपत्रं अद्यैव प्राप्तम्। पत्रं पठित्वा गृहस्य सर्वमपि वृत्तं ज्ञातवती। अस्माकं छात्रावासस्य अधीक्षिका सरला, गम्भीरा, कुशलिनी च अस्ति। सा छात्रासु स्नियति। यथासमयं हितान् संरक्षति। अस्माकम् अध्ययनं सम्यक् प्रचलति। अतः भवत्या काऽपि चिन्ता न विधेया, अर्द्धवार्षिकी परीक्षाम् अनन्तरम् अहं शीघ्रमेव गृहम् आगमिष्यामि। 
पितृचरणयोरपि ममाभिवन्दनम्। शेषं सर्वं कुशलम्। भवत्याः पत्रोत्तर-प्रतीक्षायाम्- 

भवत्याः पुत्री 
पूजा 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 18. 
भवती हर्षिता झालरापाटननगरे निवसति। स्वस्य सखीं मनीषां प्रति संस्कृते एक पत्रं लिखत, यस्मिन् भवत्याः दिनचर्यायाः वर्णनं स्यात्।
अथवा 
स्वस्य दिनचर्याविषयकं सखी प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[क्रीडामि, उत्तिष्ठामि, मनीषा, नववादनतः, सखी, झालरापाटनतः, पत्रेण, नमस्ते, विद्यालयं, दिनचर्या, भोजनं, चिरात्, व्यायाम, पठामि, प्रणतिः, कुशलिनी] 

..................
दिनाङ्काः 9-12-20XX

प्रियसखि .................! 
सस्नेहं ..........! 
अत्र सर्वं कुशलम्। 
भवती अपि कुशलिनी इति मम आशा। अद्य ........... तव पत्रं प्राप्य अहमतीव हर्षमनुभवामि। भवती मम ............... ज्ञातुम् इच्छति। अतः तविषये लिखामि। 
अत्र अहं पञ्चवादने .......। सार्धपञ्चवादनात् सार्धषड्वादनपर्यन्तं ............. करोमि। .......... अध्ययन प्रचलति। दशवादने भोजनं कृत्वा ........ गच्छामि। सायं पंचवादने ...........। सप्तवादने संध्यादिकं कृत्वा ...... करोमि। रात्रौ दशवादनपर्यन्तं .......। 
गृहे पितरौ स्तः ..........। स्वपरिवारे पूज्यजनेभ्यो मम ....... निवेदनीया। यदा कदाचित् ..... वार्ता सूचयतु। 
शेषं कुशलम्। 

भवदीया प्रिया ............. 
हर्षिता 

उत्तरम् :

झालरापाटनतः 
दिनाङ्काः 9-12-20XX 

प्रियसखि मनीषा! 
सस्नेह नमस्ते! 
अत्र सर्वं कुशलम्। 
भवती अपि कुशलिनी इति मम आशा। अद्य चिरात् तव पत्रं प्राप्य अहमतीव हर्षमनुभवामि। भवती मम दिनचर्या ज्ञातुम् इच्छति। अतः तद्विषये लिखामि।
अत्र अहं पञ्चवादने उत्तिष्ठामि। सार्धपञ्चवादनात् सार्धषड्वादनपर्यन्तं व्यायामं करोमि। नववादनतः अध्ययन प्रचलति। दशवादने भोजनं कृत्वा विद्यालयं गच्छामि। सायं पंचवादने क्रीडामि। सप्तवादने संध्यादिकं कृत्वा भोजनं करोमि। रात्रौ दशवादनपर्यन्तं पठामि। 
गृहे पितरौ स्त: कुशलिनौ। स्वपरिवारे पूज्यजनेभ्यो मम प्रणतिः निवेदनीया। यदा कदाचित् पत्रेण वार्ता सूचयतु।
शेषं कुशलम्। 

भवदीया प्रिया सखी 
हर्षिता 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 19. 
भवान् आदित्यः जयपुरनगरे निवसति। स्वस्य अनुजम् अनुरागं प्रति अध्ययनविषयकं संस्कृते एकं पत्रं लिखत। 
अथवा 
अनुजं प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[प्रचलति, अनुज, ममाध्ययनं, आदित्यः, जयपुरतः, शीघ्रं, परमात्मनः, गृहमागत्य, अर्पितायै, चिरकालात्, स्वाध्ययने, नियमः, चिन्ता, अर्द्धवार्षिकी, सम्प्रति]

................. 
दिनाङ्काः 10-12-20XX 

प्रिय .............. अनुराग! 
शुभाशीर्वादाः। 
अत्र सर्वं ................। 
तव कुशलतां ............ सर्वदा कामये। ............. तव पत्रं न प्राप्तम, अतः महती ............ जायते। पूर्व प्रतिमासं कुशलपत्रप्रेषणे तव साधारणो ............... आसीत्। अधुना किं जातमिति नाऽहं जाने। .......... पत्रोत्तरं शीघ्रं प्रेषय। 
............... सुचारुरूपेण प्रचलति, दिनत्रयानन्तरं मम .............. परीक्षा प्रारब्धा भविष्यति। परीक्षानन्तरमहं शीतकालीनावकाशेषु ....... स्थास्यामि। 
तव अध्ययनं सम्यक् ........... न वा। त्वया ........... प्रवृत्तिः विधेया। मातृचरणयोरपि ममाभिवन्दनम्। अनुजायै स्नेहाशिषः सूचयतु। पत्रोत्तरमवश्यं.......च प्रेषणीयम्। 

भवतः शुभाकाङ्क्षी 
................

उत्तरम् :  

जयपुरतः 
दिनाङ्काः 10-12-20XX 

प्रिय अनुज अनुराग! 
शुभाशीर्वादाः। 
अत्र सर्वं कुशलमस्ति। 
तव कुशलतां परमात्मनः सर्वदा कामये। चिरकालात् तव पत्रं न प्राप्तम्, अतः महती चिन्ता जायते। पूर्व प्रतिमासं कुशलपत्रप्रेषणे तव साधारणो नियमः आसीत्। अधुना किं जातमिति नाऽहं जाने। सम्प्रति पत्रोत्तरं शीघ्र प्रेषय। 
ममाध्ययनं सुचारुरूपेण प्रचलति, दिनत्रयानन्तरं मम अर्द्धवार्षिकी परीक्षा प्रारब्धा भविष्यति। परीक्षानन्तरमहं शीतकालीनावकाशेषु गृहमागत्य स्थास्यामि। 
तव अध्ययनं सम्यक् प्रचलति न वा। त्वया स्वाध्ययने प्रवृत्ति: विधेया। मातृचरणयोरपि ममाभिवन्दनम्। अनुजायै अर्पितायै स्नेहाशिषः सूचयतु। पत्रोत्तरमवश्यं शीघ्रं च प्रेषणीयम्। 

भवतः शुभाकाङ्क्षी 
आदित्यः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 20. 
भवान् चन्द्रेशः कोटानगरे निवसति। स्वानुजं विनोदं प्रति नियमिताध्ययनं कर्तुं संस्कृते एक पत्रं लिखत। 
अथवा 
स्वं कोटानगरवास्तव्यः चन्द्रेशः मत्वा स्वानुजं प्रति नियमिताध्ययनं कर्तुं अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।
[ज्ञानं, पत्रं, पुनरावृत्तिं, चन्द्रेशः, कोटानगरतः, पुनरपि, कुशलं, जीवनं, प्रेषणीयम्, शुभाशिषः, सहयोगं, अध्ययनं, प्रतिदिनं, कार्यक्रमेषु] 

...........................
दिनाङ्का: 18-11-20XX 

चिरञ्जीवि विनोद! 
सस्नेहं...............। 
अत्र अहं कुशली, त्वामपि सदैव. कामये। तव ............... दिनद्वयपूर्वमेव प्राप्तम्। मन्ये, तव ........... सुचारु चलति, त्वं मम निर्देशानुसार विद्यालये सर्वेषु...भागं गृहासि, सांस्कृतिकप्रवृत्तिषु ............ करोषि। स्वाध्ययनेन सह त्वं...व्यायाममपि कुरु। नियमितं पठितविषयाणां स्मरणं गृहकार्यलेखन ............ च यदि त्वं करिष्यसि तर्हि तव ............ सुफलं भविष्यति। त्वं. "प्राप्य सुयोग्यो भविष्यसि, इति अस्माकमभिलाषा। अतः त्वया ............. स्वाध्ययने रुचिः विधेया। 
शेषं सर्वं कुशलम्। कुशलपत्रं शीघ्रं ............। 

भवतः शुभाकांक्षी 
.................

उत्तरम् : 

कोटानगरतः 
दिनाङ्काः 18-11-20XX 

चिरञ्जीवि विनोद! 
सस्नेहं शुभाशिषः। 
अत्र अहं कुशली, त्वामपि सदैव कुशलं कामये। तव पत्रं दिनद्वयपूर्वमेव प्राप्तम्। मन्ये, तव अध्ययनं सुचारु चलति, त्वं मम निर्देशानुसारं विद्यालये सर्वेषु कार्यक्रमेषु भागं गृहासि, सांस्कृतिकप्रवृत्तिषु सहयोगं करोषि। स्वाध्ययनेन सह त्वं प्रतिदिनं व्यायाममपि कुरु। नियमितं पठितविषयाणां स्मरणं गृहकार्यलेखनं पुनरावृत्तिं च यदि त्वं करिष्यसि तर्हि तव जीवनं सफलं भविष्यति। त्वं ज्ञानं प्राप्य सुयोग्यो भविष्यसि, इति अस्माकमभिलाषा। अतः त्वया पुनरपि स्वाध्ययने रुचिः विधेया। 
शेषं सर्वं कुशलम्। कुशलपत्रं शीघ्रं प्रेषणीयम्। 

भवतः शुभाकांक्षी 
चन्द्रेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 21. 
भवान् राजेशः दशमी कक्षायां पठति। भवतः मित्रं प्रति संस्कृते एक पत्रं लिखत, यस्मिन् भवतः विद्यालयस्य वार्षिकोत्सवस्य वर्णनं स्यात्। 
अथवा 
स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति अधोलिखितमपूर्ण पत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[प्रणामाः, परीक्षाभवनात्, शिक्षानिदेशकः, मया, वार्षिकोत्सवः, व्यस्ताः, अस्माकम, योग्येभ्यः, प्रियमित्रम्, मित्रम्] 

...........................
दिनाङ्काः 24-03-20XX 

प्रिय..........! 
.............. तव पत्रम् अधिगतम्। मया पत्रेण ज्ञातं यत् गतसप्ताहे विद्यालयस्य ........... आसीत्। त्वं सर्वे अध्यापकाः च ........... अतिष्ठन्। कार्यक्रमस्य मुख्यातिथिः .आसीत्। सः ............ कार्यक्रमस्य प्रशंसाम् अकरोत्। स ............... छात्रेभ्यः पुरस्कारान् प्रायच्छत्। 
पितृभ्यां सादर...........। 

भवतः ............... 
सजेशः 
कक्षा दशमी 

उत्तरम् : 

परीक्षाभवनात् 
दिनाङ्काः 24-03-20XX 

प्रिय मित्रम्! 
मया तव पत्रम् अधिगतम्। मया पत्रेण ज्ञातं यत् गतसप्ताहे विद्यालयस्य वार्षिकोत्सवः आसीत्। त्वं सर्वे अध्यापकाः च व्यस्ता: अतिष्ठन्। कार्यक्रमस्य मुख्यातिथि: शिक्षानिदेशकः आसीत्। सः युस्माकं कार्यक्रमस्य प्रशंसाम् अकरोत्। स योग यः छात्रेभ्यः पुरस्कारान् प्रायच्छत्। 
पितृभ्यां सादरं प्रणामाः। 

भवतः प्रियमित्रम् 
राजेशः 
कक्षा दशमी 

प्रश्न 22. 
भवान् जितेन्द्रः धौलपुरनगरे छात्रावासे निवसति। स्वस्य लघुभ्रातरं महेशं प्रति संस्कृते एक पत्रं लिखत, यस्मिन् गणितविषयस्य अध्ययनाय प्रेरणा स्यात्। 
अथवा 
लघुभ्रातरं प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[अनुज, पित्रोः, तव, प्राप्ताः, ह्यः, गणितविषये, त्वं, आशिषः, छात्रावासतः, शोभनः] 

धौलपुरतः 
...............
दिनाङ्का: 18-12-20XX

प्रिय.........महेश! 
सस्नेहम् ...........। 
............ अहं तव पत्रं प्राप्तवान्।..... परीक्षा-परिणाम: ........... अस्ति, परं .........भवता न्यूनाः अङ्का ......... इति सखेदं मया अधीतम्। ........ प्रतिदिनं प्रातःकाले उत्थाय गणितस्य अभ्यासं कुरु, गणिताध्यापकं च पुनः पुनः प्रश्नान् पृच्छ। अभ्यासेन एव सर्वाणि कार्याणि सिद्ध्यन्ति। 
............ चरणयोः सादरं प्रणामः। 

भवदीयः अग्रजः 
जितेन्द्रः 

उत्तरम् : 

धौलपुरतः 
छात्रावासतः 
दिनाङ्काः 18-12-20XX 

प्रिय अनुज महेश! 
सस्नेहम् आशिषः। 
ह्यः अहं तव पत्रं प्राप्तवान्। तव परीक्षा-परिणामः शोभन: अस्ति, परं गणितविषये भवता न्यूनाः अङ्काः प्राप्ताः इति सखेदं मया अधीतम्। त्वं प्रतिदिनं प्रातःकाले उत्थाय गणितस्य अभ्यासं कुरु, गणिताध्यापकं च पुनः पुनः प्रश्नान् पृच्छ। अभ्यासेन एव सर्वाणि कार्याणि सिद्धयन्ति। 
पित्रोः चरणयोः सादरं प्रणामः। 

भवदीयः अग्रजः 
जितेन्द्रः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 23. 
भवान् गोपाल: कोटानगरे निवसति। स्वमित्रं दिवाकर प्रति संस्कृते एक पत्रं लिखत, यस्मिन् जन्तुशालायाः अवलोकनस्य वर्णनं स्यात्। 
अथवा 
मित्रं प्रति लिखितं निम्नलिखितं पत्रम् मञ्जूषायां प्रदत्तैः उचितैः शब्दैः पूरयत
[विना, तत्र, अभिन्नमित्रम्, वयम्, सस्नेहं, प्रियः, ह्यः, मग्नाः, अपि, सर्वेभ्यः] 

कोटातः 
दिनाङ्काः 18-03-20XX 

..........मित्रं दिवाकर! 
....... नमस्ते। 

........... अहं मित्रैः सह जन्तुशालां द्रष्टुं काननवनम् अगच्छम्। तत्र ........... अनेकान् पशून् अपश्याम। सर्वे पशव: इतस्ततः भ्रमन्ति स्म। सिंहाः उच्चैः अगर्जन्। मयूराः नृत्य...आसन्। वस्तुतः मयूर... कुत्र जन्तुशालायाः भव्यशोभा? तत्र आम्रवृक्षाः अपि आसन्, कोकिला ........... आसन्।
वस्तुतः यत्र आम्रवृक्षाः. कोकिला तु भविष्यति एव। अग्रे पुन: लेखिष्यामि। ............ मम नमस्कार कथनीयः। 
भवदीयम् ..........
गोपालः 
उत्तरम् : 

कोटातः 
दिनाङ्काः 18-03-20XX 

प्रियः मित्रं दिवाकर! 
सस्नेहं नमस्ते। 
ह्यः अहं मित्रैः सह जन्तुशालां द्रष्टुं काननवनम् अगच्छम्। तत्र वयम् अनेकान् पशून् अपश्याम। सर्वे पशवः इतस्ततः भ्रमन्ति स्म। सिंहाः उच्चैः अगर्जन्। मयूराः नृत्ये मग्नाः आसन्। वस्तुतः मयूरं विना कुत्र जन्तुशालायाः भव्यशोभा? तत्र आम्रवृक्षाः अपि आसन, कोकिला अपि आसन। 
वस्तुतः यत्र आम्रवृक्षाः तत्र कोकिला तु भविष्यति एव। अग्रे पुनः लेखिष्यामि। सर्वेभ्यः मम नमस्कारः कथनीयः। 

भवदीयम् अभिन्नमित्रम् 
गोपालः 

प्रश्न 24. 
भवान् महेन्द्रः जोधपुरनगरे निवसति। स्वमित्रं माधवं प्रति संस्कृते एक पत्रं लिखत, यस्मिन् भवतः क्रीडाप्रतियोगितायाः वर्णनं स्यात्। 
अथवा 
स्वं जोधपुरवास्तव्यः महेन्द्रः मत्वा स्वस्य क्रीडाप्रतियोगिताविषये स्वमित्रं माधवं प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[प्रणामाञ्जलिः, जोधपुरनगरात्, स्थापितम्, अर्धवार्षिक-परीक्षा, रोचन्ते, माधव, गृहीतः, सस्नेह, मार्गदर्शनेन, अभिन्नमित्रम्।

.................. 
दिनाङ्का: 01-2-20XX 

प्रिय मित्रं ..............! 
............ नमस्ते। 

अत्रं कुशलं तत्रास्तुः। अहं विद्यालयस्य प्रतियोगितासु अतिव्यस्तः आसम्, अत: विलम्बेन पत्रं लिखामि। क्षम्यताम्। त्वं जानासि यत् धावनम् खेला: च मह्यं अति .........। मया अनेकासु प्रतियोगितासु भाग:....। 100 मी. धावनप्रतियोगितायां मया रजतपदकं, 400 मी. धावनप्रतियोगितायां च स्वर्णपदकं जितम्। 400 मी. धावनप्रतियोगितायां मया नवकीर्तिमानं......। 

इदानीं प्रतियोगिताः तु समाप्ताः। आगामिमासे एव... भविष्यति। स्वशिक्षकाणां ...."स्वपरिश्रमेण च अहं सर्वेषु विषयेषु उच्चाङ्कान् प्राप्स्यामि। तव पितृभ्याम् मम ........ निवेद्यते। 

तव................. 
महेन्द्रः

उत्तरम् :

जोधपुरनगरात् 
दिनाङ्काः 01-2-20XX 

प्रिय मित्रं माधव! 
सस्नेहं नमस्ते। 
अत्र कुशलं तत्रास्तु। अहं विद्यालयस्य प्रतियोगितासु अतिव्यस्तः आसम्, अतः विलम्बेन पत्रं लिखामि। क्षम्यताम्। त्वं जानासि यत् धावनम् खेला: च मह्यं अति रोचन्ते। मया अनेकासु प्रतियोगितासु भागः गृहीत। 100 मी. धावनप्रतियोगितायां मया रजतपदकं, 400 मी. धावनप्रतियोगितायां च स्वर्णपदकं जितम्। 400 मी. धावनप्रतियोगितायां मया नवकीर्तिमान स्थापितम्। 

इदानीं प्रतियोगिताः तु समाप्ताः। आगामिमासे एव अर्धवार्षिकी परीक्षा भविष्यति। स्वशिक्षकाणां मार्गदर्शनेन स्वपरिश्रमेण च अहं सर्वेषु विषयेषु उच्चाङ्कान् प्राप्स्यामि। तव पितृभ्याम् मम प्रणामाञ्जलिः निवेद्यते। 

तव अभिन्नमित्रम् 
महेन्द्रः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 25. 
भवान् आशीष: 115, योजनाविहारः, जयपुरे निवसति। स्वमित्रं सुमनं प्रति. संस्कृते एकं पत्रं लिखत, यस्मिन् भवतः विद्यालये नूतनविधिना आयोजितस्य वार्षिकोत्सवस्य वर्णनं स्यात्। 
अथवा 
भवतां नाम आशीषः। भवतां विद्यालये नूतनविधिना वार्षिकोत्सवः आयोजितः। तस्य वर्णनम् अधिकृत्य मित्रं सुमनं प्रति लिखिते पत्रे मञ्जूषातः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां पत्रं पुनः लिखत। 
[विकास, सस्नेह, वाटिकायाम्, विकासाय, आशीषः, निरक्षरबालकानाम्, वितीर्णवान्, चतुर्पु, जयपुरतः, प्रिय] 

115, योजनाविहारः
.................... 
दिनाङ्काः 16-02-20XX 

......... सुमन! 
.............. नमस्ते। 
ह्यः एव अस्माकं विद्यालये वार्षिकोत्सवसमारोह: सम्पन्न जातः। तस्मिन्नेव अहम् अत्यधिकं व्यस्तः आसम्। जानासि किम, अभतपर्वम एव आसीत तस्य आयोजनम। संक्षेपतः वर्णयामि। 
अस्माकं कक्षा .......... वर्गेषु विभक्ता। एकः वर्ग: समीपस्थेषु निर्धनानां कुटीरेषु गत्वा आवश्यकतानुसारम् अन्नं वस्त्रम् औषधिं च .............। द्वितीयः वर्गः मदीयः आसीत्। अस्माभिः समीपवर्तिषु श्रमिकाणाम् आवासेषु. ........ सूची निर्मिता, येन तेषां शिक्षाव्यवस्था भवेत्। तृतीयेन वर्गेण निश्शुल्कचिकित्साशिविरस्य... व्यवस्था कृता। चतुर्थेण वर्गेण विद्यालयस्य...वृक्षारोपणं कृतम्। एवं त्रिभिः दिवसैः समारोहः सम्पन्नः जातः। अनेन सेवाकार्येण सर्वेषां छात्राणां मनसि दिव्य-आनन्दस्य अनुभूतिः जाता। यदि सर्वे विद्यालयाः एवं कुर्वन्तु तर्हि अस्माकं देशस्य शीघ्रम् एव. ..'प्रगतिश्च भवेत्। 
पितृभ्याम् नमः। 

भवदीयः अभिन्नसुहृद् 
.....................

उत्तरम् :

115, योजनाविहारः 
जयपुरतः 
दिनाङ्काः 16-02-20XX 

प्रियः सुमन! 
सस्नेह नमस्ते। 
ह्यः एव अस्माकं विद्यालये वार्षिकोत्सवसमारोहः सम्पन्नः जातः। तस्मिन्नेव अहम् अत्यधिकं व्यस्तः आसम्। जानासि किम्, अभूतपूर्वम् एव आसीत् तस्य आयोजनम्। संक्षेपतः वर्णयामि। 
अस्माकं कक्षा चतुर्पु वर्गेषु विभक्ता। एकः वर्गः समीपस्थेषु निर्धनानां कुटीरेषु गत्वा आवश्यकतानुसारम् अन्नं वस्त्रम् औषधिं च वितीर्णवान्। द्वितीयः वर्गः मदीयः आसीत्। अस्माभिः समीपवर्तिषु श्रमिकाणाम् आवासेषु निरक्षरबालकानाम् सूची निर्मिता येन तेषां शिक्षाव्यवस्था भवेत्। तृतीयेन वर्गेण निश्शुल्कचिकित्साशिविरस्य वाटिकायाम् व्यवस्था कृता। चतुर्थेणवर्गेण विद्यालयस्य विकासाय वृक्षारोपणं कृतम्। एवं त्रिभिः दिवसैः समारोहः सम्पन्नः जातः। अनेन सेवाकार्येण सर्वेषां छात्राणां मनसि दिव्य-आनन्दस्य अनुभूतिः जाता। यदि सर्वे विद्यालयाः एवं कुर्वन्तु तर्हि अस्माकं देशस्य शीघ्रम् एव विकासः प्रगतिश्च भवेत्। 
पितृभ्याम् नमः। 

भवदीयः अभिन्नसुहृद् 
आशीषः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 26. 
भवत्याः नाम रमा। भवत्याः सखी कृष्णा संस्कृतं पठितुं भवत्याः परामर्श वाञ्छति। तां प्रेरयितुं . अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। वैज्ञानिकी, उदयपुरतः, प्रचारं, रमा, वाङ्मयम्, कृष्णे, भारतीयसंस्कृतेः, अग्रजेभ्यः, इति, पुराणानि। 

.................
दिनाङ्काः 20-08-20XX 

प्रिये.........! 
नमस्ते। 
भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति ........ पठित्वा मे प्रसन्नतायाः सीमा नास्ति। एषा भाषा सर्वाधिका.........। संस्कृतम् अस्माकं देशस्य प्रतिष्ठा। वेदाः, उपनिषदः, रामायण, महाभास्तं, ..........., महाकाव्यानि, कथासाहित्यम् इत्यादिकं सर्व..अत्यन्तं मार्गदर्शकं, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। .......... संस्कृतं पृथक् कर्तुं तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। संस्कृतेन सम्भाषणम अस्माकं हृदयेषु गौरवं वर्धयति, हीनभावनां च नाशयति। अतः त्वम् अवश्यं संस्कृतं पठ, पठित्वा च ............ कुरु। एवं वयम् भारतमातुः सेवां कृत्वा धन्याः भवामः। 
सर्वेभ्यः ............ मम प्रणामाः अनुजेभ्यः च आशीर्वादाः। 

भवत्याः प्रियसखी 
...................

उत्तरम् : 

उदयपुरतः 
दिनाङ्का: 20-08-20XX 

प्रिये कृष्णे! 
नमस्ते। 
भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति इति पठित्वा मे प्रसन्नतायाः सीमा नास्ति। एषा भाषा सर्वाधिका वैज्ञानिकी। संस्कृतम् अस्माकं देशस्य प्रतिष्ठा। वेदाः, उपनिषदः, रामायण, महाभारतं, पुराणानि, महाकाव्यानि, कथासाहित्यम् इत्यादिकं सर्वं वाङ्मयम् अत्यन्तं मार्गदर्शकं, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। . भारतीयसंस्कृते संस्कृतं पृथक् कर्तुं तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु गौरवं वर्धयति, हीनभावनां च नाशयति। अतः त्वम् अवश्यं संस्कृतं पठ, पठित्वा च प्रचारं कुरु। एवं वयम् भारतमातुः सेवां कृत्वा धन्याः भवामः। 

सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः।

भवत्याः प्रियसखी 
रमा 

प्रश्न 27. 
भवान् आशुतोषः। भवतः मित्रं शुभम् ऊन-एकोनविंशतिवर्षीयां क्रिकेटप्रतियोगितां विजित्य आगतः। स्वानुभवान् वर्णयन् भवान् स्वपितरं प्रति पत्रं लिखति। तस्मिन् पत्रे विद्यमानानि रिक्तस्थानानि मञ्जूषापदसहायतया पूरयित्वा पुनः लिखतु। प्रतियोगिताः, वंशवदः, पितृचरणाः, प्रार्थये, प्रणामाः, परितोषम्, विजयी, समाचारः, शुभम्, कुशलिनः। 

प्रतिभा-विकास-विद्यालयः, 
जयपुरतः   
दिनाङ्काः 28-11-20XX 

प्रातः स्मरणीया:.....। 
सादरं ..........। 
अत्र सर्वं कुशलम्। तत्रापि सर्वे... सन्तु इति श्रीपतिं 'विष्णुं ..........। आनन्दप्रदः...अस्ति यद् मम मित्रम् ......... ऊन-एकोनविंशतिवर्षीयां क्रिकेटप्रतियोगितां ....... भूत्वा प्रतिनिवृत्तः। अतः अहं महान्त..... अनुभवामि। 
आशासे यत् स भूयो भूयः अनेकाः ..... विजेष्यते। भवनापि तस्मै वर्धायनपत्रं लिखतु। . 
मातृचरणयोः साभिवादनं प्रणामाः, राधिकायै शुभाशिषः। 

भवता. ........... 
आशुतोषः 

उत्तरम :

प्रतिभा-विकास-विद्यालयः, 
जयपुरतः 
दिनाङ्का: 28-11-20XX 

प्रातः स्मरणीयाः पितचरणाः। 
सादरं प्रणामाः। 
अत्र सर्वं कुशलम्। तत्रापि सर्वे कुशलिनः सन्तु इति श्रीपतिं 'विष्णु' प्रार्थये। आनन्दप्रदः समाचारः अस्ति यद् मम मित्रम् शुभम् ऊन-एकोनविंशतिवर्षीयां क्रिकेटप्रतियोगितां विजयी भूत्वा प्रतिनिवृत्तः। अतः अहं महान्तं परितोषम् अनुभवामि। आशासे यत् स भूयो भूयः अनेकाः प्रतियोगिताः विजेष्यते। भवानपि तस्मै वर्धायनपत्रं लिखतु। 
मातृचरणयोः साभिवादनं प्रणामाः, राधिकायै शुभाशिषः। 

भवतां वंशवदः 
आशुतोषः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 28. 
भवान् सोमेशः। भवतः ज्येष्ठा भगिनी रमा जयपुरे छात्रावासे निवसति। रक्षाबन्धनपर्वणि भवतां विद्यालये संस्कृतदिवसस्य भव्यम् आयोजनम् अस्ति। तदर्थं तां निमन्त्रयितुं लिखिते पत्रे मञ्जूषापदसाहाय्येन रिक्तस्थानपूर्ति कृत्वा पत्रं पुनः लिखत। 
[चारुदत्तमिति, चारुदत्तस्य, स्नेहपात्रम्, भगिनि!, उत्साहवर्धनम्, तत्रास्तु, अभिवादनम्, प्रतिवर्षम्, जानाति, प्रसन्नचित्ता] 

115, शालीमारबागः, 
जोधपुरतः 
दिनाङ्काः 16-08-20XX 

पूज्ये.....! 
सस्नेहं.. ..। 
अत्र कुशलं........। मन्ये भवती सर्वथा स्वस्था ............ च भविष्यति। भवती ......... एव यत् श्रावणमासस्य पूर्णिमायां रक्षाबन्धनपर्वणि अस्माकं विद्यालये........ संस्कृतदिवसस्य आयोजनं भवति। अस्मिन् वर्षे...... नाटकस्य मञ्चनं भविष्यति। अहं तत्र ........ अभिनयं करिष्यामि। भवत्याः आगमनेन 'रक्षाबन्धन' इति पर्वणः अपि आयोजनं भविष्यति, विद्यालये भवत्याः उपस्थित्या मम .......... अपि भविष्यति। 

भवत्याः ............. 
सोमेशः 

उत्तरम् : 

115, शालीमारबागः, 
जोधपुरतः 
दिनाङ्काः 16-08-20XX 

पूज्ये भगिनि! . 
सस्नेहं अभिवादनम्। 
अत्र कुशलं तत्रास्तु। मन्ये भवती सर्वथा स्वस्था प्रसन्नचित्ता च भविष्यति। भवती जानाति एव यत् श्रावणमासस्य पूर्णिमायां रक्षाबन्धनपर्वणि अस्माकं विद्यालये प्रतिवर्ष संस्कृतदिवसस्य आयोजनं भवति। अस्मिन् वर्षे चारुदत्तमिति नाटकस्य मञ्चनं भविष्यति। अहं तत्र चारुदत्तस्य अभिनयं करिष्यामि। भवत्याः आगमनेन 'रक्षाबन्धन' इति पर्वणः अपि आयोजनं भविष्यति, विद्यालये भवत्याः उपस्थित्या मम उत्साहवर्धनम् अपि भविष्यति।

भवत्याः स्नेहपात्रम् 
सोमेशः 

प्रश्न 29. 
भवतः नाम सक्षमः छात्रावासे भवान् वसति। अजन्ता-अलोरा-गुहादर्शनार्थं शैक्षिकयात्रायै गन्तुम् इच्छति। धनप्रेषणार्थ पितरं प्रति लिखितं पत्रं मञ्जूषायां प्रदतैः उचितशब्दैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत। 
[सक्षमः, निवेदयामि, प्रियपुत्रः, शैक्षिकयात्रायाः, पञ्चशतम्, जयपुरतः, शरदवकाशे, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः] 

22, रंगनाथन् छात्रावासः 
............... 
दिनाङ्काः 22-09-20XX 

परमादरणीयाः ................ 
सादरं प्रणमामि। 
सविनय ....... यत् मम त्रैमासिकी परीक्षा समाप्तिं गता। मम ......... शोभनानि अभवन्। अस्मिन् ........... अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः ...प्रबन्धः कृतः। एषा अजन्ता अलोरागुहानां दर्शनाय आयोजिता अस्ति। ............ यात्राव्ययार्थं ........... रूप्यकाणि प्रेषयन्तु भवन्तः। 
शेषं सर्वं कुशलम्। मम... अग्रजाय च सादरं प्रणामाः।

भवदीयः ..............
....................

उत्तरम् :

22, रंगनाथन् छात्रावासः 
जयपुरतः 
दिनाङ्काः 22-09-20XX 

परमादरणीयाः पितृमहाभागाः, 
सादरं प्रणमामि। 
सविनयं निवेदयामि यत् मम त्रैमासिकी परीक्षा समाप्तिं गता। मम उत्तरपत्राणि शोभनानि अभवन्। अस्मिन् शरदवकाशे अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः शैक्षिकयात्रायाः प्रबन्धः कृतः। एषा अजन्ता अलोरागुहानां दर्शनाय आयोजिता अस्ति। यात्राव्ययार्थं पञ्चशतम् रूप्यकाणि प्रेषयन्तु भवन्तः। 
शेषं सर्वं कुशलम्। मम जनन्यै अग्रजाय च सादरं प्रणामाः। 

भवदीयः प्रियपुत्रः 
सक्षमः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 30. 
भवती प्रेरणा। भवती छात्रावासे पठति। भवत्याः अनुजभ्राता नवमकक्षायां संस्कृतं पठितुं न इच्छति तं प्रेरयितुम् अधोलिखितमपूर्ण पत्रं मञ्जूषायां प्रदत्तप्रदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत। 
[प्रेरणाप्रदम्, उन्मीलितं, संस्कृतभाषायाः, प्रेरणा, कोटातः, शुभाशिषः, भवतः, कृत्वा, अनुज, निवेद्यन्ताम्]

लक्ष्मीबाई छात्रावासः, 
नवोदयविद्यालयः,
.................. 
दिनाङ्काः 15-9-20XX 

प्रिय............, 
.............।
भवान् ‘अष्टमकक्षायां नवतिप्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः जातः इति...... पत्रात् ज्ञात्वा अहमतीव प्रसन्ना अस्मि। शतशः वर्धापनानि। मया इदमपि ज्ञातं यत् भवान् नवमीकक्षायां संस्कृतविषयं स्वीकर्तुं न इच्छति। प्रियवत्स!..... "ज्ञानं विना अस्माकं जीवनमेव अपूर्णं भवति। अस्माकं संस्कृतसाहित्यं तु सम्पूर्ण-विश्वाय......अस्ति। 
तत्कथं भवान् तस्मात् अपूर्वज्ञानात् वञ्चितः भवितुम् इच्छति। मम तु ज्ञानचक्षुः एव अनेन..'जातम्। 
आशासे यद् भवान् नवमकक्षातः एव स्वज्ञानवर्द्धन...... भविष्यति। अन्यान् अपि प्रेरयिष्यति मातृपितृचरणयोः मे प्रणामा::............। 

इति भवतः अग्रजा, 
..................

उत्तरम् :

लक्ष्मीबाई छात्रावासः, 
नवोदयविद्यालयः, 
कोटातः
दिनाङ्काः 15-9-20XX 

प्रिय अनुज, 
शुभाशिषः। 
भवान् अष्टमकक्षायां नवतिप्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः जातः इति भवतः पत्रात् ज्ञात्वा अहमतीव प्रसन्ना अस्मि। शतशः वर्धापनानि। मया इदमपि ज्ञातं यत् भवान् नवमीकक्षायां संस्कृतविषयं स्वीकर्तुं न इच्छति। प्रियवत्स! संस्कृतभाषायाः ज्ञानं विना अस्माकं जीवनमेव अपूर्णं भवति। अस्माकं संस्कृतसाहित्यं तु सम्पूर्ण-विश्वाय प्रेरणाप्रदम् अस्ति। तत्कथं भवान् तस्मात् अपूर्वज्ञानात् वञ्चितः भवितुम् इच्छति। मम तु ज्ञानचक्षुः एव अनेन उन्मीलितं जातम्। आशासे यद् भवान् नवमकक्षातः एव स्वज्ञानवर्द्धनं कृत्वा भविष्यति। अन्यान् अपि प्रेरयिष्यति मातृपितृचरणयोः मे प्रणामाः निवेद्यन्ताम्। 

इति भवतः अग्रजा, 
प्रेरणा 

प्रश्न 31. 
भवान् अनिल: छात्रावासे पठति। भवतः विद्यालये वार्षिकः क्रीडादिवसः अभवत्। एनं विषयम् अधिकृत्य मित्रं यादवं प्रति पत्रं लेखितुम् इच्छति। मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत। 
[क्रीडानायकः, सर्वोत्तमः, आनन्ददायकं, सस्नेहं नमो नमः, महती निष्ठा, कुशलं,। उल्लङ्घन-प्रतियोगितासु, आनन्दसागरे, वार्षिकक्रीडादिवसः, आशीर्वादः] 

छात्रावासात् 
गुरुकृपा विद्यापीठः 
जयपुरम् 
तिथिः ............ 

प्रिय वयस्य यादव! 
(i) ................। अत्र सर्व (ii) ................. तत्राप्यस्तु। अहं भवते एनम् (iii) ................. विषयं सूचयितुं पत्रमिदं लिखामि। गतबधवासरे अस्माकं विद्यालयस्य (iv)............... अभवत। भवान सम्यक जानाति यत धावने उल्लङ्गने च मम (v)............... भवति इति। अस्मिन् वर्षेऽपि अहं सर्वासु धावनप्रतियोगितासु तथैव (vi).................."च भागं स्वीकृतवान्। ईश्वरस्य कृपया पित्रोः शुभचिन्तकानां च (vii)................."100 मीटर्स, 200 मीटर्स, 400 मीटर्स् धावने तथैव विस्तीर्ण-उल्लङ्घने च सुवर्णपदकानि जितवान्। वरिष्ठः (viii)..............."सचिनतेंदुलकरः मुख्यातिथि: आसीत्। तस्य हस्ताभ्यां पदकानि स्वीकृत्य (ix)................."मग्नः अभवम्। अयं विजयः मम जीवनस्य (x)................."विजयः। सर्वेभ्यः मम कुशलवार्ताः निवेशः। 

भवतः प्रियं मित्रं 
अनिलः 

उत्तराणि :
(i) सस्नेहं नमो नमः 
(i) कुशलं 
(iii) आनन्ददायकम् 
(iv) वार्षिकक्रीडादिवसः 
(v) महती निष्ठा 
(vi) उल्लङ्घन-प्रतियोगितासु 
(vii) आशीर्वादैः 
(viii) क्रीडानायकः
(ix) आनन्दसागरे 
(x) सर्वोत्तमः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 32. 
सौम्यः दिल्लीनगरे वसति। तस्य मित्रं सुमतिः जयपुरे वसति। सौम्येन गणतंत्रदिवसस्य शोभायात्रायां भागः गृहीतः। सः स्वानुभवान् स्वमित्रं सुमतिं प्रति पत्रे लिखति। मञ्जूषातः पदानि विचित्य पत्रं पूरयन्तु। 
[गृहीतः, पितरौ, स्वकलायाः, मम, राजपथम्, सुमते!, लोकनृत्यानि, गणतंत्रदिवससमारोहस्य, विलम्बेन, प्रमुख-संचालकः] 

ए-14 वसन्तविहारः 
नवदिल्लीतः 
तिथिः ...................... 

प्रियमित्रम् (i) .............. 
नमस्ते। 
अत्र कुशलं तत्रास्तु। अहं (ii)............... सञ्जायां व्यस्तः आसम्। अतः (iii)............. तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतंत्रदिवसस्य शोभायात्रायां भागः (iv)::..............। अस्माकं विद्यालयस्य वाद्यवृन्दम् राजपथे (v).................. प्रदर्शनम् अकरोत्। अहं गरबानृत्यस्य (vi)................. आसम्। छात्राणां गानस्य ओजस्वी ध्वनिः (vii)............. गुञ्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि, परिदृश्यानि (viii)..............च दृष्टवा अहं गौरवान्वितः अस्मि। (ix)............... बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (x).................वन्दनीयौ। 

भवतां सुहृद् 
सौम्यः 

उत्तराणि :
(i) सुमते! 
(ii) गणतंत्रदिवससमारोहस्य 
(iii) विलम्बन 
(iv) गृहीतः 
(v) स्वकलायाः 
(vi) प्रमुख-संचालकः 
(vii) राजपथम् 
(viii) लोकनृत्यानि 
(ix) मम 
(x) पितरौ 

नोट - दिए गए उत्तरों को रिक्त-स्थानों में क्रमश: भरकर परीक्षा में पूर्ण पत्र ही लिखना चाहिए। 

प्रश्न 33.
भवान् प्रणवः। स्वमित्रं सौरभं प्रति पशुपक्षिभिः सह क्रूरव्यवहारात् निषेधयितुं लिखितं पत्र मञ्जूषायां प्रदत्तपदैः पूरयत। 
[शोभाम्, प्रकृती, सौरभ!, जीवनाधिकारः, कथनम्, सर्वेभ्यः, प्रतिस्पर्धायाम्, पशुपक्षिभिः, ज्ञात्वा, प्रणवः] 

जयपुरतः 
तिथि: ..........

प्रियमित्रं (i) ............ 
सस्नेह नमस्ते। 
त्वया लिखितं पत्रम् इदानीमेव मया प्राप्तम्। एतत् (ii) ............ अहम् अतीव प्रसन्नः यत् त्वया वार्षिकाक्रीडा समारोहे शूटिंग (iii) ........... प्रथमस्थानम् प्राप्तम्। मम हार्दिकम् वर्धापनं स्वीकरोतु परं सार्धमेव मम एकं निवेदनं अप्यस्ति यत् स्वाभिरुचैः पूरणार्थं वराकेभ्यः निर्बलेभ्यः पशुपक्षिभ्यः (iv) .......... तु नैव हर्तव्यः। क्षणं विचारय। मित्र! यत् एतैः (v) .......... कः अपराधः कृतः? एते तु सर्वदैव प्रकृतेः (vi) .......... वर्धयन्ति। यदि सर्वे एव स्वाभिरुचिं पूरयितुम् एतेषां वधं करिष्यन्ति, तर्हि एते तु (vii) ............ दुर्लभाः भविष्यन्ति। अतः कृपया मम (viii) .......... अन्यथा न ग्राह्यम् अपितु अस्मिन् विषये चिन्तनीयम्। गृहे (ix) ............. यथायोग्यम् अभिवादनम्। तव अभिन्नमित्रम्। 
उत्तराणि :
(i) सौरभ! 
(ii) ज्ञात्वा 
(iii) प्रतिस्पर्धायाम् 
(iv) जीवनाधिकारः 
(v) पशुपक्षिभिः 
(vi) शोभाम् 
(vii) प्रकृतौ 
(viii)कथनम् 
(ix) सर्वेभ्यः 
(x) प्रणवः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 34. 
भवान् ऋत्विक भरतपुर-नगरे वसति। स्वमित्रं प्रति जलसंरक्षणविषये वर्णयन लिखिते अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[कर्त्तव्यः, संरक्षणार्थ, समस्तकार्येषु, अवधानम्, विचारितम्, समाचारपत्रेषु, ऋत्विकः, सस्नेह, भरतपुरतः, 'जलमेव जीवनम्'] 
(i) ................... 
दिनाङ्कः ................ 
प्रिय मित्र देवांश! 
(ii) .......... नमो नमः। 
अत्र सर्वं कुशलम्। तत्रापि कुशलं कामये। अयि मित्र! अस्मिन् ग्रीष्मे जलाभावे हाहाकारं कुर्वताम् जनानाम् चित्राणि (iii) ........... अनेकशः प्रकाशितानि। इदं सर्वं दृष्ट्वा मया (iv) ............ यत् केवलं सर्वकारस्य प्रयत्नैः एव समस्यायाः समाधानं न भविष्यति। (v) ................ इति उक्तिः तु सर्वत्र श्रूयते परं जीवनरक्षकजलस्य (vi) .............. प्रयत्नं कोऽपि न करोति। जलस्य उपयोगसमये सर्वैः एव (vii) ............... दातव्यम्। कदापि अवकरः नदीषु न क्षेपणीयः दन्त-धावन-अवसरे नलिकायाः स्थगनम् अवश्यम् कर्तव्यम्। स्नानकाले धारापातस्य उपयोगं परित्यज्य द्रोण्याः प्रयोगः (viii) ............ । एवमेव गृहे सम्मार्जनक्रियासु, वस्त्रप्रक्षालनसमये तथा च अन्येषु (ix) ............. जलसंरक्षणविषये अवश्यं चिन्तनीयम्। जलस्य तु बिन्दुः अपि अमूल्यः। 
आशासे त्वमपि स्वगृहे जलप्रयोगसमये तस्य संरक्षणं मनसि निधाय अवधानम् दास्यसि अन्यान् च एवं कर्तुं प्रेरयिष्यसि। 
मातृपितृचरणेषु मम प्रणामः। अनुजाय स्नेहराशिः। 
भवतः अभिन्नमित्रम् 
(x) .................... 
उत्तराणि-
(i) भरतपुरतः 
(ii) सस्नेहम् 
(iii) समाचारपत्रेषु 
(iv) विचारितम्। 
(v) 'जलमेव जीवनम्' 
(vi) संरक्षणार्थम् 
(vii) अवधानम् 
(viii) कर्त्तव्यः। 
(ix) समस्तकार्येषु 
(x) ऋत्विकः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 35. 
भवान् आशीषः। भवतां विद्यालये नूतनविधिना वार्षिकोत्सवः आयोजितः। तस्य वर्णनम् अधिकृत्य मित्रं विशालं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[जोधपुरतः, दिव्यानन्दस्य, विकासः, निरक्षरबालकानाम्, संप्रेम, वितीर्णवान्, सम्पन्नः, वृक्षारोपणम्, वार्षिकोत्सवसमारोहः, अभिन्नसुहृद् 105 योजनाविहारः (i) ........... 
तिथिः ......... 
प्रिय विशाल! 
(ii) ........... नमस्ते। 
ह्यः एव अस्माकं विद्यालये (iii) ............. सम्पन्नः जातः। तस्मिन्नेव अहम् अत्यधिकं व्यस्तः आसम्। जानासि किम् अभूतपूर्वम् एव आसीत् तस्य? संक्षेपतः वर्णयामि। अस्माकं कक्षा चतुर्पु वर्गेषु विभक्ता। कुटीरेषु गत्वा आवश्यकतानुसारम् अन्नम् वस्त्रम् औषधिं च (iv) ............ द्वितीयः वर्गः मदीयः आसीत्। अस्माभिः समीपवर्तिषु श्रमिकाणाम् आवासेषु (v) ........... सूची निर्मिता येन तेषां शिक्षाव्यवस्था भवेत्। तृतीयेन वर्गेण (vi) ........... कृतम्। एवं त्रिभिः दिवसैः समारोहः (vii) ........... जातः। अनेन सेवाकार्येण सर्वेषां छात्राणां मनसि (viii) ........... अनुभूतिः जाता। यदि सर्वे विद्यालयाः एवं कुर्वन्तु तर्हि अस्माकं देशस्य शीघ्रम् एव (ix) ....... प्रगतिश्च भवेताम्। 
पितृभ्याम् नमः। 
तव (x) ............... 
आशीषः 
उत्तराणि:
(i) जोधपुरतः
(ii) सप्रेम 
(iii) वार्षिकोत्सवसमारोह: 
(iv) वितीर्णवान् 
(v) निरक्षरबालकानाम् 
(vi) वृक्षारोपणम् 
(vii) सम्पन्नः 
(viii) दिव्यानन्दस्य 
(ix) विकासः 
(x) अभिन्नसुहृद् 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 36. 
भवती रमा छात्रावासे वसति। भवत्याः मित्रस्य जन्मदिवस-उत्सवे भवत्या गमनस्य अनुमति याचमानया मातरं प्रति लिखिते पत्रे मञ्जूषायां प्रदत्तानि पदानि चित्वा रिक्तस्थानानि पूरयित्वा पुनः लिखत। 
[कृपया, दातुम्, अहमपि, मातः, निमन्त्रिता, शुभकामनाः, आनन्दम्, अवसरे, अनुमतिम्, पुत्री] 
लक्ष्मीबाई-छात्रावासः 
सीकरतः 
तिथिः .................... 
परमपूज्ये (i) .........! 
सादरं प्रणामः। 
अद्यैव मया भवदीयं पत्रं प्राप्तम्। आशासे सर्वं कुशलमस्तु। अत्र छात्रावासे सर्वं मंगलम्। मातः! पञ्चदश दिनेभ्यः अनन्तरम् मम मित्रस्य जन्मदिवसोत्सवे अहम् (ii) ........... अस्मि। अहम् उत्सवस्य (iii) ........ प्राप्तुमिच्छामि। अस्मिन् (iv) .......... केककृन्तनस्य आधुनिक रीतिं विहाय यज्ञ-होमादिक-गतिविधयः सम्पन्नाः भविष्यन्ति। पुरोहितमहोदयः आगन्तुकाश्च आशीर्वचसा तस्मै (v) ........ प्रदास्यन्ति। (vi) ...... अस्मिन् उत्सवे गत्वा प्रियमित्राय शुभकामनाः (vii) ......... इच्छामि। एतदर्थं भवत्याः (viii) .......... याचे। (ix) ........ अनुजानातु। पितृचरणयोः सादरं वन्दनम्। भवत्याः (x) ......... रमा 
उत्तराणि : 
(i) मातः 
(ii) निमन्त्रिता 
(iii) आनन्दम् 
(iv) अवसरे 
(v) शुभकामनाः 
(vi) अहमपि 
(vii) दातुम् 
(viii)अनुमतिम् 
(ix) कृपया 
(x) पुत्री 

प्रश्न 37. 
भवान् सुधांशुशेखरः। भवतः मित्रं दिवाकरः छात्रावासे निवसति। पर्वतयावानिमन्त्रण-विषयके मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[प्रतीक्षाम्, शिक्षाप्रदः, आरभ्य, भवदीयम्, अस्माकम्, नमो नमः, अनुमोदनम्, उत्सुकतया, भवदीयसंगतिम्, पर्वतीयभ्रमणम्] 
वसन्तविहारम् 
ब्यावरतः 
दिनाङ्कः ........... 
प्रियमित्र दिवाकर! 
सप्रेम (i) ........... । 
अत्र कुशलं तत्रास्तु। मार्चमासस्य पञ्चदशतिथौ (ii) ....... परीक्षा समाप्ता भविष्यति। तदनन्तरम् मार्च मासस्य विंशतिदिनाङ कात (iii).................... पञ्चविंशतिदिनाङ कं यावत पञ्चदिनपरिमितम (iv) .......... अस्माकं मित्रः आयोजितम्। अयं (v) ........... कार्यक्रमः अतीव रुचिकरः आनन्ददायकः भविष्यति। अस्मिन् अवसरे वयं सर्वे (vi) ........... अपि कामयामहे। आशासे भवान् यस्य प्रस्तावस्य (vii) ......... अवश्यमेव करिष्यति। अहम् अतीव (viii) ..... भवदायपत्रस्य (ix) .......... करिष्यामि। (x) .............. मित्रम् सुधांशुशेखरः 
उत्तराणि :
(i) नमो नमः 
(ii) अस्माकम् 
(iii) आरभ्य 
(iv) पर्वतीयभ्रमणम् 
(v) शिक्षाप्रदः 
(vi) भवदीयसंगतिम् 
(vii) अनुमोदनम् 
(viii) उत्सुकतया
(ix) प्रतीक्षाम् 
(x) भवदीयम् 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 38. 
भवान् सुधांशुशेखरः। भवतः अनुजस्य हिमांशुशेखरस्य संस्कृतभाषायां रुचिः वर्तते। तं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
निवेदनम्, हिमांशुशेखर!, संस्कृतभाषायाः, शब्दकोषः, अग्रजः, अभिरुचिम्, वैभवम्, पत्रम्, भाषाणाम्, महत्त्वम् | राजनगरम् बीकानेरतः दिनांकः.......... प्रिय अनुजः (i) ....... सस्नेहं शुभाशिषः। अत्र कुशलम् तत्रास्तु। अद्य मया तव (ii) .............. अधिगतम्। संस्कृतविषये तव (iii) ........... ज्ञात्वा प्रसन्नः जातः। संस्कृतभाषा सर्वासां (iv) ......... जननी अस्ति। पाणिनेः व्याकरणस्य उपयोगः संगणकयन्त्रे अपि अस्ति। अस्याः विशालः (v) .......... अद्वितीयः अस्ति। समृद्ध-संस्कृतसाहित्यस्य (vi). अभूतपूर्वम् अस्ति। अधुना पाश्चात्य-विद्वांसः अपि संस्कृतभाषायाः . (vii). स्वीकुर्वन्ति। मनोयोगेन त्वं (viii) ............ अध्ययनम् कुरु इति मे। (ix).......... तव (x) ............ सुधांशुशेखरः 
उत्तराणि :
(i) हिमांशुशेखर! 
(ii) पत्रम् 
(iii) अभिरुचिम् 
(iv) भाषाणाम् 
(v) शब्दकोषः 
(vi) वैभवम् 
(vii) महत्त्व म् 
(viii)संस्कृतभाषायाः 
(ix) निवेदनम् 
(x) अग्रजः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 39. 
विद्यालयस्य खेलसमारोहस्य वर्णनं कुर्वन् मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां पत्रं पुनः लिखत। 
[पितृभ्यां, प्रियमित्र, अकरोत्, भारोत्तोलने, मुख्यातिथिः, नमो नमः, तत्रापि, अभवन्, सर्वाधिकानि, क्रीडासमारोहः] 
उदयपुरतः 
दिनाङ्कः ...............
(i) ............... दिवाकर! 
सप्रेम (ii) ........... । 
अत्र सर्वं कुशलम्। (iii) ............ कुशलं कामये। गतसप्ताहे मम विद्यालये (iv) ............. अभवत्। विद्यालयस्य क्रीडाक्षेत्रे विविध-खेलानां प्रतियोगिताः (v) .............। अहं (vi) ........ प्रथमः आसम्। सर्वेषु विद्यालयेषु अस्माकं विद्यालयः (vii) ........... पारितोषिकाणि प्राप्तवान्। प्रदेशस्य शिक्षामन्त्री अस्माकं (viii) ............ आसीत्। स एव पारितोषिक-वितरणम् (ix) ............ भवान् अपि स्वविद्यालयस्य क्रीडा विषयक-गतिविधीनां वर्णनं स्वपत्रे लिखतु। भवतः (x)  .......... नमः। 
तव अभिन्नहृदयम् 
अभिषेकः 
उत्तराणि :
(i) प्रियमित्र 
(ii) नमो नमः 
(iii) तत्रापि 
(iv) क्रीडासमारोहः 
(v) अभवन् 
(vi) भारोत्तोलने 
(vii) सर्वाधिकानि 
(viii) मुख्यातिथि: 
(ix) अकरोत् 
(x) पितृभ्यां 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 40. 
भवान् नितिनः। मुम्बईदर्शनार्थम् अगच्छत्। पितरं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः उचितपदैः पूरयिता पुनः लिखत। 
[तत्रागत्य, स्पृश्यते, गमिष्यामः, जनन्यै, प्राप्तवन्तः, पितृमहाभागाः, पर्वतस्थलम्, नौकाः, दृश्यते, दृष्टम्] 
मुम्बईतः 
दिनाङ्कः ............... 
परमादरणीयाः (i) ..........! 
नमो नमः। 
वयं ह्यः वाष्पयानेन मुम्बईनगरं (ii) .............। समुद्रतटम् अपि मया प्रथमवारं (iii) .........। सागरस्य वीचिभिः पुनः पुनः आगत्य तटं (iv) .........। सर्वत्र जलमेव (v) .............। जले तरन्तः पोताः (vi) ....... च क्रीडनकानि इव प्रतीयन्ते। 
पार्श्वः वयं महाबलेश्वरं (vii) ............। इदं मुम्बई-नगरस्य (viii) ........... वर्तते। अस्माकं अध्यापकाः अति स्नेहशीलाः सन्ति। स्वानुभवान् (ix) .......... एव श्रावयिष्यामि। (x) ........  ..अग्रजाय च सादरं प्रणामाः
तव पुत्रः 
नितिनः 
उत्तराणि :
(i) पितृमहाभागाः 
(ii) प्राप्तवन्तः 
(iii) दृष्टम् 
(iv) स्पृश्यते 
(v) दृश्यते 
(vi) नौकाः 
(vii) गमिष्यामः 
(viii) पर्वतस्थलम् 
(ix) तत्रागत्य 
(x) जनन्यै 

प्रश्न 41. 
भवान् उदयपुर स्थितः हर्षितः। भवतः मित्रं कार्तिकः जयपुरे वसति। तेन चित्रकलाप्रतियोगितायां प्रथमं स्थान प्राप्तम्। तं प्रति लिखिते वर्धापनपत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
प्राप्तम्, अनवरतपरिश्रमस्य, अध्यापिकाः, निवेदनीयाः, प्रथमम्, 
नमो नमः, ज्ञात्वा, चित्रकलायाम्, स्वीकरोतु, कामना वसन्तविहारः उदयपुरतः दिनाङ्कः ...... प्रिय मित्र! 
सस्नेहं (i) ............ अत्र कुशलं तत्रास्तु। मया ह्यः एव तव पत्रं (ii) ........  त्वया चित्रकलाप्रतियोगितायां (iii) ........ स्थानं प्राप्तम् इति (iv) ......."अहं प्रसन्नः अस्मि। मम परिवारपक्षतः वर्धापनं (v).......... . शैशवात् एव (vi) ................. तव रुचिः अस्ति। स्वकक्षायां त्वमेव सर्वश्रेष्ठ-चित्रकारः असि। सर्वे अध्यापकाः सर्वाः (vii). तव प्रशंसां कुर्वन्ति। एतत् सर्वं तव (viii) ............... फलम् अस्ति। भविष्येऽपि ईदृशीं सफलताम् 
आप्नोतु इयमेव मम (ix) ......... स्वमातृपितृचरणेषु मम प्रणामाः (x) ..............। अनुजायै च स्नेहराशिः। तव अभिन्नं मित्रम्, हर्षितः 
उत्तराणि :
(i) नमो नमः 
(i) प्राप्तम् 
(iii) प्रथमम् 
(iv) ज्ञात्वा 
(v) स्वीकरोतु 
(vi) चित्रकलायाम् 
(vii) अध्यापिकाः 
(viii)अनवरतपरिश्रमस्य
(ix) कामना 
(x) निवेदनीयाः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 42. 
भवान् रोहितः। पित्रे मातृस्वास्थ्यविषयकं लिखितमिदं पत्रम् मञ्जूषायां दत्तैः उचितपदैः पूरयत। 
[रोहितः, कासेन, सर्वेभ्यः, भवताम्, आगन्तुम्, शुभम्, कुशलम्, मम, इच्छामि, पितृमहाभागाः] 
नवोदय-विद्यालय-छात्रावासः
बाँसवाड़ानगरतः 
तिथिः .............। 
आदरणीयाः (i) ........... 
सादर.प्रणामः। 
अत्र (ii) ............ तत्रास्तु। भवतां पत्रेण ज्ञातम् सम्प्रति पूज्या माता (ii) ............ पीडिता अस्तिः। अनेन अतीव कष्टं (iv) ............ .."मनसि वर्तते। अहम् मातरम् द्रष्टुम् (v) ............. किन्तु (vi) ........... समर्थः नास्मि। ईश्वरकृपया सर्वं (vii) ........... भवतु। 
(viii) ............... नमः। 
(ix) ............ पुत्रः 
(x) ..............
उत्तराणि :
(i) पितृमहाभागाः 
(ii) कुशलम् 
(iii) कासेन 
(iv) मम 
(v) इच्छामि 
(vi) आगन्तुम् 
(vii) शुभम् 
(viii)सर्वेभ्यः 
(ix) भवताम्। 
(x) रोहितः 

प्रश्न 43. 
भवती मानसी छात्रावासे च वसति। स्वमातरं प्रति लिखितं निमन्त्रणपत्रं मञ्जूषापद-सहायतया पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत। 
प्रणामाः, कृते, दास्यति, पूज्यपित्रा, मातः, वार्षिकोत्सवः, चिन्तिता, भवत्याः, पश्यतु, उत्साहवर्धनम्, पित्रा, भवती गच्ची बावली मनोहरपुरतः दिनाङ्कः 
पूज्ये (i) ..... .. 
. सादरं चरणस्पर्शः भवत्याः। 
गत सप्ताहे पत्रं प्राप्तम्। अहं भवत्याः स्वास्थ्यविषये (ii) ............ अस्मि। मम पठनं नियमितम् अस्ति। आगामि-नवम्बर मासे मम विद्यालयस्य (ii) ................ अस्ति। अयम् वार्षिकोत्सवः मम (iv) ............. महत्त्वपूर्णः अस्ति। अस्मिन् उत्सवे प्रधानाचार्यः मह्यम् विशिष्टछात्रस्य पुरस्कारं (v) ..............। अत एव अहम् इच्छामि यत् भवती अपि अत्रांगत्य इमम् उत्सवं (vi) ...........। येन मम (vii) ........... अपि भविष्यति। अतः (viii) ........... सह मम विद्यालये अवश्यमेव आगच्छतु। भवतोः चरणेषु (ix) ... ..........अग्रजाय च नमो नमः। (x) ..........
प्रियपुत्री 
मानसी 
उत्तराणि : 
(i) मातः। 
(ii) चिन्तिता 
(iii) वार्षिकोत्सवः 
(iv) कृते। 
(v) दास्यति 
(vi) पश्यतु 
(vii) उत्साहवर्धनम् 
(viii) पूज्यपित्रा 
(ix) प्रणामाः 
(x) भवत्याः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 44. 
भवान् स्निग्धः। नवप्रविष्टस्य वैदेशिकस्य प्राचार्यपुत्रस्य वर्णनं कुर्वन् अग्रजम् प्रति लिखितम् पत्रं मञ्जूषायाः उचितैः पदैः पूरयत। 
[परिचयं, स्निग्धः, प्रणामाजलयः, समादरणीय, सहते, जीवनोपयोगीनि, आगमिष्यति, विदेशात्, पठितुम्, सर्वेभ्यः] 
नवोदयविद्यालयछात्रावासः 
कुशलगढतः 
तिथिः .................
(i) ........... अग्रज भ्रातः, 
सादरम् अभिवादनम्। 
अहम् अत्र कुशली अस्मि। अस्माकं दशमकक्षायां (ii) ....... आगतः प्राचार्यमहोदयस्य पुत्रः प्रविष्टः। सः तु अतीव अनुशासनप्रियः। अस्वच्छतां तु सः न (iii) ........... एव। सः अतीवयोग्यः संस्कृतानुरागी च। सः वदति विदेशेषु सर्वे संस्कृतं (iv) ......... उत्सुका: संस्कृते यानि ज्ञानरत्नानि सन्ति तानि (v) ......... सन्ति। यदा भवान् अत्र (vi) ........... तदा तेन सह (vii) ............ कारयिष्यामि। 
परिवारे (viii) ........... मम (ix) .......... निवेदनीयाः। भवताम् प्रियः अनुजः (x) .........
उत्तराणि :
(i) समादरणीय 
(ii) विदेशात् 
(iii) सहते 
(iv) पठितुम् 
(v) जीवनोपयोगीनि 
(vi) आगमिष्यति 
(vii) परिचयम् 
(viii)सर्वेभ्यः 
(ix) प्रणामाञ्जलयः 
(x) स्निग्धः 

प्रश्न 45. 
भवान् उमेशः। उदयपुरनगरे छात्रावासे स्थित्वा अध्ययनं करोति। छात्रावासे स्वदिनचर्यायाः वर्णनम् कुर्वन् स्वमातरं प्रति लिखितं पत्रं पूरयित्वा पुनः लिखत। शब्दचयनं मञ्जूषातः कुरुत। 
[विद्यालयात्, सन्तोषः, सार्धचतुर्वादने, पादोनसप्तवादने, अध्ययनस्य, घण्टाद्वयम, विशेषतया, छात्रावासतः, उत्थाय, उमेशः] 
(i) ..............
तिथि: ..... / ..... 20XX पूजनीये मातः! 
सादरं प्रणामाः। 
अहम् अत्र कुशलः। भवत्याः पत्रम् प्राप्य मनसि (ii) .......... जातः यत् पितृमहोदयः इदानीम् पूर्णरूपेण स्वस्थोऽस्ति। सः मम स्वास्थ्यस्य (iii) ....... च विषये चिन्तितः आसीत्। परं चिन्तायाः न कोऽपि विषयः। अहम् प्रतिदिनं प्रातः चतुर्वादने (iv) .......... व्यायामं कृत्वा (v) ........ पठामि। ततः स्नात्वा दुग्धादिकं च पीत्वा (vi) ......... विद्यालयं गच्छामि। द्विवादने (vii) ........... आगत्य भोजनं कृत्वा विश्रामं करोमि। (viii) ............ उत्थाय गृहकार्यं करोमि। संस्कृतविषये अहम् (ix) .............. परिश्रमं करोमि। पितृमहाभागानाम् 
चरणयोः प्रणामाः कथनीयाः। भवत्याः प्रियः पुत्रः (x) ............. 
उत्तराणि :
(i) छात्रावासतः 
(ii) सन्तोषः 
(iii) अध्ययनस्य 
(iv) उत्थाय 
(v) घण्टाद्वयम् 
(vi) पादोनसप्तवादने
(vii) विद्यालयात् 
(viii)सार्धचतुर्वादने 
(ix) विशेषतया 
(x) उमेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 46. 
भवान् सौरभः। भवतः भगिनी रमा सर्वश्रेष्ठप्रचारिकापुरस्कार प्राप्तवती। तस्याः कृते लिखितं वर्धापनपत्रं मञ्जूषापदानां सहायतया पूरयित्वा पुनः लिखत। 
[कुर्वन्ती, कर्तुम्, अस्तु, भीलवाडातः, लब्धवती, प्रणामाञ्जलयः, सस्नेहम्, वर्धापनानि, संलग्ना, समुन्नतम्] 
एन 37, कृष्णानगरम् 
(i) .............। 
दिनाङ्कः .......... 
प्रिय रमे! 
(ii) .......... नमः। 
अत्र सर्वगतं कुशलं तत्रापि (iii) ............। मया दूरदर्शनात् वा श्रुत्वा ज्ञातं यत् भवती संस्कृत-क्षेत्रे "सर्वश्रेष्ठप्रचारिका" इति पुरस्कारं (iv) ...........। मम तु शिरः स्वाभिमानेन (v) ........... अभवत्। अहं जानामि यत् भवती बाल्यादेव प्रचारकार्ये (vi) ........। इदानीं ग्रामे ग्रामे संस्कृतसाहित्यस्य प्रचारं (vii) ................ भवती धन्या। भारतीयसंस्कृतेः रक्षणाय बहुपरिश्रमं (viii) ........... उद्यता। मम पक्षतः बहूनि (ix) ............ स्वीकरोतु। 
गृहे सर्वेभ्यः मम (x) ............ निवेदनीयाः। भवत्याः सद्भावी अग्रजः, सौरभः 
उत्तराणि:
(i) भीलवाडातः 
(ii) सस्नेहम् 
(iii) अस्तु 
(iv) लब्धवती 
(v) समुन्नतम् 
(vi) संलग्ना 
(vii) कुर्वन्ती 
(viii) कर्तुम् 
(ix) वर्धापनानि 
(x) प्रणामाञ्जलयः 

प्रश्न 47. 
भवान् सौम्यः। भवान् विद्यालयतः शैक्षिक-भ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं नवदिल्लीस्थं पितरं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[गच्छेयम्, मम, सह, पञ्चशतम्, प्रथमसत्रीया, प्रणामाः, भुवनेश्वरम्, जयपुरतः, भवताम्, स्यात्]
छात्रावासः 
(i) ................. 
तिथि: .................
माननीयाः पितृवर्याः! 
सादरं प्रणमामि। 
भवतः पत्रं प्राप्तम्। मम (ii) ............. परीक्षा समाप्ता। यावत् परीक्षा-परिणामः न आगच्छति तावत् आगामिमासस्य प्रथम सप्ताहे (iii) .............. .............. विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक-भ्रमणाय (iv) ........... नेष्यान्ति। अहम् अपि तैः (v) ............ गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापकाय (vi) ............ रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (vii) ........... तर्हि अहम् अपि (viii) ............ अतः कृपया उपर्युक्तं राशिं प्रेषयित्वा माम् अनुगृह्णन्तु। 
सर्वेभ्यः मम (ix) ........... निवेदनीयाः। 
(x) ........... प्रियः पुत्रः 
सौम्यः 
उत्तराणि :
(i) जयपरतः 
(ii) प्रथमसत्रीया 
(iii) मम 
(iv) भुवनेश्वरं 
(v) सह 
(vi) पञ्चशतम् 
(vii) स्यात् 
(viii) गच्छेयम् 
(ix) प्रणामाः 
(x) भवताम् 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 48. 
भरतः दिल्ली-नगरे वसति। तस्य मित्रं सुभाषः जयपुरनगरे वसति। सः स्वतन्त्रतादिवससमारोहस्य स्व-अनुभवान् मित्रं प्रति पत्रे लिखति। पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पुनः लिखत। 
[ददामि, छात्राः, प्रणामा:, सुभाष, गृहीतः, परिदृश्यानि, सैन्यबलानाम्, स्वतन्त्रता दिवसस्य, वातावरणम्, सञ्चालकः] 

नवदिल्लीतः 
दिनाङ्कः ............ 
प्रियमित्र (i) ............ ! 
सस्नेह नमस्ते। 
अत्र कुशलं तत्रास्तु। अहं (ii) ........... सञ्जायां व्यस्तः आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं (iii) .........। अस्मिन् वर्षे मयाऽपि स्वतन्त्रतादिवसस्य शोभायात्रायां भागः (iv) .......... अस्माकं विद्यालयस्य (v) .......... अपि रक्तदुर्गस्य प्राङ्गणे स्वकलायाः प्रदर्शनम् अकुर्वन्। अहं गरबा-नृत्यस्य प्रमुखः (vi) ........... आसम्। छात्राणां सैनिकानाम् च ओजस्वी ध्वनिः (vii).......... गुञ्जितम् अकरोत्। स्वराष्ट्रस्य (viii) ........... पराक्रम-प्रदर्शनानि, विचित्रवर्णानि (ix) ............. लोकनृत्यानि च दृष्ट्वा अहं गौरवान्वितः अस्मि। 
सर्वेभ्यः मम (x) ............... निवेदनीयाः। 
भवतः मित्रम् 
भरतः 
उत्तराणि-
(i) सुभाष 
(ii) स्वतन्त्रतादिवसस्य
(iii) ददामि 
(iv) गृहीतः 
(v) छात्राः 
(vi) सञ्चालकः 
(vii) वातावरणम् 
(viii) सैन्यबलानाम् 
(ix) परिदृश्यानि 
(x) प्रणामाः 

प्रश्न 49. 
भवान् अनुजः। स्वविद्यालयस्य वर्णनं कुर्वन् मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[मित्रम्, लेखिष्यामि, सुन्दरम्, छात्रा:, मित्र, इच्छामि, अत्युत्तमः, अध्यापकाः, सप्रेम, अस्य] 

परीक्षाभवनम् 
नदबईनगरतः 
तिथि: 
प्रिय (i) .......... विवेक! 
(ii) ............. । 
अत्र कुशलम् तत्रास्तु। अहम् अधुना निजविद्यालयस्य वर्णनं कर्तुम् (iii) ...........। मम विद्यालयस्य भवनम् अतीव विशालम् अतीव (iv) .......... चास्ति। एषः विद्यालयः अति प्रसिद्धः अस्ति। (v) .............. परीक्षापरिणामः (vi). भवति। सर्वे (vii). परिश्रमशीलाः सन्ति। (viii) ........ अपि अत्र अनुशासनप्रियाः सन्ति। विस्तरेण पुनः (ix).......। 
भवतः (x) अनुजः 
उत्तराणि :
(i) मित्र 
(ii) सप्रेम 
(iii) इच्छामि 
(iv) सुन्दरम् 
(v) अस्य 
(vi) अत्युत्तमः 
(vii) अध्यापकाः 
(viii)छात्राः 
(ix) लेखिष्यामि 
(x) मित्रम् 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 50. 
भवान् सुरेशः। भवतः अनुजः प्रवीण: संस्कृतसम्भाषणशिविरे भागं गृहीतवान्। तस्योत्साहवर्धनाय भवान् तस्मै पत्रं लिखति। पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[कुशलं, प्रसन्नतायाः, गृहीतवान्, अद्य, प्रतापगढतः, सुरेशः, भागः, संस्कृतसम्भाषणे, पठित्वा, अनुजः] 

(i) ................ 
दिनाङ्कः ...............

प्रिय (ii) .......... प्रवीणः! 
शुभाशीर्वादाः।
अत्र कुशलं तत्रास्तु। तव पत्रम् (iii) .........एव मया प्राप्तम्। पत्रं (iv) ......... सर्वं वृत्तं ज्ञातं, प्रसन्नता च संजाता। त्वं संस्कृतविद्यालये आयोजिते संस्कृतसम्भाषणशिविरे भागं (v) ............... । एकमासस्य अभ्यासानन्तरम् अधुना त्वं (vi) ............ प्रवीणः अभवः इति अस्माकं कृते (vii) ........... विषयः वर्तते। पित्रा उक्तं यत् यदि योग्यताभिवृद्ध्यर्थं एतादृशाः अन्ये अपि कार्यक्रमाः आयोज्यन्ते तर्हि तेषु त्वया पूर्णोत्साहेन (viii) ......... गृहीतव्यः। अध्ययने अपि अवधानं दातव्यम्।
शेषं सर्वं (ix) .................। समये-समये च स्वाध्ययनस्थिति-विषये अवबोधय। 

त्वदीयः शुभाकांक्षी 
(x) ...............

उत्तराणि :
(i) प्रतापगढतः 
(ii) अनुजः 
(iii) अद्य 
(iv) पठित्वा 
(v) गृहीतवान् 
(vi) संस्कृतसम्भाषणे 
(vii) प्रसन्नतायाः 
(vii) भागः 
(ix) कुशलं 
(x) सुरेशः 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनौपचारिकम् पत्र-लेखनम्

प्रश्न 51. 
भवान् सोहनः। भवान् ग्रीष्मावकाशे भ्रमणार्थं गमिष्यति। एतदर्थं स्वमित्रं आमन्त्रयितुं लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[मित्रम्, पूज्येभ्यो, करिष्यामः, भवान्, कुशलता, प्रणामाः, नमस्ते, रोचते, भ्रमणार्थ, मम]  

अजयमेरुतः 
दिनाङ्कः .............

प्रियमित्र दीपक! 
(i) ..........
अत्र अहं कुशलः, भवतः (ii) .......... कामये। अहं मातापितृभ्यां सह अस्मिन् ग्रीष्मावकाशसमये (iii) ............ हिमाचलप्रदेश गमिष्यामि। (iv) .........." अपि अस्माभिः सह तत्र चलतु इति (v) ........... प्रबलेच्छा अस्ति। वयं सर्वे तत्र मिलित्वा आनन्दानुभवं (vi) ........... मदीयः अयं प्रस्तावः भवते (vii) ...........चेत्, ज्ञापयतु। परिवारे (viii) ........ सर्वेभ्यो जनेभ्यो मम (ix) ............. निवेदनीयाः। पत्रस्योत्तरं शीघ्रमेव प्रेषणीयम्। 

भवतः (x) .......... 
सोहनः 

उत्तराणि :
(i) नमस्ते 
(ii) कुशलतां 
(iii) भ्रमणार्थं 
(iv) भवान् 
(v) मम 
(vi) करिष्यामः 
(vii) रोचते 
(viii)पूज्येभ्यो 
(ix) प्रणामाः
(x) मित्रम् 

Prasanna
Last Updated on May 9, 2022, 5:47 p.m.
Published May 9, 2022